बाणलिङ्गं (bANaliGgaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritबा(वा)णलिङ्गं, (बाणार्च्चनार्थं कृतं लिङ्गम् ।अन्यास्य निरुक्तिरुक्ता हेमाद्रौ । यथा, --“बाणः सदाशिवो देवो बाणो बाणान्तरो-ऽपि च ।तेन यस्मै कृतं तस्माद्वाणलिङ्गमुदाहृतम् ॥
”)नर्म्मदानद्युद्भवशिवलिङ्गम् । तस्य विवरणम् ।यथा, --“नर्म्मदाजलमध्यस्थं बाणलिङ्गमिति स्मृतम् ।बाणलिङ्गे स्वयम्भूते चन्द्रकान्ताह्वयं स्थितम् ॥
चान्द्रायणशतं कार्य्यं शम्भोर्नैवेद्यभक्षणात् ।ग्राह्याग्राह्यविभागोऽयं बाणलिङ्गे न विद्यते ।तदर्पितं जलं वान्नं ग्राह्यं प्रसादसंज्ञया ॥
शिवनाभमयं लिङ्गं सदा पूज्यं महर्षिभिः ।यतश्च सर्व्वलिङ्गेभ्यस्तद्धि पूज्यतमं मतम् ॥
चतुरङ्गुलमुच्छ्रायं रम्यं वेदिकया युतम् ।उत्तमं लिङ्गमाख्यातं पञ्चसूत्र सुसाधितम् ॥
तदर्द्धं मध्यमं प्रोक्तं तदर्द्धमवरं स्मृतम् ।तस्य न्यूनं पूजनीयं न कदापि न तत्फलम् ॥
रुद्राक्षं शिवलिङ्गञ्च स्थूलस्थूलं प्रशस्यते ।शालग्रामो नार्म्मदञ्च सूक्ष्मसूक्ष्मो विशिष्यते ॥
”पार्थिवादिलिङ्गापेक्षया बाणलिङ्गस्य श्रेष्ठत्वम्यथा, --“कोमलेषु तु लिङ्गेषु पार्थिवं श्रेष्ठमुच्यते ।कठिनेषु तु पाषाणं पाषाणात् स्फाटिकं परम् ॥
स्फाटिकात् पद्मरागञ्च काश्मीरं पद्मरागतः ।काश्मीरात् पुष्परागोत्थमिन्द्रनीलोद्भवं ततः ॥
इन्द्रनीलाच्च गोमेदं गोमेदाद्बिद्रुमोद्भवम् ।विद्रुमान्मौक्तिकं श्रेष्ठं तस्मात् श्रेष्ठन्तु राजतम् ॥
हैरण्यं राजतात् श्रेष्ठं हैरण्याद्धीरकं वरम् ।हीरकात् पारदं श्रेष्ठं बाणलिङ्गं ततः परम् ॥
”इति मेरुतन्त्रे ९ प्रकाशः ॥
अथ बाणलिङ्गलक्षणम् । वीरमित्रोदयधृत-कालोत्तरे ।“बाणलिङ्गं तथा ज्ञेयं भुक्तिमुक्तिप्रदायकम् ।उत्पत्तिं बाणलिङ्गस्य लक्षणं शेषतः शृणु ॥
नर्म्मदादेविकायाश्च गङ्गायमुनयोस्तथा ।सन्ति पुण्यनदीनाञ्च बाणलिङ्गानि षण्मुख ! ॥
इन्द्रादिपूजितान्यत्र तच्चिह्नैर्विहितानि च ।सदा सन्निहितस्तत्र शिवः सर्व्वार्थदायकः ।इन्द्रलिङ्गानि तान्याहुः साम्राज्यार्थप्रदानि च ॥
”इतीन्द्रलिङ्गलक्षणम् ॥
“आरुणं हित्यकीलालमुष्णस्पर्शं करोत्यलम् ।आग्नेयं तच्छक्तिनिभमथवा शक्तिलाञ्छितम् ।इदं लिङ्गवरं स्थाप्य तेजसाधिपतिर्भवेत् ॥
”इत्याग्नेयलिङ्गलक्षणम् ॥
“दण्डाकारं भवेद् याम्यमथवा रसनाकृति ।यद्यदुक्तं सह तैर्न निर्निक्तं ज्ञायते तदा ।निषिक्तं निधनन्तेन क्रियते स्थापितेन तु ॥
