| YouTube Channel

बाणयुद्ध (bANayuddha)

 
शब्दकल्पद्रुमः
Sanskrit
बा(वा)णयुद्धं,
क्ली,
(बाणेन सह युद्धम् ।) बाण-राजेन सह श्रीकृष्णस्य संग्रामः तस्य विव-रणम् यथा, --श्रीशुक उवाच ।“बाणः पुत्त्रशतज्येष्ठो बलेरासीन्महात्मनः ।सहस्रबाहुर्वाद्येन ताण्डवेऽतोषयन्मृडम्
भगवान् सर्व्वभूतेशः शरण्यो भक्तवत्सलः ।वरेण च्छन्दयामास तं वव्रे पुराधिपम्
एकदाह गिरिशं पार्श्वस्थं वीर्य्यदुर्म्मदः ।किरीटेनार्कवर्णेन संस्पृशंस्तत्वदाम्बुजम्
नमस्ये त्वां महादेव ! लोकानां गुरुमीश्व-रम् ।पुंसामपूर्णकामानां कामपुरामराङ्घिपम्
दोःसहस्रं त्वया दत्तं परं भाराय मेऽभवत् ।त्रिलोक्यां प्रतियोद्धारं लभे त्वदृते समम्
कण्डूत्या निभृतैर्दोभिर्यु युत्सुर्दिग्गजानहम् ।आद्यायां चूर्णयन्नद्रीन् भीतास्तेऽपि प्रदुद्रुवुः
तत् श्रुत्वा भगवान् क्रुद्धः केतुस्ते भज्यते यदा ।तद्दर्पघ्नं भवेन्मूढ ! संयुगं मत्ममेन ते
इत्युक्तः कुमतिर्हृष्टः स्वगृहं प्राविशन्नृप ! ।प्रतीक्षन् गिरिशादेशं स्ववीर्य्यनशनं कुधीः
तस्योषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम् ।कन्यालभत कान्तेन प्रागदृष्टश्रुतेन सा
सा तत्र तमपश्यन्ती क्वासि कान्तेतिवादिनी ।सखीनां मध्य उत्तस्थौ विह्वला व्रीडिता भृशम्
बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा तत्सुता ।सख्यपृच्छत् सखीमूषां कौतूहलसमन्विता
कं त्वं मृगयसे ! सुभ्रु ! कीदृशस्ते मनोरथः ।हस्तग्राहं तेऽद्यापि राजपुत्त्र्युपलक्षये
ऊषोवाच ।दृष्टः कश्चिन्नरः स्वप्ने श्यामः कमललोचनः ।पीतवासा बृहद्बाहुर्योषितां हृदयङ्गमः
तमहं मृगये कान्तं पाययित्वाधरं मधु ।क्वापि यातः स्पृहयतीं क्षिप्त्वा मां वृजिनार्णवे
चित्रलेखोवाच ।व्यसनन्तेऽपनेष्यामि त्रिलोक्यां यदि भाव्यते ।तमानेष्ये वरं यस्ते मनोहर्त्ता तमादिश
इत्युक्त्वा देवगन्धर्व्वसिद्धचारणपन्नगान् ।दैत्यविद्याधरान् यक्षान् मनुजांश्च यथालिखत्
मनुजेषु सा वृष्णीञ्छू रमानकदुन्दुभिम् ।व्यलिखद्रामकृष्णौ प्रद्युम्नं वीक्ष्य लज्जिता
अनिरुद्धं विलिखितं वीक्ष्योषावाङ्मुखीह्रिया ।सोऽसावसाविति प्राह स्मयमाना महीपते !
