बाणिज्य (bANijya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritबा(वा)णिज्यं, (बणिजो भावः कर्म्म वा । बणिज्+ ष्यञ् ।) वैश्यवृत्तिभेदः । इत्यमरः ॥
बणिजःकर्म्म भावो वा । बाणिज्येत्यपि दृश्यते । इतिभरतः ॥
तत्पर्य्यायः । सत्यानृतम् २ बाणिज्या ३बणिक्पथः ४ । इति जटाधरः ॥
(यथा, मार्कण्डेये । ५१ । ५४ ।“कृष्यां बाणिज्यलाभे च शान्तिं कुर्व्वन्तु मेसदा ॥
”)क्रयविक्रयरूपस्य तस्य विवरणादि यथा, --“मानेन तुलया वापि योऽशमष्टमकं हरेत् ।दण्डं स दाप्यो द्विशतं वृद्धौ हानौ च कल्पि-तम् ॥
”यः पुनर्बणिक् ब्रीहिकार्पासादेः पण्यस्याष्टम-मंशं कूटमानेन कूटतुलया वान्यथापहरत्यसौपणानां द्विशतं दण्डनीयः । अपहृतस्य पुन-र्द्रव्यस्य वृद्धौ हानौ च दण्डस्यापि वृद्धिहानीकल्प्ये ॥
“भेषजस्नेहलवणगन्धधान्यगुडादिषु ।पण्येषु प्रक्षिपन् हीनं पणान् दाप्यस्तु षोडश ॥
”मेषजमौषधद्रव्यं स्नेहो घृतादिः गन्धद्रव्यमुशी-रादि आदिशब्दाद्धिङ्गुमरिचादि । एतेष्वसार-द्रव्यं विक्रयार्थं मिश्रयतः षोडशपणो दण्डः ॥
किञ्च ।“मृच्चर्म्ममणिसूत्रायःकाष्ठवल्कलवाससाम् ।अजातौ जातिकरणे विक्रेयाष्टगुणो दमः ॥
”न विद्यते बहुमूल्या जातिर्यस्मिन् मृच्चर्म्मादिकेतदजातिः तस्मिन् जातिकरणे विक्रयार्थं गन्ध-वर्णरसान्तरसञ्चारणेन बहुमूल्यजातीयसादृश्य-सम्पादने यथा मल्लिकामोदसञ्चारणेन मृत्ति-कायां सुगन्धामलकमिति । मार्जारचर्म्मणिवर्णोत्कर्षापादनेन व्याघ्रचर्म्मेति स्फटिकमणौवर्णान्तरकरणेन पद्मराग इति कार्पासिके सूत्रेगुणोत्कर्षाधानेन पट्टसूत्रमिति कार्ष्णायसेवर्णोत्कर्षाधानेन रजतमिति विल्वकाष्ठे चन्द-नामोदसञ्चारणेन चन्दनमिति कक्कोले त्वगाख्यंलवङ्गमिति कार्पासिके वाससि गुणोत्कर्षा-धानेन कौशेयमिति विक्रेयस्यापादितस्य दृश्य-मृच्चर्म्मादेः पण्यस्याष्टगुणो दण्डो वेदितव्यः ॥
“समुद्गपरिवर्त्तञ्च सारभाण्डञ्च कृत्रिमम् ।आधानं विक्रयं वापि नयतो दण्डकल्पना ॥
भिन्ने पणे तु पञ्चाशत् पणे तु शतमुच्यते ।द्विपणे द्बिशतो दण्डो मूल्यवृद्धौ च वृद्धिमान् ॥
”मुद्गं पिधानं मुद्गेन सह वर्त्तत इति समुद्गंकरण्डकम् । परिवर्त्तनं व्यत्यासः । योऽन्यदेवमुक्तानां पूर्णं करण्डकं दर्शयित्वा हस्तलाघवे-नान्यदेव स्फटिकानां पूर्णकरण्डकं समर्पयतियश्च सारं भाण्डं कस्तूरिकादिकं कृत्रिमं कृत्वाविक्रयमाधिं वा नयति तस्य दण्डकल्पना वक्ष्य-माणा वेदितव्या । कृत्रिमकस्तूरिकादेर्मूल्य-भूते पणे भिन्ने न्यूने न्यूनपणमूल्यमिति । यावत्त-स्मिन् कृत्रिमे विक्रीयते पञ्चाशत्पणो दण्डःपणमूल्ये पुनः शतं द्बिपणमूल्ये द्बिशतो दण्डइत्येवं मूल्यवृद्धौ दण्डवृद्धिरुन्नेया ॥
