| YouTube Channel

बाभ्राजकः-जिका (bAbhrAjakaH-jikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“टु भ्राजृ दीप्तौ”@} 2 3 भ्वादौ प्रथमतः, ‘भ्राजृ दीप्तौ’ इति पठित्वा, पुनर्घटादौ ‘टु भ्राजृ दीप्तौ’ इति पठ्यते।
इमौ उभावपि दीप्त्यर्थकौ ऋदितौ चेति ज्ञायते।
न्यासकारस्तु ‘भ्राज दीप्तौ’ इत्येव ‘भ्राजभासधुर्वि--’ 4 इत्यत्र पपाठ।
पदमञ्जर्यामपि 5 ‘भ्राज दीप्तौ’ इत्येव पाठो लक्ष्यते।
‘भ्राजधातोः ऋदित्करणमपाणिनीयम्।’ इति काशिका 6 अत्र ज्ञेया।
‘… ऋदित्त्वमनुदात्तेत्त्वमात्रफलम्।’ इति मा।
धा।
वृत्तिः।
ऋदित्त्वस्य तिङन्त एवोपयोगादस्माभिरुभावपि धातू समुच्चित्योपात्तौ।
घटादिष्वेव फणादयः सप्त धातवोऽन्ते पठिताः।
तत्र ‘टु भ्राजृ--’ इत्येव पाठः त्त्यासकार-मैत्रैय- रक्षित-पुरुषकार-सायण-सिद्धान्तकौमुद्यादिसम्मतः।
क्षीरस्वामी तु ‘भ्राजृ, टु भ्राशृ--’ इत्यादि पठित्वा, ‘टुरुभयस्य--इत्येके।
‘ट्वितोऽ- थुच्’ 7 भ्राजथुः।” इत्याह।
चान्द्राणां काशकृत्स्नीयानां धातुपाठे भ्राज इत्येव घटादौ पठितः तु ‘टु भ्राजृ’ इति क्षी।
टीकायां प्रतिपादितम्।
एतत् सर्वमत्रानुसन्धेयम्।
‘अवश्यपठितव्येन फ8णादिकेन भ्राजते इत्यादीनां सिद्धेः इह 9 पाठोऽनार्ष इव।’ इति न्यासकारवचनं मा।
धा।
वृत्तौ उपात्तमप्यत्रावधेयम्।]] भ्राजकः-जिका, भ्राजकः-जिका, बिभ्राजिषकः-षिका, बाभ्राजकः-जिका
10 इत्यादीनि सर्वाण्यपि रूपाणि प्रातिस्विकरूपाणि विना, भौवादिककाशतिवत् 11 ज्ञेयानि।
क्विपि-- 12 विभ्राक् 13 -विभ्राग्-विभ्राजौ-विभ्राजः, 14 भ्राजिष्णुः 15, 16 विभ्राट्-विभ्राड्-विभ्राजौ-विभ्राजः, 17 भ्राजथुः, 18 बभ्राजिवान्, बभ्राजिवान्- भ्रेजिवान्, 19 भ्राता, 20 नभ्राट्, भ्राष्टिः, इति रूपाण्यस्य सम्भवन्तीति विशेषः।
21
प्रासङ्गिक्यः
01
=>
(११८७)
02
=>
(१-भ्वादिः-१८१। ८२३ अक। सेट्। आत्म।)
03
=>
[[[अ]
04
=>
(३-२-१७७)
05
=>
(७-४-३)
06
=>
(७-४-३)
07
=>
(३-३-८९)
08
=>
[फा?]