चित्रलेखा तमाज्ञाय पौत्त्रं कृष्णस्य योगिनी ।ययौ विहायसा राजन् ! द्बारकां कृष्णपालि-ताम्
तत्र सुप्तं सुपर्य्यङ्के प्राद्युम्निं योगमास्थिता ।गृहीत्वा शोणितपुरं सख्यै प्रियमदर्शयत्
सा तं सुन्दरवरं विलोक्य मुदितानना ।दुष्प्रेक्ष्ये स्वगृहे पुंभी रेमे प्राद्युम्निना समम्
परार्द्ध्यवासः स्रग्गन्धधूपदीपासनादिभिः ।पानभोजनभक्ष्यैश्च वाक्यैः शुश्रूषणार्च्चितः
गूढः कन्यापुरे शश्वत् प्रवृद्धस्नेहया तया ।नाहर्गणान् बुबुधे ऊषयापहृतेन्द्रियः
तां तथा यदुवीरेण भुज्यमानां हतत्रपाम् ।हेतुभिर्लक्षयाञ्चक्रुराप्रीतां दुरवच्छदैः
भटा आवेदयाञ्चक्रू राजंस्ते दुहितुर्व्वयम् ।विचेष्टितं लक्षयामः कन्यायाः कुलदूषणम्
अनपायिभिरस्माभिर्गुप्तायाश्च गृहे प्रभो ! ।कन्याया दूषणं पुंभिर्दुष्प्रेक्षाया विद्महे
ततः प्रव्यथितो बाणो दुहितुः श्रुतदूषणः ।त्वरितः कन्यकागारं प्राप्तोऽद्राक्षीद्यदूद्वहम्
कामात्मजं तं भुवनैकसुन्दरंश्यामं पिशङ्गाम्बरमम्बुजेक्षणम् ।बृहद्भुजं कुण्डलकुन्तलत्विषास्सितावलोकेन मण्डिताननम्
दीव्यन्तमक्षैः प्रिययाभिनृम्णयातदङ्गसङ्गस्तनकुङ्कुमस्रजम् ।बाह्वोर्दधानं मधुमल्लिकाश्रितांतस्याग्र आसीनमवेक्ष्य विस्मितः
तं प्रविष्टं व्रतमाततायिभि-र्भटैरनेकैरवलोक्य माधवः ।उद्यम्य मौर्व्वं परिघं व्यवस्थितोयथान्तको दण्डधरो जिघांसया
जिघृक्षया तान् परितः प्रसर्पतःशुनो यथा शूकरयूथपोऽहनत् ।ते हन्यमाना भवनाद्बिनिर्गतानिर्भिन्नमूर्द्धोरुभुजाः प्रदुद्रुवुः
तं नागपाशैर्बलिनन्दनो बलीघ्नन्तं स्वसैन्यं रुषितो बबन्ध ।ऊपा भृशं शोकविषादविह्वलाबद्धं निशम्याश्रुकलाक्ष्यरौत्सीत्
”इति श्रीभायवते महापुराणे पारमहंस्यां संहि-तायां वैयासिक्यां दशमस्कन्धे बाणयुद्धे द्बिषष्टि-तमोऽध्यायः
*
श्रीशुक उवाच ।“अपश्यताञ्चानिरुद्धं तद्बन्धूनाञ्च भारत ! ।चत्वारो वार्षिका मासा व्यतीयुरनुशोचताम्
नारदात्तदुपाकर्ण्य वार्त्तां बद्धस्य कर्म्म ।प्रययुः शोणितपुरं वृष्णयः कृष्णदेवताः
प्रद्युम्नो युयुधानश्च गदः शाम्बोऽथ शारणः ।नन्दोपनन्दभद्राद्या रामकृष्णानुवर्त्तिनः
अक्षौहिणीभिर्द्वादशभिः समेताः सर्व्वतोदिशम् ।रुरुधुर्ब्बाणनगरं समन्तात् सात्वतर्षभाः
भज्यमानपुरोद्यानप्रकाराट्टालगोपुरम् ।प्रेक्षमाणो रुषाविष्टस्तुल्यसैन्योऽभिनिर्ययौ
वाणार्थं भगवान् रुद्रः ससुतः प्रमथैर्वृतः ।आरुह्य नन्दिवृषभं युयुधे रामकृष्णयोः
आसीत् सुतुमुलं युद्धमद्भुतं लोमहर्षणम् ।कृष्णशङ्करयो राजन् ! प्रद्युम्नगुहयोरपि
कुम्भाण्डकूपकर्णाभ्यां बलेन सह संयुगम् ।शाम्बस्य बाणपुत्त्रेण बाणेन सह सात्यकेः