”इति याम्यलिङ्गलक्षणम् ॥
“राक्षसं खड्गसदृशं ज्ञानयोगफलप्रदम् ।कर्करादिप्रलिप्तन्तु कुण्ठकुक्षियुतं तथा ।राक्षसं निष्कृते लिङ्गं गार्हस्थे न सुखप्रदम् ॥
”इति नैरृ तलिङ्गलक्षणम् ॥
“वारुणं वर्त्तुलाकारं पाशाङ्कं चालिवर्च्चसम् ।वृद्धिं सुखादेर्वैस्वत्वसंभोगाप्तन्तु मध्यगे ॥
”इति वारुणलिङ्गलक्षणम् ॥
“कृष्णं धूम्रं नवारुच्यं ध्वजाभं ध्वजमूषलम् ।मस्तके स्थापितं तस्य न्यूनन्यूनमितस्ततः ॥
”इति वायुलिङ्गलक्षणम् ॥
“तूणपाशगदाकारं गुह्यकेशस्य मध्यगम् ॥
”इति कुवेरलिङ्गलक्षणम् ॥
“दिनं वाप्यथवा रात्रिं शस्यावृद्धिकरैर्ब्बलम् ।अस्थिशूलाङ्कितं रौद्रं हिमकुण्डलवर्च्चसम् ॥
”इति रौद्रलिङ्गलक्षणम् ॥
“चतुर्व्वर्णमयं वापि वैष्णवं ज्ञायतेऽग्रतः ।वैष्णवं शङ्खचक्राङ्कगदाब्जादिविभूषितम्श्रीवत्सकौस्तुभाङ्कञ्च सर्व्वसिंहासनाङ्कितम् ।वैनतेयसमाङ्कं वा तथा विष्णुपदाङ्कितम् ॥
वैष्णवं नाम तत् प्रोक्तं सर्व्वैश्वर्य्यफलप्रदम् ॥
”इति वैष्णवलिङ्गलक्षणम् ॥
“शालग्रामादिसंस्थन्तु शशाङ्कं श्रीविवर्द्धनम् ।पद्माङ्कं स्वस्तिकाङ्कं वा श्रीवत्साङ्कं विभूतये ॥
”इत्यपि वैष्णवलिङ्गलक्षणम् ॥
हेमाद्रिधृतलक्षणकाण्डे ।नारद उवाच ।“अथ वक्ष्यामि ते विप्रचिह्नमेकादशं परम् ।श्रवणाद्यस्य पापानि नाशमायान्ति तत्-क्षणात् ॥
मधुपिङ्गलवर्णाभं कृष्णकुण्डलिकायुतम् ।स्वयम्भुलिङ्गमाख्यातं सर्व्वसिद्धैर्निषेवितम् ॥
नानावर्णसमाकीर्णं जटाशूलसमन्वितम् ।मृत्युञ्जयाह्वयं लिङ्गं सुरासुरनमस्कृतम् ॥
दीर्घाकारं शुभ्रवर्णं कृष्णबिन्दुसमन्वितम् ।नीलकण्ठं समाख्यातं लिङ्गं पूज्यं सुरासुरैः ॥
शुक्लाभं शुक्लकेशञ्च नेत्रत्रयसमन्वितम् ।त्रिलोचनं महादेवं सर्व्वपापप्रणोदनम् ॥
ज्वलल्लिङ्गं जटाजूटं कृष्णाभं स्थूलविग्रहम् ।कालाग्निरुद्रमाख्यातं सर्व्वसत्त्वैर्निषेवितम् ॥
मधुपिङ्गलवर्णाभं श्वेतयज्ञोपवीतकम् ।श्वेतपद्मसमासीनं चन्द्ररेखाविभूषितम् ।प्रलयास्त्रसमायुक्तं त्रिपुरारिसमाह्वयम् ॥
शुभ्राभं पिङ्गलजटं मुण्डमालाधरं परम् ।त्रिशूलधरमीशानं लिङ्गं सर्व्वार्थसाधनम् ॥
त्रिशूलडमरुधरं शुभ्ररक्तार्द्धभागतः ।अर्द्धनारीश्वराह्वानं सर्व्वदेवैरभीष्टदम् ॥
ईषद्रक्तमयं कान्तं स्थूलं दीर्घं समुज्ज्वलम् ।महाकालं समाख्यातं धर्म्मकामार्थमोक्षदम् ॥