* ॥
बणिजःप्रत्याह ।“सम्भूय कुर्व्वतामर्घं सबाधङ्कारुशिल्पिनाम् ।अर्घस्य ह्रासं वृद्धिं वा जानतां दम उत्तमः ॥
”राजनिरूपितार्घस्य ह्रासं वृद्धिं वा जानन्तो-ऽपि बणिजः सम्भय मिलित्वा कारूणां रजका-दीनां शिल्पिनां चित्रकरादीनां सबाधं पीडा-करमर्घान्तरं लाभलोभात् कुर्व्वन्तः पणसहसंदण्डनीयाः ॥
* ॥
किञ्च ।“सम्भूय बणिजां पण्यमनर्घेणोपरुन्धताम् ।विक्रीणतां वा विहितो दण्ड उत्तमसाहसः ॥
”ये पुनर्बणिजो मिलित्वा देशान्तरादागतंपण्यमनर्घण हीनमूल्येन प्रार्थयमाना उप-रुन्धन्ति महार्घण वा विक्रीणते तेषामुत्तम-साहसो विहितो दण्ड्यो मन्वादिभिः ॥
* ॥
केनपुनरर्घेण पणितव्यमित्याह ।“राजनि स्थाप्यते योऽर्घः प्रत्यहं तेन विक्रयः ।क्रयो वा निस्रवस्तस्माद्बणिजां लाभकृत् स्मृतः ॥
”राजनि सन्निहिते सति यस्तेनार्घः स्थाप्यतेनिरूप्यते तेनार्घेण प्रतिदिनं क्रयो विक्रयो वाकार्य्यः । निर्गतः स्रषो निस्रवोऽवशेषः तस्मा-द्राजनिरूपिताद्यो निस्रवः स एव बणिजांलाभकारी न पुनः स्वच्छन्दपरिकल्पितात् ।मनुना चार्घ्यकरणे विशेषो दर्शितः ।“पञ्चरात्रे पञ्चरात्रे पक्षे मासे तथा गते ।कुर्व्वीत चैषां प्रत्यक्षमर्घसंस्थापनं नृप ! ॥
”इति ।किञ्च ।“स्वदेशपण्ये च शतं बणिक् गृह्णीत पञ्चकम् ।दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी ॥
”स्वदेशप्राप्तपण्यं गृहीत्वा यो विक्रीणीतेऽसौपञ्चकं शतं पणशते पणपञ्चकं लाभं गृह्णीयात् ।परदेशप्राप्ते पुनः पण्ये शतपणमृल्ये दशपणान्लाभं गृह्णीयात् । यस्य पण्यग्रहणदिवस एवविक्रयः सम्पद्यते । यः पुनः कालान्तरेऽपिविक्रीणीते तस्य कालोत्कर्षवशाल्लाभोत्कर्षःकल्प्यः । एवञ्च यथार्घे निरूपिते पणशतेपञ्चपणो लाभो भवति तथैवार्घे राज्ञा स्वदेश-पण्यविषये स्थापनीयः ॥
* ॥
परदेशपण्येअर्घनिरूपणप्रकारमाह ।“पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवम् ।अर्घोऽनुग्रहकृत् कार्य्यः क्रेतुर्विक्रेतुरेव च ॥
”देशान्तरादागते पण्ये देशान्तरगमनप्रत्या-गमनभाण्डग्रहणशुल्कादिस्थानेषु यावानुप-युक्तोऽर्थस्तावन्तमर्थं परिगणय्य पण्यमूल्येन सहमेलयित्वा यथा पणशते दशपणो लाभः सम्प-द्यते तथा क्रेतृविक्रे त्रोरनुग्रहकार्य्योऽर्घो राज्ञास्थापनीयः ॥
