बहुव्रीहि (bahuvrIhi)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Wilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishApte Hindi
Hindiबहुव्रीहि
वि* बहु - व्रीहि -
बहुत चावलों वाला
बहुव्रीहिः
बहु - व्रीहिः -
संस्कृत के चार मुख्य समासों मे एक
Shabdartha Kaustubha
Kannadaबहुव्रीहि
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅನ್ಯಪದಾರ್ಥಪ್ರಧಾನವಾದ ಒಂದು ಸಮಾಸ
विस्तारः - > "शेषो बहुव्रीहिः" ಎಂಬ ಅಧಿಕಾರಸೂತ್ರದಿಂದ ವಿಧಿಸಲ್ಪಡುವ ಒಂದು ಸಮಾಸ. ಅನೇಕ ಪ್ರಥಮಾವಿಭಕ್ತ್ಯಂತಗಳು ಅನ್ಯಪದಾರ್ಥಪ್ರಧಾನವಾಗಿದ್ದರೆ ಅಲ್ಲಿ ಬಹುವ್ರೀಹಿ ಸಮಾಸ. पीताम्बरः, त्रिलोचनः ಇತ್ಯಾದಿ.
बहुव्रीहि
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಹೆಚ್ಚು ಧಾನ್ಯವುಳ್ಳ
प्रयोगाः - > "तत्पुरुष, कर्म धारय येनाहं स्यां सदा बहुव्रीहिः"
उल्लेखाः - > उद्भ०
L R Vaidya
Englishbahu-vrIhi {% (II) m. %} one of the four classes of compounds
in it, the last member loses independence and together with the other members serves to qualify an altogether different word
it is either a noun or an adjecctive, but in its original, character of qualifying another word, it is always an adjective
the word बहुव्रीहि itself is an example, तत्पुरुष कर्मधारय येणाहं स्यां बहुव्रीहिः Ud.
Abhyankara Grammar
Englishबहुव्रीहि a compound similar in meaning to the word बहुव्रीहि ( pos- sessed of much rice ) which, in sense shows quite a distinct object than those which are shown by the constituent members of the compound
a relative or adjective compound. There are various kinds of the Bahuvrihi compound such as समानाधिकरणबहुव्रीहि, व्यधिकरणबहुव्रीहि, संख्याबहुव्रीहि, दिग्बहुव्रीहि, सहुबहुव्रीहि, नञ्बहु- व्रीहि, and अनेकपदेबहुव्रीहि which depend upon the specific peculiarity notic- ed in the various cases. Panini in his' grammar has not given any defini- tion of बहुव्रीहि, but has stated that a compound other than those already given viz. अव्ययीभाव, द्वन्द्व and तत्पुरुष, is बहुव्रीहि and cited under Bahu- vrihi all cases mentioned above
cf शेषो बहुव्रीहिः II. 3.23-28
also cf. अन्यपदार्थप्रधानो बहुव्रीहि: M. Bh. on P. II. 1.6
II. 1.20
II. 1.49.
शब्दकल्पद्रुमः
Sanskritबहुव्रीहिः, षट्समासान्तर्गतसमासविशेषः ।(मुग्धबोधमते ।) अस्य साङ्केतिकसंज्ञा हः ।यथा, अन्यार्थानां दानां हसंज्ञः । उदाहरणंयथा । पीतमम्वरं यस्यासौ पीताम्बरो हरिः ।इति वोपदेवः ॥
