| YouTube Channel

बहुवारः (bahuvAraH)

 
शब्दकल्पद्रुमः
Sanskrit
बहुवारः,
पुं,
(बहूनि वारयतीति बहु + वृ +णिच् + अण् ।) वृक्षविशेषः बहुयार इतिख्यातः तत्पर्य्यायः शेलुः शीतः श्लेष्मातः४ श्लेष्मातकः उद्दालः उद्दालकः इतिशब्दरत्नावली
सेलुः इत्यमरटीकायांभरतः
अस्य फलगुणाः हिमत्वम् श्लेष्म-लत्वम् शुक्रकारित्वम् गुरुत्वम् दुर्जरत्वम् ।मधुरत्वञ्च इति राजवल्लभः