एतत्तु कथितं तुभ्यं लिङ्गचिह्नं महेशितुः ।एकेनैव कृतार्थः स्यात् बहुभिः किमु सुव्रत् ! ॥
”इति बाणलिङ्गचिह्नानि ॥
वीरमित्रोदयधृतकालोत्तरे ।“उक्ताङ्कं श्रेयसे योज्यं शीर्षमन्त्रं विवर्ज्जयेत् ।यमवर्णन्तु यल्लिङ्गं यमाङ्कं वा कमण्डलुम् ॥
दण्डाङ्कं सूत्रचिह्नं वा ब्रह्मज्ञानान्वितं मतम् ।शशिवर्णं महाकालं नन्दीशं पद्मरागवत् ॥
पद्मरागनिभं सर्व्वं महाभं सिद्धिपूजितम् ।मौक्तिकाभं नीलनिभं रुद्रादित्यैः प्रपूजितम् ॥
वसुदैः सेन्द्रयक्षेशगुह्यकैर्यातुधानकैः ।नानावर्णमयं नीलं शशाङ्कमण्डलप्रभम् ॥
”इति बाणलिङ्गलक्षणम् ॥
वीरमित्रोदयधृतम् ।“इत्येतत् लक्षणं प्रोक्तं परीक्षातत्त्वकोविदेः ।त्रिःसप्तपञ्चवारं वा तुलासाम्यं न जायते ।तदा बाणं समाख्यातं शेषं पाषाणसम्भवम् ॥
”तुलाकरणन्तु तण्डुलेन । अपरतुलादिषु तण्डुलायद्यधिकाः स्युस्तदा तल्लिङ्गं गृहिणां पूज्य-मवधार्य्यं लिङ्गञ्चेदधिकं तदोदासीनपूज्यन्त-दिति किंवदन्तीति हेमाद्रिधृतलक्षणकाण्डे ॥
सूतसंहितायान्तु ।“सप्तकृत्वस्तुलारूढं वृद्धिमेति न हीयते ।बाणलिङ्गमिति ख्यातं शेषं नार्म्मदमुच्यते ॥
त्रिपञ्चवारं यस्यैव तुलासाम्यं न जायते ।तदा बाणं समाख्यातं शेषं पाषाणसम्भवम् ॥
”वीरमित्रोदये ।“नद्यां वा प्रक्षिपेद्भूयो यदा तदुपलभ्यते ।बाणलिङ्गं तदा विद्धि न्यूनं सुखविवर्द्धनम् ॥
”इति बाणलिङ्गपरीक्षा ॥
बाणशब्दव्युत्पत्तिरपि तत्रैव ।“अथ बाणं समाख्यातं यथा वक्ष्ये तथादितः ।बाणः सदाशिवो देवो बाणो बाणान्तरोऽपि च ॥
तेन यस्मै कृतं तस्माद्बाणलिङ्गमुदाहृतम् ।सदा सन्निहितस्तत्र शिवः सर्व्वार्थदायकः ॥
कृतप्रतिष्ठं तल्लिङ्गं बाणाख्येन शिवेन च ।पङ्कजस्य फलाकारं कुण्डलस्य समाकृति ॥
”पङ्कजफलं पद्मबीजम् ॥
पक्वजम्बुफलाकारं कुक्कु-टाण्डसमाकृतीति हेमाद्रिधृतलक्षणकाण्डे पाठः ।“भुक्तिमुक्तिप्रदञ्चैव बाणलिङ्गमुदाहृतम् ॥
”याज्ञवल्क्यसंहितायां देवीं प्रति शिववाक्यम् ।“प्रशस्तं नार्म्मदं लिङ्गं पक्वजम्बुफलाकृति ।मधुवर्णं तथा शुक्लं नीलं मरकतप्रभम् ॥
हंसडिम्बाकृति पुनः स्थापनायां प्रशस्यते ।स्वयं संस्रवते लिङ्गं गिरितो नर्म्मदाजले ॥
पुरा बाणासुरेणाहं प्रार्थितो नर्म्मदातटे ।अविवासं गिरौ तत्र लिङ्गरूपी महेश्वरः ।बाणलिङ्गमपि ख्यातमतोऽर्थाज्जगतीतले ॥
अन्येषां कोटिलिङ्गानां पूजने यत् फलं लभेत् ।तत् फलं लभते मर्त्त्यो बाणलिङ्गैकपूजनात् ॥