स च तुल्याधिकरणानां पदानांअन्यार्थत्वे स्यादिति बोध्यम् । यथा पीताम्बरादि ।मिन्नाधिकरणानान्तु पुत्त्राय धनमस्य शिष्यायविद्या अस्य इत्यादौ न स्यात् । समातृक इत्यु-दाहरणेन कदाचिद्भिन्नाधिकरणानाञ्च स्यात्धर्म्मे वृत्तिर्यस्यासौ धर्म्मवृत्तिः । एवं कामवृत्तिःउरसि लोमा कण्ठे काल इत्यादि । एवं पीता-म्बर इत्युदाहरता विशेषणविशेष्ययोः समासेविशेषणमेव पूर्व्वं स्यादिति सूचितम् । तेनपीताम्बर इत्यत्र अम्बरपीत इति न स्यात् ।एवं त्रिलोचनः चतुर्भुजः दीर्घकेशीत्यादि । एवंपीताम्बर इत्युदाहरता क्वचित् क्तान्तविशेषणंपूर्व्वं स्यात् क्वचित् परं वा स्यात् इति सूचि-तम् । तेन अव्याहतस्वैरगतेरिति । अथेप्सितंभर्त्तुरुपस्थितोदयमिति । स वृत्तचूडश्चलकाक-पक्षकैरित्यादि रघुः ॥
सुखजातः सुरापीतोनृजग्धो माल्यधारक इति । एवं जातदन्तःदन्तजातः जातश्मश्रुः श्मश्रुजातः पीततैलःतैलपीतः पीतघृतः घृतपीतः ऊढभार्य्यःभार्य्योढः गतभार्य्यः भार्य्यागतः गतार्थः अर्थगतः अग्न्याहितः आहिताग्निः पुत्त्रजातःजातपुत्त्रः जातयामः यामजातः दुःखजातःजातदुःखः गडुकण्ठः कण्ठगडुः इत्यादिबोध्यम् ।एवमुद्यतचक्रः चक्रोद्यतः उद्यतासिः अस्युद्यतःउद्यतगदः गदोद्यतः उद्यतस्वड्गः खड्गोद्यतइति । आयुधेभ्यो नित्यं पूर्व्वमिति जौमराः ॥
यथा उद्यतचक्र इत्यादि । एवं सर्व्वनामसक-लात् पूर्व्वम् । सर्व्वश्वेतः । संख्यासर्व्वनाम्नोःसंख्यापूर्व्वं स्यात् । द्विपरः त्रिपूर्व्वः । सप्तम्य-न्तमचन्द्रादेः । सप्तम्यन्तं पदं पूर्व्वं स्यान्नचन्द्रादेः । धर्म्मे वृत्तिर्यस्यासौ धर्म्मवृत्तिः उरसिलोमा कण्ठेकाल इत्यादौ उरसिजवत् क्तेर-लुक् । चन्द्रादेस्तु चन्द्रशेखरः चन्द्रचूडः पद्म-नाभः शूलपाणिः कुशहस्तः । प्रियो वा ।गुडप्रियः प्रियगुडः । किञ्च आरूढो वानरोयं स आरूढवानरो वृक्षः । दृष्टः कृष्णो येनस दृष्टकृष्णो भक्तः । दत्ता भूमिर्यस्मै स दत्त-भूमिर्व्विप्रः । निर्गताः पक्षिणो यस्मात् वृक्षात्स निर्गतपक्षी वृक्षः । चत्वारो भुजा यस्यासौचतुर्भुजो विष्णुः । बहूनि नक्षत्राणि यत्र तद्बहु-नक्षत्रमाकाशम् । इति द्बितीयान्ताद्यन्य-पदार्था बहुव्रीहयः सर्व्वैर्मन्यन्ते । स्वमते तुप्रथमान्तान्यपदार्थोऽपि यथा सह मात्रा वर्त्ततेयोऽसौ समातृकः एवं सपक्षकः सनामकंब्राह्मणमानिनीत्यादि । इति दुर्गादासः ॥
* ॥
(बहवो ब्रीहयो यस्येति व्युत्पत्त्या) प्रचुर-धान्ययुक्ते, त्रि । यथा, --“द्बन्द्बो द्बिगुरपि चाहं मद्गेहे नित्यमव्ययी-भावः ।तत्पुरुष ! कर्म्म धारय येनाहं स्यांबहुव्रीहिः ॥
”इति प्राचीनाः ॥
वाचस्पत्यम्
Sanskritब(व)हुव्रीहि ६ ब० । १ अनेकधान्यादियुक्ते “तत्पुरुष!कर्म धारय येन यस्यां सदा बहुव्रीहिः” उद्भटः । व्या०करणोक्ते प्रायेण अन्यपदार्थप्रधाने २ समासभेदे तल्लक्षणादिकं शब्दशक्तिप्रकाशिकायामुक्तं यथाबहुब्रीहिं लक्षयति । “बहुव्रीहिः स्वगर्भार्थसम्बन्धि-त्वेन बोधकः । निरूढथा लक्षणया स्वांशज्ञापकशब्द-वान्” समास इति प्रकृतं तथा च स्वांशस्य निरूढ-लक्षणया ज्ञापकेन शब्देन घटितः स्वगर्भस्य यादृशार्थस्यसम्बन्धित्वप्रकारेणान्वयबोधं प्रति समर्थः समासः स्वगर्भ-तादृशार्थसम्बन्धिबोधेन बहुव्रीहिरित्यर्थः । आरूढवान-रोवृक्ष इत्यत्रारूढोवानरो