| YouTube Channel

बाबलकः-लिका (bAbalakaH-likA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“बल प्राणने धान्यावरोधने च”@} 2 ज्वलादिः।
प्राणनम् = जीवनम्।
धान्यावरोधनम् = कुसूलादिव्यापारः।
प्राणनेऽकर्मकः, धान्यावरोधने सकर्मकः।
बालकः-लिका, बालकः-लिका, बिबलिषकः-षिका, बाबलकः-लिका
3 इत्यादीनि सर्वाण्यपि रूपाणि तद्धातूपात्तविशेषरूपाणि विना भौवादिक- कलतिवत् 4 ज्ञेयानि।
5 बालः-बलः, 6 बाला, 7 बाहुबली-ऊरुबली, सर्वबली, 8 इतीन्प्रत्यये रूपम्।]] बलिः, 9 बलवान्-बली, 10 बलूलः, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(११०३)
02
=>
(१-भ्वादिः-८४०। सक। सेट्। पर।)
03
=>
[पृष्ठम्०९२१+ ३०]
04
=>
(१७४)
05
=>
[[१। ‘ज्वलितिकसन्तेभ्यो णः’ (३-१-१४०) इति कर्तरि वा णप्रत्ययः। तदभावपक्षे पचाद्यचि बलः इति रूपम्।]]
06
=>
[[२। बालशब्दस्याजादिषु (४-१-४) पाठात् ‘वयसि प्रथमे’ (४-१-२०) इति ङीष् न, टाबेव भवति।]]
07
=>
[[३। ‘बलाद् बाहूरुपूर्वपदात्, सर्वादेश्च’ (वा। ५-२-१३५) इति वचनात् मत्वर्थीय इनिप्रत्यये रूपाण्येतानि साधूनि।]]
08
=>
[[४। ‘इन्’ [द। उ। १-४६]
09
=>
[[५। मत्वर्थीये इनिप्रत्यये, मतुपि मतोर्वकारे एते रूपे भवतः।]]
10
=>
[[६। ‘वातदन्तबलललाटानामूङ् च’ (ग। सू। ५-२-९७) इति सिध्मादिषु पाठात् मत्वर्थीये लच्प्रत्यये ऊङागमे रूपमेवम्।]]