| YouTube Channel

बहुव्रीहिः (bahuvrIhiH)

 
Apte Hindi
Hindi
बहुव्रीहिः
पुं*
बहु - व्रीहिः -
संस्कृत के चार मुख्य समासों मे एक
Wordnet
Sanskrit
Synonyms:
बहुव्रीहिः
noun
षट्सु समासेषु समासविशेषः।
"बहुव्रीहौ द्वाभ्याम् अधिकानां पदानां वा मेलनेन यत् पदम् उत्पद्यते तत् अन्यस्य पदस्य विशेषणं भवति।"
शब्दकल्पद्रुमः
Sanskrit
बहुव्रीहिः,
पुं,
षट्समासान्तर्गतसमासविशेषः ।(मुग्धबोधमते ।) अस्य साङ्केतिकसंज्ञा हः ।यथा, अन्यार्थानां दानां हसंज्ञः उदाहरणंयथा पीतमम्वरं यस्यासौ पीताम्बरो हरिः ।इति वोपदेवः
तुल्याधिकरणानां पदानांअन्यार्थत्वे स्यादिति बोध्यम् यथा पीताम्बरादि ।मिन्नाधिकरणानान्तु पुत्त्राय धनमस्य शिष्यायविद्या अस्य इत्यादौ स्यात् समातृक इत्यु-दाहरणेन कदाचिद्भिन्नाधिकरणानाञ्च स्यात्धर्म्मे वृत्तिर्यस्यासौ धर्म्मवृत्तिः एवं कामवृत्तिःउरसि लोमा कण्ठे काल इत्यादि एवं पीता-म्बर इत्युदाहरता विशेषणविशेष्ययोः समासेविशेषणमेव पूर्व्वं स्यादिति सूचितम् तेनपीताम्बर इत्यत्र अम्बरपीत इति स्यात् ।एवं त्रिलोचनः चतुर्भुजः दीर्घकेशीत्यादि एवंपीताम्बर इत्युदाहरता क्वचित् क्तान्तविशेषणंपूर्व्वं स्यात् क्वचित् परं वा स्यात् इति सूचि-तम् तेन अव्याहतस्वैरगतेरिति अथेप्सितंभर्त्तुरुपस्थितोदयमिति वृत्तचूडश्चलकाक-पक्षकैरित्यादि रघुः
सुखजातः सुरापीतोनृजग्धो माल्यधारक इति एवं जातदन्तःदन्तजातः जातश्मश्रुः श्मश्रुजातः पीततैलःतैलपीतः पीतघृतः घृतपीतः ऊढभार्य्यःभार्य्योढः गतभार्य्यः भार्य्यागतः गतार्थः अर्थगतः अग्न्याहितः आहिताग्निः पुत्त्रजातःजातपुत्त्रः जातयामः यामजातः दुःखजातःजातदुःखः गडुकण्ठः कण्ठगडुः इत्यादिबोध्यम् ।एवमुद्यतचक्रः चक्रोद्यतः उद्यतासिः अस्युद्यतःउद्यतगदः गदोद्यतः उद्यतस्वड्गः खड्गोद्यतइति आयुधेभ्यो नित्यं पूर्व्वमिति जौमराः
यथा उद्यतचक्र इत्यादि एवं सर्व्वनामसक-लात् पूर्व्वम् सर्व्वश्वेतः संख्यासर्व्वनाम्नोःसंख्यापूर्व्वं स्यात् द्विपरः त्रिपूर्व्वः सप्तम्य-न्तमचन्द्रादेः सप्तम्यन्तं पदं पूर्व्वं स्यान्नचन्द्रादेः धर्म्मे वृत्तिर्यस्यासौ धर्म्मवृत्तिः उरसिलोमा कण्ठेकाल इत्यादौ उरसिजवत् क्तेर-लुक् चन्द्रादेस्तु चन्द्रशेखरः चन्द्रचूडः पद्म-नाभः शूलपाणिः कुशहस्तः प्रियो वा ।गुडप्रियः प्रियगुडः किञ्च आरूढो वानरोयं आरूढवानरो वृक्षः दृष्टः कृष्णो येनस दृष्टकृष्णो भक्तः दत्ता भूमिर्यस्मै दत्त-भूमिर्व्विप्रः निर्गताः पक्षिणो यस्मात् वृक्षात्स निर्गतपक्षी वृक्षः चत्वारो भुजा यस्यासौचतुर्भुजो विष्णुः बहूनि नक्षत्राणि यत्र तद्बहु-नक्षत्रमाकाशम् इति द्बितीयान्ताद्यन्य-पदार्था बहुव्रीहयः सर्व्वैर्मन्यन्ते स्वमते तुप्रथमान्तान्यपदार्थोऽपि यथा सह मात्रा वर्त्ततेयोऽसौ समातृकः एवं सपक्षकः सनामकंब्राह्मणमानिनीत्यादि इति दुर्गादासः
*
(बहवो ब्रीहयो यस्येति व्युत्पत्त्या) प्रचुर-धान्ययुक्ते, त्रि यथा, --“द्बन्द्बो द्बिगुरपि चाहं मद्गेहे नित्यमव्ययी-भावः ।तत्पुरुष ! कर्म्म धारय येनाहं स्यांबहुव्रीहिः
”इति प्राचीनाः