”तथा ।“ताम्री वा स्फाटिकी स्वार्णी पाषाणी राजतीतथा ।वेदिका च प्रकर्त्तव्या तत्र संस्थाप्य पूजयेत् ॥
प्रत्यहं योऽर्च्चयेल्लिङ्गं नार्म्मदं भक्तिभावतः ।ऐहिकं किं फलं तस्य मुक्तिस्तस्य करे स्थिता ॥
”इति प्रत्यहबाणलिङ्गपूजाफलम् ॥
सूतसंहितायाम् ।“संस्थाप्य श्रीबाणलिङ्गं रत्नकोटिगुणं भवेत् ।रसलिङ्गे ततो बाणात् फलं कोटिगुणं स्मृतम् ॥
गुणांस्तु रसलिङ्गस्य वक्तुं शक्नोति शङ्करी ।सिद्धयो रसलिङ्गे स्युरणिमाद्याः सुसंस्थिताः ॥
”केदारखण्डे ।“रत्नधातुमयान्येव लिङ्गानि कथितान्यपि ।पवित्राण्येव पूज्यानि सर्व्वकामप्रदानि च ॥
एतेषामपि सर्व्वेषां काश्मीरं हि विशिष्यते ।काश्मीरादपि लिङ्गाच्च बाणलिङ्गं विशिष्यते ॥
बाणलिङ्गात् परं नान्यत् पवित्रमिह दृश्यते ।ऐहिकामुष्मिकं सर्व्वं पूजाकर्त्तुः प्रयच्छति ॥
”इति बाणलिङ्गप्रशंसा ॥
निन्द्यलिङ्गमाह तत्रैव ।“कर्कशे वाणलिङ्गे तु पुत्त्रदारक्षयो भवेत् ।चिपिटे पूजिते तस्मिन् गृहभङ्गो भवेद्ध्रुवम् ॥
एकपार्श्वश्रिते धेनुपुत्त्रदारधनक्षयः ।शिरसि स्फुटिते बाणे व्याधिर्मरणमेव च ॥
छिद्रलिङ्गेऽर्च्चिते बाणे विदेशगमनं भवेत् ।लिङ्गे च कर्णिकां दृष्ट्वा व्याधिमान् जायते पुमान् ।अत्युन्नतिविलाग्रे तु गोधनानां क्षयो भवेत् ॥
”हेमाद्रिधृतम् ।“तीक्ष्णाग्रं वक्रशीर्षञ्च त्र्यस्रलिङ्गं विवर्ज्जयेत् ।अतिस्थूलं चातिकृशं स्वल्पं वा भूषणान्वितम् ।गृही विवर्ज्जयेत्तादृक् तद्धि मोक्षार्थिनोहितम् ॥
”इति दुष्टबाणलिङ्गलक्षणम् ॥
शुभलिङ्गमाह वीरमित्रोदये ।“अर्थदं कपिलं लिङ्गं घनाभं मोक्षकाङ्क्षिणाम् ।लघु वा कपिलं स्थूलं गृही नैवार्च्चयेत् क्वचित् ॥
पूजितव्यं गृहस्थेन वर्णेन भ्रमरोपमम् ।तत्सपीठमपीठं वा मन्त्रसंस्कारवर्जितम् ।सिद्धिमुक्तिप्रदं लिङ्गं सर्व्वप्रसादपीठगम् ॥
”इति शुभबाणलिङ्गलक्षणम् ॥
सूतसंहितायां भैरववाक्यम् ।“बाणासुरः पुरा भद्रे ! शिवस्यातीव बल्लभः ।जितः क्रोधोऽनुरक्तश्च शिवपूजाविधौ रतः ॥
वह्निज्ञो निपुणश्चैव शिल्पज्ञो लक्षणान्वितः ।दिने दिने स्वयं दत्त्वा लिङ्गं स्थाप्य प्रपूजयेत् ॥
एवं वर्षशतं देवि ! दिव्यमानेन पूजयेत् ।तदा तद्भक्तिसुलभः प्रत्यक्षः शङ्करो भवेत् ॥
शङ्कर उवाच ।तुष्टोऽहं तव हे बाण ! वरं ब्रूहि किमिच्छसि ।शङ्करस्य वचः श्रुत्वा बाणो वचनमब्रवीत् ॥