ब्रह्मादयः सुराधीशाः मुनयः सिद्धचारणाः ।गन्धर्व्वाप्सरसो यक्षा विमानैर्द्रष्टुमागमन्
शङ्करानुचराञ्छौरिर्भूतप्रमथगुह्यकान् ।डाकिनीर्यातुधानांश्च वेतालान् सविनायकान्
भूतमातृपिशाचांश्च कुष्माण्डान् ब्रह्मराक्षसान् ।द्रावयामास तीक्ष्णाग्रैः शरैः शार्ङ्गधनुश्च्युतैः
पृथग्दिव्यानि प्रायुङ्क्त पिणाक्यस्त्राणिशार्ङ्गिणे ।प्रत्यस्त्रैः शमयामास शार्ङ्गपाणिरविस्मितः
ब्रह्मास्त्रस्य ब्रह्मास्त्रं वायव्यस्य पार्व्वतम् ।आग्नेयस्य पार्ज्जन्यं नैजं पाशुपतस्य
मोहयित्वाथ गिरिशं जृम्भणास्त्रेण जृम्भितम् ।बाणस्य पृतनां शौरिर्ज्जघानासिगदेषुभिः
स्कन्दः प्रद्युम्नबाणौघैरर्द्यमानः समन्ततः ।असृग्विमुञ्चन् गात्रेभ्यः शिखिना प्राद्रवद्रणात्
कुम्भाण्डः कूपकर्णश्च पेततुर्मुषलार्द्दितौ ।दुद्रुवुस्तदनीकानि हतनाथानि सर्व्वशः
वीशीर्य्यमाणं स्वबलं दृष्ट्वा बाणोऽत्यमर्षितः ।कृष्णमभ्यद्रवत् संख्ये रथी हित्वैव सात्यकिम्
धनूंष्याकृष्य युगपद्बाणः पञ्चशतानि वै ।एकेकस्मिन् शरौ द्वौ द्वौ सन्दधे रणदुर्म्मदः
तानि चिच्छेद भगवान् धनूंषि युगपद्धरिः ।सारथिं रथमश्वांश्च हत्वा शङ्खमपूरयत्
तन्माता कोट्टवी नाम नग्ना मुक्तशिरोरुहा ।पुरोऽवतस्थे कृष्णस्य पुत्त्रप्राणरिरक्षया
ततस्तिर्य्यङ्मुखो नग्नामनिरीक्षन् गदाग्रजः ।बाणश्च तावद्बिरथश्छिन्नधब्बाविशत् पुरम्
विद्राविते भूतगणे ज्वरस्तु त्रिशिरास्त्रिपात् ।अभ्यधावत दाशार्हं दहन्निव दिशो दश
अथ नारायणो देवस्तं दृष्ट्वा व्यसृजत् ज्वरम् ।माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ
माहेश्वरः समाक्रन्दन् वैष्णवेन बलार्द्दितः ।अलब्ध्वा भयमन्यत्र भीतो माहेश्वरो ज्वरः
शरणार्थी हृषीकेशं तुष्टाव प्रणताञ्जलिः
ज्वर उवाच ।नमामि त्वानन्तशक्तिं परेशंसर्व्वात्मानं केवलं ज्ञप्तिमात्रम् ।विश्वोत्पत्तिस्थानसंरोधहेतुंयत्तद्ब्रह्म ब्रह्मलिङ्गं प्रशान्तम्
कालो दैवं कर्म्म जीवः स्वभावोद्रव्यं क्षेत्रं प्राण आत्मा विकारः ।तत्सं घातो बीजरोहप्रवाह-स्त्वन्मायैषा तन्निषेधं प्रपद्ये
नानाभावैर्लीलयैवोपपन्नै-र्देवान् साधूँल्लोकसेतून् बिभर्षि ।हंस्युन्मार्गान् हिंसया वर्त्तमानान्जन्मैतत्ते भारहाराय भूमेः
तप्तोऽहन्ते तेजसा दुःसहेनशान्तोग्रेणात्युल्वणेन ज्वरेण ।तावत्तापो देहिनां तेऽङ्घ्रिमूलंनो सेवेरन् यावदाशानुबद्धाः
श्रीभगवानुवाच ।त्रिशिरस्ते प्रसन्नोऽहं व्येतु ते मज्ज्वराद्भयम् ।यो नौ स्मरति संवादं तस्य त्वन्नो भवेद्भयम्
इत्युक्तोऽच्युतमानम्य गतो माहेश्वरो ज्वरः ।बाणस्तु रथमारूढः प्रागाद्योत्स्यन् जनार्द्द-नम्
ततो बाहुसहस्रेण नानायुधधरो नृपः ।मुमोच परमक्रुद्धो वाणांश्चक्रायुधे नृप !
