| YouTube Channel

बहुप्रतिज्ञः (bahupratijJaH)

 
शब्दकल्पद्रुमः
Sanskrit
बहुप्रतिज्ञः, त्रि, (बह्व्यः प्रतिज्ञाः यस्मिन् ।)अनेक-पदसङ्कीर्ण-पूर्व्वपक्ष-विशिष्ट-व्यवहारः ।यथा “यत्तु अनेकपदसङ्कीर्णः पूर्व्वपक्षो नसिद्ध्यतीति तत्र यद्यनेकवस्तुसङ्कीर्ण इत्युच्यतेतदा दोषः मदीयमनेन हिरण्यं वासोरूपकादि वापहृतमित्येवंविधस्यादुष्टत्वात् ।ऋणादानपदसङ्करे पक्षाभास इति चेत् तदपिन मदीया रूपका अनेन वृद्ध्या गृहीताःसुवर्णञ्चास्य हस्ते निक्षिप्तं मदीयं क्षेत्रम-पहरति चेत्यादीनां पक्षत्वमिष्यते एव किन्तुक्रियाभेदात् क्रमेण व्यवहारो युगपदित्येतावत् ।यथाह कात्यायनः ।‘बहुप्रतिज्ञं यत् कार्य्यं व्यवहारेषु निश्चितम् ।कामन्तदपि गृह्णीयाद्राजा तत्त्वबुभुत्सयेति
’तस्मादनेकपदसङ्कीर्णः पूर्व्वपक्षो युगपन्न सिध्य-तीति तस्यार्थः ।” इति मिताक्षरा
अनेक-प्रतिज्ञायुक्ते, त्रि