* ॥
प्रासङ्गिकं परिसमाप्याधुनाविक्रीयासम्प्रदानम्प्रक्रमते । तत्स्वरूपं नारदे-नाभिहितम् ।“विक्रीय पण्यं मूल्येन क्रेतुर्यन्न प्रदीयते ।विक्रीयासम्प्रदानं तद्विवादपदमुच्यते ॥
”तत्र विक्रेयद्रव्यस्य चराचरभेदेन द्बैविध्यमभि-धाय पुनः षड् विधत्वं तेनैव प्रत्यपादि ।“लोकेऽस्मिन् द्विविधं पण्यं जङ्गमं स्थावरंतथा ।षड्विधस्तस्य तु बुधैर्दानादानविधिः स्मृतः ॥
गणिकं तुलिमं मेयं क्रियया रूपतः श्रिया ॥
”इति ॥
गणिकं क्रमुकफलादि । तुलिमं कुङ्कुमादि ।मेयं शाल्यादि । क्रियया वाहदोहादिरूपयो-पलक्षितमश्वमहिष्यादि । रूपतः पण्याङ्ग-नादि । श्रिया दीप्त्या मरकतपद्मरागादि ॥
* ॥
इत्येतत् षट्प्रकारमपि पण्यं विक्रीयासंप्रय-च्छतो दण्डमाह ।“गृहीतमूल्यं यः पण्यं क्रेतुर्न्नैव प्रयच्छति ।सोदयं तस्य दाप्योऽसौ दिग्लाभं वा दिगागते ॥
”गृहीतं मूल्यं यस्य पण्यस्य विक्रेत्रा तद्गृहीत-मूल्यं तद्यदि विक्रेत्रा प्रार्थयमानाय स्वदेश-बणिजे क्रेत्रे न समर्पयति । तच्च पण्यं यदिक्रयकाले बहुमूल्यं सत् कालान्तरेऽल्पमूल्येनैवलभ्यते तदार्घह्रासकृतो य उदयो वृद्धिः पण्यस्यस्थावरजङ्गमात्मकस्य तेन सहितं पण्यं विक्रेताक्रेत्रे दापनीयः । यदा मूल्यह्रासकृतः पण्य-स्योदयो नास्ति किन्तु क्रयकाले यावदेव यतोमूल्यस्येयत्पण्यमिति प्रतिपन्नं तावदेव तदातत् पण्यमादाय तस्मिन् देशे विक्रीणानस्य योलाभस्तेनोदयेन सहितं द्विकं त्रिकमित्यादिप्रतिपादितवृद्धिरूपोदयेन वा सहितं क्रेतृ-वाञ्छावशाद्दापनीयः ॥
* ॥
यथाह नारदः ।“अर्घश्चेदवहीयेत सोदयं पण्यमावहेत् ।स्थानिनामेष नियमो दिग्लाभं दिग्विचारिणाम् ॥
”इति ॥
यदा त्वर्घमहत्त्वेन पण्यस्य न्यूनभावस्तदातस्मिन् पण्ये वस्त्रगृहादिके य उपभोगःतदाच्छादनसुखनिवासादिरूपो विक्रेतुस्तत्-सहितं पण्यमसौ दाप्यः । यथाह नारदः ।“विक्रीय पण्यं मूल्येन यः क्रेतुर्न प्रयच्छति ।स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफलम् ॥
”इति ॥
विक्रेतुरुपभोगः क्षय उच्यते । क्रेतुः सम्बन्धि-त्वेन क्षीयमाणत्वान्न पुनः कुड्यपातशस्यघाता-दिरूपः । तस्य तु ।“उपहन्येत वा पण्यं दह्येतापह्रियेत वा ।विक्रेतुरेव सोऽनर्थो विक्रीयासंप्रयच्छतः ॥
