| YouTube Channel

बाभल्लकः-ल्लिका (bAbhallakaH-llikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“भल्ल परिभाषणहिंसादानेषु”@} 2 भल्लकः-ल्लिका, भल्लकः-ल्लिका, बिभल्लिषकः-षिका, बाभल्लकः-ल्लिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककड्डतिवत् 3 ज्ञेयानि।
4 5 भल्लः-भल्ली, 6 भल्लूकः, 7 भल्लनः, 8 भल्लटः, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
ल्युटि- 9 भल्लनम्।
प्रासङ्गिक्यः
01
=>
(११५०)
02
=>
(१-भ्वादिः-४९६। सक। सेट्। आत्म।)
03
=>
(१५६)
04
=>
[पृष्ठम्०९४५+ २८]
05
=>
[[१। भल्यते हिंस्यतेऽनेनेति, ‘पुंसि संज्ञायाम्--’ (३-३-११८) इति घः। ‘हलश्च’ (३-३-१२१) इति वा घञ् प्रत्यये रूपमेवम्। भल्लः = आयुधविशेषः। ‘जातेरस्त्री- विषयादयोपधात्’ (४-१-६३) इति स्त्रियां ङीष्प्रत्यये भल्ली इति रूपम्।]]
06
=>
[[२। ‘उलूकादयश्च’ (द। उ। ३-१६) इति ऊकप्रत्यये रूपमेवम्। भल्लूकः = ऋक्षः।]]
07
=>
[[३। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति ताच्छीलिको युच्प्रत्ययः।]]
08
=>
[[४। बाहुलकादौणादिके अटप्रत्यये रूपमेवम्। भल्लते = परितो भाषतेऽयमिति भल्लटः = कविविशेषः।]]
09
=>
[[आ। ‘मामल्यमानं स्मितमल्लिकावलीमाभाल्यदैत्याधि{??} भल्लनोद्धुरम्।’ धा। का। १। ६४]]