यदि तुष्टोऽसि हीनाय मह्यं त्वं मन्दभागिने ।क्लिष्टोऽहं तव देवेश ! लिङ्गं कृत्वा दिने दिने ॥
तत्तल्लक्षणसं सिद्धलक्षणं शास्त्रनिर्म्मितम् ।शास्तार्थौ दुर्ल्लभौ देव ! सिद्धश्चार्थश्च दुर्ल्लभः ॥
तस्मात्त्वं यदि मे तुष्टो लिङ्गं देदि सुलक्षणम् ।सर्व्वकामकृतार्थञ्च सर्व्वसत्त्वानुकम्पनम् ।सर्व्वेषाञ्च हितार्थाय प्रसादं कुरु शङ्कर ! ॥
इत्येवं वचनं तस्य शिवः परमकारणम् ।श्रुत्वा कैलासमूद्धानं शङ्करेण विनिर्म्मिताः ॥
लिङ्गानां कोटिसंख्याश्च तथा चैव चतुर्द्दश ।सिद्धलिङ्गं तदा तत्तत् सर्व्वं सदोदयं स्वयम् ॥
अयोज्यैवं सुसम्पूर्णं बाणस्य च समर्पितम् ॥
अक्षय्यफलदं बाणं स्थाप्यमानञ्च नित्यशः ।संपूज्य बाणः सद्भावं कृत्वा प्रणयनन्तदा ॥
तद्भावं स्वपुरं नीत्वा नूनं चिन्तयते शुचिः ।अक्षग्यं यदि संसिद्धं स्थाप्यमानं दिने दिने ॥
सत्त्वानां सिद्धिहेत्वर्थं बाणस्थाने सुसंरये ।लिङ्गानां कालिकागर्त्ते सञ्चितास्तु त्रिकोटयः ॥
श्रीशैले कोटयस्तिस्रः कोट्येका कन्यकाश्रमे ।माहेश्वरे च कोटिस्तु कन्यातीर्थे तु कोटिका ॥
महेन्द्रे चैव नेपाले एकैका कोटिरेव च ।बाणार्च्चार्थं कृतं लिङ्गं बाणलिङ्गमतः स्मृतम् ॥
बाणो वा शिव इत्युक्तस्तत्कृतं बाणमुच्यते ॥
तस्मात्तेषु प्रदेशेषु पुण्यस्थानेषु तेषु वा ।स्थितं तच्छिवसद्भावं शिवस्याकृतिविग्रहे ॥
”हेम्ना तदाकृतिलक्षणसमुच्चयेऽपि ।“स्वयम्भुलिङ्गवद्बाणलिङ्गं भुक्त्यै स्वमुक्तये ।सहस्रफलमन्यस्माद्यथा स्थापनपूजने ॥
श्रीशैले कालिकागर्त्ते लिङ्गाद्रौ कन्यकाश्रमे ।कन्यातीर्थे वने याने महेन्द्रे वा सुरेश्वरे ॥
स्थितानि बाणलिङ्गानि शिवेनैव कृतानि तु ॥
”सिद्धान्तशेखरे बाणलिङ्गान्यधिकृत्य ।“तदनेकप्रकारं स्यादन्यवर्णमपीठकम् ।लक्ष्ममूर्त्तिविहीनञ्च बाणं तत् पृथुलाग्रकम् ॥
”बाणलिङ्गेष्वावाहनादि न कर्त्तव्यम् । तदुक्तंभविष्ये ।“बाणलिङ्गानि राजेन्द्र ! स्थितानि भुवनत्रये ।न प्रतिष्ठा न सं स्कारस्तेषामावाहनं न च ॥
” इतियोगसारे पञ्चमपरिच्छेदे ।“ब्राह्म्ये मुहूर्त्ते चोत्थाय यः स्मरेद्बाणलिङ्गकम् ।सर्व्वत्र जयमाप्नोति सत्यं सत्यं महेश्वर ! ॥
”अथ बाणलिङ्गध्यानं तत्रैव ।ओँ प्रमत्तं शक्तिसंयुक्तं बाणाख्यञ्च महाप्रभम् ।कामबाणान्वितं देवं संसारदहनक्षमम् ॥
शृङ्गारादिरसोल्लासं बाणाख्यं परमेश्वरम् ।एवं ध्यात्वा बाणलिङ्गं यजेत्तं परमं शिवम् ॥