”इत्यनेनोक्तत्वात् ।यदा त्वसौ क्रेता देशान्तरात् पण्यग्रहणार्थ-मागतस्तदा तत् पण्यमादाय देशान्तरे विक्री-णानस्य यो लाभस्तेन सहितं पण्यं विक्रेताक्रेत्रे दापयितव्यः । अयञ्च क्रीतपण्यसमर्पण-नियमोऽनुशयाभावे द्रष्टव्यः । सति त्वनुशयेक्रीत्वा विक्रीय वा किञ्चिदित्यादि मनूक्तंवेदितव्यम् ॥
* ॥
किञ्च ।“विक्रीतमपि विक्रेयं पूर्व्वक्रेतर्य्यगृह्णति ।हानिश्चेत् क्रेतृदोषेण क्रेतुरेव हि सा भवेत् ॥
”यदा पुनर्जातानुशयः क्रेता पण्यं न जिघृक्षतितदा विक्रीतमपि पण्यं अन्यत्र विक्रे यम् । यदापुनर्विक्रेत्रा दीयमानं क्रेता न गृह्णाति तच्चपण्यं राजदैविकेनोपहतं तदा क्रेतुरेवासौहानिर्भवेत् । पण्याग्रहणरूपेण क्रेतृदोषेणनाशितत्वात् ॥
* ॥
अपि च ।“राजदैवोपघातेन पण्ये दोषमुपागते ।हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः ॥
”यदा पुनः क्रेत्रा प्रार्थ्यमानमपि पण्यं विक्रेतान समर्पयति अजातानुशयोऽपि तच्च राज-दैविकेनोपहतं भवति तदासौ हानिर्विक्रेतुरे-वातोऽन्यददुष्टं पण्यं विनष्टसदृक्षं क्रेत्रे देयम् ॥
किञ्च ।“अन्यहस्ते च विक्रीतं दुष्टं वा दुष्टवद्यदि ।विक्रीणीते दमस्तत्र मूल्यात्तु द्विगुणो भवेत् ॥
”यः पुनर्विनैवानुशयमेकस्य हस्ते विक्रीतं पुनरन्यस्य हस्ते विक्रीणीते सदोषं वा पण्यं प्राच्छा-दितदोषं विक्रीणीते तदा तत्पण्यमूल्यात् द्बिगुणोदमो वेदितव्यः । * । नारदेनाप्यत्र विशेषोदर्शितः ।“अन्यहस्ते तु विक्रीय योऽन्यस्मै तत्प्रयच्छति ।द्रव्यं तद्द्विगुणं दाप्यो विनयं तावदेव तु ॥
निर्द्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति ।स मूल्याद्द्विगुणं दाप्यो विनयं तावदेव ते ॥
”इति ॥
सर्व्वश्चायं विधिर्दत्तमूल्ये पण्ये द्रष्टव्यः । अदत्त-मूल्ये पुनः पण्ये वाङ्मात्रक्रये क्रेतृविक्रेत्रो-र्नियमकारिणः समयादृते प्रवृत्तौ निवृत्तौ वा नकश्चिद्दोषः ॥
* ॥
यथाह नारदः ।“दत्तमूल्यस्य पण्यस्य विधिरेष प्रकीर्त्तितः ।अदत्तेऽन्यत्र समयान्न विक्रेतुरविक्रयः ॥
” इति ॥
विक्रयानुशयोऽभिहितः क्रीतानुशयस्वरूपं तुप्राक् प्रपञ्चितमधुना तदुभयसाधारणं धर्म्म-माह ।“क्षयं वृद्धिं च बणिजा पण्यानामविजानता ।क्रीत्वा नानुशयः कार्य्यः कुर्व्वन् षड्भागदण्ड-भाक् ॥
