| YouTube Channel

बाभ्लक्षकः-क्षिका (bAbhlakSakaH-kSikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“भ्लक्ष अदने”@} 2 ‘भक्ष’ इति क्षीरस्वामी इति मा।
धातुवृत्तावुक्तम्।
पुरुषकारेऽप्येवमेव।
‘भक्ष’ इति मैत्रेयः।
‘प्लक्ष’ इति दुर्गः।
मुद्रितक्षीरतराङ्गिण्यां तु ‘भ्लक्ष--’ इत्येव पाठो दृश्यते।
चुरादिषु भक्ष 3 धातौ क्षीरस्वामिनैव ‘भक्षतेर्घञ्- भक्षः।’ इत्युक्तत्वात् अदनार्थकस्य भक्षतेर्भ्वादिषु कुत्राप्यपाठात्, एनमेव 4 भक्षतिं मनुते इति भाति।
दुर्गादयस्तु धातुममुं ‘प्लक्ष--’ इति पठन्ति।
“तस्य शिरः छित्त्वा मेघं प्राक्षारयन्, प्रक्षोऽभवत्।
तत् प्रक्षस्य प्रक्षत्वम्-यत् प्लक्षशाखा--” 5 इति श्रुत्यनुसारेण प्रपूर्वकात् क्षरतेः पचाद्यचि कपिलकादेराकृतिगणत्वात् 6 उपसर्गस्थरेफस्य लत्वे प्लक्षशब्दव्युत्पादनं कृतवतो भाष्यकारस्य सम्मतमिति, अन्यथा 7 अस्मादेव पचाद्यचि प्लक्षशब्दसिद्धेः, श्रौतनिर्वचनस्याप्रसक्तेरिति मनीषया सुदूरं विचार्य माधवधातुवृत्तौ पाठोऽयं निरस्त इति ज्ञेयम्।
शतपथब्राह्मणे 8 ‘प्रख्यो हवै नामैतत् यत् प्लक्षः।’ इत्युक्तमपीह ध्येयम्।
भ्लक्षकः-क्षिका, भ्लक्षकः-क्षिका, बिभ्लक्षिषकः- षिका, बाभ्लक्षकः-क्षिका
भ्लक्षिता-त्री, भ्लक्षयिता-त्री, बिभ्लक्षिषिता-त्री, बाभ्लक्षिता-त्री
इत्यादीनि सर्वाणि रूपाणि भौवादिकध्रजतिवत् 9 ज्ञेयानि।
अस्य धातोः उभयपदि- त्वात् शानचि-भ्लक्षमाणः, भ्लक्षिष्यमाणः, इति विशेषः।
ल्यपि- 10 प्रभ्लक्ष्य इति।
प्रासङ्गिक्यः
01
=>
(११९४)
02
=>
(१-भ्वादिः-८९३। अक। सेट्। उभ।)
03
=>
(२१)
04
=>
[पृष्ठम्०९८७+ २८]
05
=>
(मैत्रायणीयसंहिता-६-३-१०-२)
06
=>
(वा। ८-२-१८)
07
=>
(प्लक्षधातुसद्भावे)
08
=>
(३-८-३-१२)
09
=>
(९२६)
10
=>
[[आ। ‘लाषेण चाषांश्छषितान् झषित्वा प्रभ्लक्ष्य भक्षन्ति यदम्बु नीचाः।’ धा। का। २। २८।]]