तस्यास्यतोऽस्त्राण्यसकृच्चक्रेण क्षुरनेमिना ।चिच्छेद भगवान् बाहूंश्छाखा इव वनस्पतेः
बाहुषु च्छिद्यमानेषु बाणस्य भगवान् भवः ।भक्तानुकम्प्युपव्रज्य चक्रायुधमभाषत
श्रीरुद्र उवाच ।त्वं हि ब्रह्म परं ज्योतिर्गूढं ब्रह्मणि वाङ्मये ।यं पश्यन्त्यमलात्मानमाकाशमिव केवलम्
नाभिर्नभोऽग्निर्म्मुखमम्बुरेतोद्यौः शीर्षमाशाः श्रुतिरङ्घ्रिरुर्व्वी ।चन्द्रो मनो यस्य दृगर्क आत्माअहं समुद्रो जठरं भुजेन्द्रः
रोमाणि यस्यौषधयोऽम्बुवाहाःकेशा विरिञ्चो धिषणा विसर्गः ।प्रजापतिर्हृदयं यस्य धर्म्मःस वै भवान् पुरुषो लोककल्पः
तवावतारोऽयमकुण्ठधामन्धर्म्मस्य गुप्त्यै जगतो भवाय ।वयञ्च सर्व्वे भवतानुभाविताविभावयामो भुवनानि सप्त
त्वमेक आद्यः पुरुषोऽद्वितीय-स्तुर्य्यः सदृग्धेतुरहेतुरीशः ।प्रतीयसेऽथापि यथा विकारंस्वमायया सर्व्वगुणप्रसिद्ध्यै
यथैव सूर्य्यः पिहितः स्वच्छाययाछायाञ्च रूपाणि सञ्चकास्ति ।एवं गुणेनापिहितो गुणांस्त्व-मात्मप्रदीपो गुणिनश्च भूमन
यन्मायामोहितधियः पुत्त्रदारगृहादिषु ।उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे
देवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रियः ।यो नाद्रियेत त्वत्पादौ शोच्यो ह्यात्म-वञ्चकः
यस्त्वां विसृजते मर्त्य आत्मानं प्रियमी श्वरम् ।विपर्य्ययेन्द्रियार्थार्थं विषमत्त्यमृतं त्यजेत्
अहं ब्रह्माथ बिबुधा मुनयश्चामलाशयाः ।सर्व्वात्मना प्रपन्नास्त्वामात्मानं प्रेष्ठमीश्वरम्
तं त्वां जगत्स्थित्युदयान्तहेतुंसमं प्रशान्तं सुहृदात्मदैवम् ।अनन्यमेकं जगदात्मकेतुंभवापवर्गाय भजाम देवम्
अयं ममेष्टो दयितोऽनुवर्त्तीमयाभयं दत्तममुष्य देव ! ।सम्पाद्यतां तद्भवतः प्रसादोयथा हि ते दैत्यपतौ प्रसादः
श्रीभगवानुवाच ।यदात्थ भगवंस्तन्नः करवाम प्रियन्तव ।भवतो यद्व्यवसितं तन्मे साध्वनुमोदितम्
अवध्योऽयं ममाप्येष वैरोचनसुतोऽसुरः ।प्रह्रादाय वरो दत्तो वध्यो मे तवान्वयः
दर्पोपशमनायास्य प्रकृत्ता बाहवो मया ।सूदितञ्च बलं भूरि यच्च भारायितं भुवः
चत्वारोऽस्य भुजाः शिष्टा भविष्यत्यजरामरः ।पार्षदमुख्यो भवतो कुतश्चिद्भयोऽसुरः
इति लब्ध्वाभयं कृष्णं प्रणम्य शिरसासुरः ।प्राद्युम्निं रथमारोप्य बध्वा समुपानयत्
अक्षौहिण्या परिवृतं सुवासःसमलङ्कृतम् ।सपत्नीकं पुरस्कृत्य ययौ रुद्रानुमोदितः
राजधानीं समलड्कृतां ध्वजै-र्मनोरमैर्भूषितमार्गचत्वराम् ।विवेश शङ्खानकदुन्दुभिस्वनै-रभ्युद्यतः पौरसुहृद्द्विजातिभिः
एतत् कृष्णविजयं शङ्करेण संयुगम् ।संस्मरेत् प्रातरुत्थाय तस्य स्यात् पराजयः
”इति श्रीभागवते महापुराणे पारमहंस्यांसंहितायां वैयासिक्यां दशमस्कन्धे बाणासुर-संग्रामे श्रीकृष्णविजयस्त्रिषष्टितमोऽध्यायः
वाचस्पत्यम्
Sanskrit
बाणयुद्ध
न०
त० कृष्णेन सह शिवसाहाय्यकस्य बाणस्ययुद्धे तच्च युद्ध भाग० १० ६१ अध्यावादो दृश्यम्