यमिति व्युत्पत्त्या स्वकर्म-कारोहणकर्तृवानरसम्बन्धित्वेन वृक्षं, पीतपयस्कं पात्र-मित्यत्र पीतं पयोयेन इति रीत्या खकरणकपानकर्म-जलसम्बन्धित्वेन पात्रम्, पक्वतण्डुलश्चैत्र इत्यत्र पक्व-स्तण्डुलो येनेति दिशा स्वकर्तृकपाककर्मतण्डुलसम्ब-न्धित्वेन चैत्रं, दत्तदक्षिणोद्विज इत्यत्र दत्ता दक्षिणायस्मै इति क्रमेण स्वसम्प्रदानक्वदानकर्मदक्षिणासम्बन्धि-त्वेन द्विजं, पतितपत्रस्तरुरित्यत्र पतितं पत्रं यस्मा-दिति विग्रहेण स्वापादानकपतनाश्रयपत्रसम्बन्धित्वेनतरुं, चित्रगुरित्यत्र चित्रा गौर्यस्येति वाक्यानुसारेणश्चित्राभिन्नस्वगोसम्बन्धित्वेन चैत्रम्” रक्तपटः काय इत्यत्ररक्तः पटो यत्रेति व्युत्पत्या रक्ताभिन्नस्ववृत्तिपटसम्ब-न्धित्येन कायम्” एवं वाणच्छिन्नकरोनर इत्यादावपि ।वाणेन छिन्नः करो येन यस्य वा इत्यादि विग्रहेवाणकरणकस्वकर्तृकच्छिदाकर्मकरसम्यन्धित्वादिना नरा-दिकं बहुव्रीहिर्वोधयतीति सर्वत्र स्वगर्भतत्तदर्थसम्बन्धि-त्वेन धर्मिणामवगमः । दक्षिणपूर्वा पूर्वोत्तरेत्यादिवि-दिग्बहुव्रीहिस्थले दक्षिणया पूर्वा यस्या इत्यादिविग्रहेणस्वपार्श्वस्थदक्षिणसहितपूर्वदिक्सम्बन्धित्वादिना आग्ने-यीप्रभृतीनां विदिशां बोधः । अस्तिक्षीरा गौरीत्यादाव-प्यस्ति क्षीरं यस्या इत्यादिविग्रहेणास्तित्ववत्स्वक्षीरसम्ब-न्धित्वादिप्रकारेण गवादेरवगतिः । इयांस्तु विशेषो यत्त-त्रैकेषाम्मतेऽस्तीत्यादिकं तिङन्तमन्येषां मते तत्प्रतिरूप-काव्ययमिति । उप समीपे दश येषामिति समीपगणित-त्वार्थकपष्ठ्या विग्रहादुपदशाः शकुनय इत्यादौ स्वसमी-पगणितदशसम्बन्धित्वेन नवानामेकादशानानाञ्च पक्षिणा-मवगमस्तत्र दशशब्दस्य दशत्वलक्षणया स्वपर्थ्याप्तसंख्या-समीपगणितदशत्वसम्बन्धित्वेनैव नवादेर्बोध इति दुर्ग-प्रभृतयः । अधिका दश येषामित्यादिविग्रहे अधिकदशाःपरुषा इत्यादावपि स्वपर्य्याप्तसंख्याधिकदशवृत्तिसंख्या-पर्य्याप्त्यधिकरणदशसम्बन्धित्वेन नवादिपुंसां प्रत्ययः ।द्वौ त्रयो वा येषां इत्यन्यतरार्थकवाशब्देन विग्रहे द्वित्राःपवित्राः इत्यादौ । द्वित्र्यन्यतरपर्य्याप्तस्वपर्य्याप्त-सख्यासम्बन्धित्वेन द्वयोस्त्रयाणां वा पवित्राणां बोधः ।पटे घटे वा घटत्वमित्याद्यनुरोधेन वाकारस्यान्यतरार्थ-कताया व्युत्पाद्यत्वात् तस्य च वृत्तौ गतार्थत्वादश्रुतिःपञ्च षड् वा येषामित्यादिविग्रहात् पञ्चषाः पुरुषाःइत्यादावप्युक्तरीत्यैवान्वयोद्रष्टव्यः । परे तु द्वौ वा त्रयोवा येवामित्यादिबिग्रहे वाशब्दस्य संशयकोट्यर्थकंतयाद्वित्रा इत्यादि बहुव्रीहेः स्वधर्भिकसंशयकोटितापन्न-द्वित्रिसम्बन्धित्वेन द्विप्रभृतिबाधकत्वमित्याहुः” । वैयाकर-णास्तु बहुव्रीहिप्रकरणपठितत्वमेव तत्त्वमित्याहुः तेनउन्मत्तगङ्गाद्यव्ययीभावे नातिव्याप्तिः । तद्भेदौ च तद्-गुणातद्गुणसावज्ञानौ तद्गुणसंविज्ञानशब्द ६२१७ पृ०उक्तौ तत्र समानाधिकरणपदघटितस्येव प्रायेण साधुत्वम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