”परीक्षितक्रीतपण्यानां क्रयोत्तरकालं क्रय-कालपरिमाणतोऽर्घकृतां वृद्धिमपश्यता क्रेत्रा-नुशयो न कार्य्यः । विक्रेत्रा च महार्घनिबन्धनंपण्यक्षयमपश्यता नानुशयितव्यम् । वृद्धिक्षय-परिज्ञाने पुनः क्रेतृविक्रेत्रोरनुशयो भवतीतिव्यतिरेकादुक्तम्भवति । अनुशयकालावधिश्चनारदेनोक्तः ।“क्रीत्वा मूल्येन यः पण्यं दुःक्रीतं मन्यते क्रयी ।विक्रेतुः प्रतिदेयं तत् तस्मिन्नेवाह्न्यविक्षतम् ॥
द्धितीयेऽह्नि ददत् क्रेता मूल्यात्त्रिंशांशमा-वहेत् ।द्विगुणन्तु तृतीयेऽह्नि परतः क्रेतुरेव तत् ॥
”इति ॥
अपरीक्षितक्रयविक्रये पुनः पण्यवैगुण्यनिबन्ध-नानुशयावधि दशैकपञ्चसप्ताहेत्यादिना दर्शितएव । तदनया वाचो युक्त्या वृद्धिक्षयपरिज्ञान-स्यानुशयकारणत्वमवगम्यते । यथा पण्यपरी-क्षाविधिबलात् पण्यदोषाणां अतः पण्यदोषेतद्वृद्धिक्षयकारणत्रितयाभावेऽनुशयकालाभ्य-न्तरेऽपि यद्यनुशयं करोति तदा पण्यषड् भागंदण्डनीयः । अनुशयकारणसद्भावेऽपि अनुशय-कालातिक्रमेणानुशयं कुर्व्वतोऽप्ययमेव दण्डः ।उपभोगेनाविनश्वरेषु स्थिरार्थेष्वनुशयकालाति-क्रमेणानुशयं कुर्व्वतो मनूक्तो दण्डो द्रष्टव्यः ।“परेण तु दशाहस्य न दद्यान्नापि दापयेत् ।आददानो ददच्चैव राज्ञा दण्ड्यः शतानि षाट् ॥
”इति मिताक्षरायां विक्रीयासम्प्रदानं नामप्रकरणम् ॥
अथ बृहस्पतिः ।“कुषीदकृषिबाणिज्यं प्रकुर्व्वीतास्वयं कृतम् ।आपत्काले स्वयं कुर्व्वन् नैनसा लिप्यते द्विजः ॥
लब्धलाभः पितॄन् देवान् ब्राह्मणांश्चैव पूजयेत् ।ते तुष्टास्तस्य तं दोषं शमयन्ति न संशयः ॥
बणिक् कुषीदी दद्यात्तु वस्त्रगोकाञ्चनादिकम् ।बणिक् कुषीद्यदोषः स्यात् ब्राह्मणानाञ्च पूज-नात् ॥
”इत्याह्निकतत्त्वम् ॥
वाचस्पत्यम्
Sanskritबाणिज्य बणिजो भावः, कर्म वा ब्राह्मणादित्वात् ष्यञ् ।क्रयविक्रयादौ बाणिज्येन गतस्य मे गृहपतेर्वार्त्तापिन श्रूयते” सा० ३ परि० ।तत्र विहितनिषिद्धानि भिता० उक्तानि यथा“मानेन तुलथा वापि योऽंशमष्टमकं हरेत् । दण्डंसदाप्यो द्विशतं वृद्धौ हानौ च कल्पितम्” । यः पुन-र्वणिक् व्रीहिकार्पासादेः पण्यस्याष्टममंशं कूटमानेनकूटतुलया वाऽन्यथापहरत्यऽसौ पणानां द्वशा दण्ड-नीयः । अपहृतस्य पुनर्द्रव्यस्य वृद्धौ हानौ च दण्ड-स्यापि वृद्धिहानी कल्प्ये । “भेषजस्नेहलवणगन्धधान्यगुडादिषु । पण्येषु प्रक्षिपन् हीनं एणान् दाप्यस्तु षो-डश” याज्ञ० । भेषजमौषधद्रव्य स्नेहो वृतादिः । गन्धद्रव्यमुशीरादि आदिशब्दाद्धिङ्गुमरिचादि । एवेष्वसार-द्रव्यं विक्रयार्थं मिश्रयतः षोडशपणो दण्डः । किञ्च ।