09
=>
(= घटादिभिन्नस्थले भ्वादिषु)
10
=>
[पृष्ठम्०९८४+ ३०]
11
=>
(१८६)
12
=>
[[१। ‘भ्राजभासधुर्वि--’ (३-२-१७७) इत्यादिना तच्छीलादिषु कर्तृषु क्विप्प्रत्ययः। ‘चोः कुः’ (८-२-३०) इति पदान्ते कुत्वम्। एतच्च घटादिष्वर्पांठतस्य ‘भ्राजृ दीप्तौ, इति भौवादिकस्य भ्राजतेः क्विपि रूपमिति ज्ञेयम्।]]
13
=>
[[आ। ‘अभ्रेजि विभ्राग्भिरनीजितैश्च यत् कदाऽप्यशोचद्भिरशेषजन्तुभिः।’ धा। का। १। २५।]]
14
=>
[[२। ‘भुवश्च’ (३-२-१३८) इत्यत्र चकारेणास्मादपि धातोः इण्णुच्प्रत्यय इति काशिका- दिषूच्यते। अत्रपि भ्राजिष्णुरिति द्विविधस्यापि भ्राजतेः सम्पद्यते इति बहवः। ‘भ्राजिष्णुना लोहितचन्दनेन--’ इति काशिकामुपादाय पदमञ्जर्याम्-- ‘नैतद् भाष्ये समाश्रितम्।’ इत्युक्तम्। इदानीं भाष्यकोशेषु ‘भुवश्च’ (३-२-१३८) इति सूत्रस्य भाष्यमेव नोपलभामहे। धातुकाव्यव्याख्याने तु (२-२०) घाटादिकस्य ‘टु भ्राजृ--’ इति धातोः इष्णुच्प्रत्यय इति प्रतिपादितम्।]]
15
=>
[[B। ‘कृष्णोऽपि रेजे पथि गोपबालैः भ्राजिष्णुभिः भ्राशितपार्श्वदेशः।’ धा। का। २। २०।]]
16
=>
[[३। ‘टु भ्राजृ--’ इत्यस्य ताच्छीलिके क्विपि, ‘व्रश्चभ्रस्जसृजमृजयजराजभ्राज--’ (८-२-३६) इत्यनेन षत्वे, जश्त्वचर्त्वयोश्च रूपमेवम्। क्विब्विधायके सूत्रे काशिकायाम् (३-२-१७७) विभ्राट् इत्युदाहृतत्वेऽपि, सूत्रे घटादिपठितयोः तदितरयोरुभयोरपि भ्राजधात्वोर्ग्रहणमेव
\n\n षत्वं तु ‘व्रश्चभ्रस्ज--’ (८-२-३६) इत्यत्र राजधातुसाहचर्यात् फणादि (घटादि) भ्राजतेरेव इत्यादिकं प्रकृतस्थले मा। धा। वृत्तौ स्फुटम्।]]
17
=>
[[४। ‘ट्वितोऽथुच्’ (३-३-८९) इति भावेऽथुच्प्रत्यये रूपमेवम्।]]
18
=>
[[५। कर्तरि लिटः क्वसौ घटादेरन्यत्र पठितस्य भ्राजते रूपमेवम्। घाटादिकस्य क्वसौ तु, ‘फणां सप्तानाम्’ (६-४-१२५) इत्येत्वाभ्यासलोपविकल्पः। तेन रूपद्वयमिति ज्ञेयम्।]]
19
=>
[[६। ‘भ्राजते इति भ्राता’ इति रूपं क्षीरतरङ्गिण्यां, दशपाद्युणादिवृत्तौ (द। उ। २। ३) भ्राजतेस्तृनि, तृचि वा, पृषोदरादित्वात् (६-३-१०९) जकारलोपे साधितम्। भाष्ये (१-२-६८) तु ‘यदि तावद् बिभर्तीति भ्राता’ इत्युक्तत्वात् बिभर्तेर्धातोरेव भ्रातृशब्दनिष्पादनं न्याय्यमिति प्रतिभाति।]]
20
=>
[[७। ‘न भ्राजते इति नभ्राट्। नञ्समासे, ‘न भ्राण्नपात्--’ (६-३-७५) इत्यादिना नञः प्रकृतिभावः।]]
21
=>
[पृष्ठम्०९८५+ २७]