| YouTube Channel

बाधकः (bAdhakaH)

 
शब्दकल्पद्रुमः
Sanskrit
बा(वा)धकः,
पुं,
(बा(वा)धते इति बाध + ण्वुल् ।)स्त्रीरोगविशेषः यथा, --“रक्तमाद्री तथा षष्ठी चाङ्कुरो जलकुमारकः ।चतुर्विधो बाधकः स्यात् स्त्रीणां मुनिविभाषितः
तेषां स्वभावं वक्ष्यामि यथाशास्त्रं विधानतः ।एतेषां पूजनं कार्य्यं जनैः सन्तानकाङ्क्षिभिः
निःसारणं स्थापनञ्च बलिदानं जपस्तथा ।कर्त्तव्यो गुरुवाक्येन यथाशास्त्रं विचक्षणैः
चतुर्विधो बाधकस्तु जायते ऋतुकालतः
”तस्य लक्षणं यथा, --“व्यथा कट्यां तथा नाभेरधः पार्श्वे स्तनेऽपिच ।रक्तमाद्रीप्रदोषेण जायते फलहीनता
मासमेकं द्बयं वापि ऋतुयोगो भवेद्यदि ।रक्तमाद्रीप्रदोषेण फलहीना तदा भवेत्
”इति रक्तमाद्र्याः
“नेत्रे हस्ते भवेज्ज्वाला योनौ चैव विशेषतः ।लालासंयुतरक्तञ्च षष्ठीबाधकयोगतः
मासैकेन भवेद्यस्या ऋतुस्नानद्बयं तथा ।मलिना रक्तयोनिः स्यात् षष्ठीबाधकयोगतः
”इति षष्ठ्याः
“उद्बेगो गुरुता देहे रक्तस्रावो भवेद्बहु ।नाभेरधो भवेत् शूलं चाङ्कुरः तु बाधकः
ऋतुहीना चतुर्म्मासं त्रिमासं वा भवेद्यदि ।कृशाङ्गी करपादे ज्वाला चाङ्कुरयोगतः
”इति चाङ्कुरस्य
“सशूला सगर्भा शुष्कदेहाल्परक्तिका ।जलकुमारस्य दोषेण जायते फलहीनता
या कृशाङ्गी भवेत् स्थूला बहुकालऋतुस्तथा ।गुरुस्तनी स्वल्परक्ता जलकुमारस्य दूषणात्
”इति जलकुमारस्य
इति वैद्यकम्
बाधाजनके, त्रि
(यथा, मार्कण्डेये ३४ १६ ।“घर्म्मो धर्म्मानुबन्धार्थो धर्म्मो नात्मार्थ-बाधकः
”)