“मृच्चर्सदमणिसूत्रायःकाष्ठबल्कलवाससाम् । अजातौ जाति-करणे विक्रेयाष्टगुणोदमः” य ज्ञ० । “न बिद्यते बहुमूल्या-जातिर्यस्मिन् मृच्चर्मादिके तदजाति तस्मिन् जातिकरणेविक्रयार्थं गन्धवर्णरसान्तरसञ्चारणेन बहुमूल्यजातीयसादृश्यसम्पादने यथा मल्लिकामोदपञ्चारणेन मृत्तिकायांसुगन्धापादनमिति । मार्जारचर्मणि बर्णोत्कर्पापादनेनन्यःघ्रचर्मेति स्फटिकमणौ वर्णान्तरकरणेन पद्मरागइति कार्पातिके मृले गुग्पोत्कर्षामनेत्र पट्टस्मूलामतिकार्ष्णायसे वर्णोत्कर्षाधानेन रजतमिति बिल्वकाष्ठे चन्दनामोदसञ्चारणेन बन्दनमिति कक्कौले त्वगाख्यं लवङ्ग-मिति कार्पासिके बाससि गुणोत्कर्षाधानेन कौशेयमितिविक्रेयस्मापादितस्य दृश्यस्य मृच्चर्मादेः पण्यस्याष्टगुणोदण्डो वेदितव्यः । “समुद्गपरिवर्त्तञ्च सारभिआण्डञ्च कृत्त्रि-मम् । आधानं विक्रयं वापि नयतो दण्डकल्पनाभिन्ने पणे तु पञ्चाशत्पणे तु शतमुच्यते । द्विपणे द्विशतोदण्डो मूल्यवृद्धौ च वृद्धिमान्” याज्ञः । मुद्गं पिधानंमुद्गेन सह वर्त्तत इति समुद्गं करण्डकम् । परिवर्त्तनंव्यत्यासः । योऽन्यदेवमुक्तानां पूर्णं करण्डकं दर्शयित्वाहस्तलाघवेनान्यदेव स्फटिकानां पूर्णकरण्डकं समर्पयतियश्च सारं भाण्डं कस्तूरिकादिकं कृत्रिमं कृत्वा विक्रय-माधिं बा नयति तस्य दण्डकल्पना वक्ष्यमाणा वेदितव्या ।कृत्त्रिमकस्तूरिकादेर्मूल्यभतं पणे भिन्ने न्यूने न्यूनपणमूल्यमिति” ।“लोकेऽस्मिन् द्विविधं पण्यं जङ्गमं स्थावरं तथा ।षड्विधस्तस्य तु बुधैर्दानादानविधिः स्मृतः । गणिकन्तुलित मेयं क्रियया रूपतः श्रियेति” गणित क्रमुकफलादितुमितं कुङ्कुमादि मेयं शाल्यादि क्रियय बाहदोहादि-रूपयोपलक्षितमश्वमहिष्यादि । रूपतः पण्यङ्गनोदिश्रिया दीप्त्यामरकतपद्मरागादि । इत्येतत् षट् प्रकारमपिपण्यम्” मिता० । तस्य विप्रैरापदि स्वयं कार्य्यत्वं वि-दधे वृहस्पतिः “कुषीदकृषिबाणिज्य प्रकर्वीतास्वयंकृतम् । आपत्काले स्वय कुर्वन् नैनसा लिप्यते दिव्ज ।लब्धलाभः पितॄन् देवःन् ब्राह्मणांश्चैव पूकयेत् । तेतुष्टास्तस्य त दाषं शमयन्ति न संशयः । बणिक् कुषीदी-दद्यात्तु वस्त्रगोकाञ्चनादिकम् । कृषीबलोऽन्नपानादियानशय्याशनानि च । पण्येभ्यो विंशक दत्त्वा पशु-स्वर्णादिकं शतम् । बणिक् कुषीद्यदोषः स्यात् ब्राह्मणा-नाञ्च पूजनात्। राज्ञे बत्त्वा तु षड्भागं देवतानाञ्चविशकम्” आ० त० । अधिक कृषिशब्दे २२०५ पृ० दृश्यम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