मनसा गन्धपुष्पाद्यैः संपूज्यास्य मनुं स्मरेत् ॥
”तथा ।“प्राणायामं ततः कृत्वा बाणलिङ्गन्तु तोषयेत् ।तदिष्टदेवयोरैक्यं विभाव्य वाग्भवं जपेत् ॥
ततो जपं समाप्याथ स्तवेनानेन तोषयेत् ॥
”अथ स्तवः ।“ओँ बाणलिङ्ग महाभाग संसारात्त्राहि मां प्रभो ! ।नमस्ते चोग्ररूपाय नमस्ते व्यक्तयोनये ॥
संसाराकारिणे तुभ्यं नमस्ते सूक्ष्मरूपधृक् ।प्रमत्ताय महेन्द्राय कालरूपाय वै नमः ॥
दहनाय नमस्तुभ्यं नमस्ते योगकारिणे ।भोगिनां भोगकर्त्रे च मोक्षदात्रे नमो नमः ॥
नमः कामाङ्गनाशाय नमः कल्मषहारिणे ।नमो विश्वप्रदात्रे च नमो विश्वस्वरूपिणे ॥
बाणस्य वरदात्रे च रावणस्य क्षयाय च ।रामस्यानुग्रहार्थाय राज्याय भरतस्य च ॥
मुनीनां यीगदात्रे च राक्षसानां क्षयाय च ।नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥
ऐं दाहिकाशक्तियुक्ताय महामायाप्रियाय च ।भगप्रियाय सर्व्वाय वैरिणां निग्रहाय च ॥
परित्राणाय योगिनां कौलिकानां प्रियाय च ।कुलाङ्गनानां भक्ताय कुलाचाररताय च ॥
कुलभक्ताय योगाय नमो नारायणाय च ।मधुपानप्रमत्ताय योगेशाय नमो नमः ॥
कुलनिन्दाप्रणाशाय कौलिकानां सुखाय च ।कुलयोगाय निष्ठाय शुद्धाय परमात्मने ॥
परमात्मस्वरूपाय लिङ्गमूलात्मकाय च ।सर्व्वेश्वराय सर्व्वाय शिवाय निर्गुणाय च ॥
इत्यतत् परमं गुह्यं बाणलिङ्गस्य शङ्कर ! ।यः पठेत् साधकश्रेष्ठो गाणपत्यं लभेत सः ॥
स्तवस्यास्य प्रसादेन योगी योगित्वमाप्नुयात् ।राज्यार्थिनां भवेद्राज्यं भोगिनां भोग एव च ॥
साधूनां साधनं देव ! कौलिकानां कुलं भवेत् ।यं यं कामयते मन्त्री तं तमाप्नोति लीलया ॥
बाणलिङ्गप्रसादेन सर्व्वमाप्नोति सत्वरम् ।किमन्यत् कथयामीह सर्व्वं वेत्सि कुलेश्वर ! ।महाभये समुत्पन्ने राजद्वारे कुलेश्वर ! ॥
देशान्तरभये प्राप्ते दस्युचौरादिसङ्कुले ।पठनात् स्तवराजस्य न भयं लभते क्वचित् ॥
बाणलिङ्गस्य माहात्म्यं संक्षेपात् कथितं मया ।तस्य श्रवणमात्रेण नरो मोक्षमवाप्नुयात् ॥
बाणलिङ्गं सदाराध्यं योगिनां योगसाधने ।कौलिकानां कुलाचारे पशूनां शत्रुनिग्रहे ॥
वेदज्ञानां वेदपाठे रोगिणां रोगनाशने ।यो यो नाराधयेदेनं सर्व्वं तन्निष्फलं भवेत् ॥
”इति श्रीयोगसारे सर्व्वागमोत्तमे पार्व्वतीशिव-संवादे वाणलिङ्गस्तोत्रं समाप्तम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
