| YouTube Channel

बाबाडकः-डिका (bAbADakaH-DikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“बाडृ आप्लाव्ये”@} 2 आप्लाव्यम् = वेगेनोत्क्षिप्य गमनम्।
ओष्ठ्यादिरयं धातुः।
औत्तराः सर्वेऽपि ग्रन्थकाराः वबयोः प्रयोगं बहुघा विपर्यस्य कुर्वन्ति।
बाडकः-डिका, बाडकः-डिका, बिबाडिषकः-षिका, बाबाडकः-डिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकगाधतिवत् 3 ज्ञेयानि।
4 बाडितम्, 5 बाडः।
प्रासङ्गिक्यः
01
=>
(१११०)
02
=>
(१-भ्वादिः-२८६। सक। सेट्। आत्म।)
03
=>
(३९४)
04
=>
[[आ। ‘अहोडनीयान् पशुपालयानसौ अपश्यदानन्दपयोधिबाडितः।’ धा। का। १। ३८।]]
05
=>
[[२। बाडते = वेगेनोत्क्षिप्य गच्छतीति बाडः = अश्वः। पचाद्यचि रूपम्।]]