| YouTube Channel

बष्ककः-ष्किका (baSkakaH-SkikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“बष्क दर्शने”@} 2 3 ‘कर्तृकरणाद् धात्वर्थे 4 इत्यत्र तद्गणसूत्रनिदर्शनार्थमुपात्तेषु धातुष्वयमेकः।
क्वचित् ‘बल्क दर्शने’ इत्युपात्तम्।
‘पोटायुवतिस्तोककतिपय- गृष्टिधेनुवशावेहद्बष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जातिः’ 5 इत्यत्र बष्कयणीशब्दस्योपादानात्, माधव-धातुकाव्यकारप्रभृतिभिरुपादाना- च्चास्माभिः बष्क इति पाठमादृत्यैवमत्र लिखितम्।]] बष्ककः-ष्किका, बिबष्कयिषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकगन्धयतिवत् 6 ज्ञेयानि।
7 बष्कयन्, 8 बष्कयणी।
प्रासङ्गिक्यः
01
=>
(११०७)
02
=>
(१०-चुरादिः-१९१६। सक। सेट्। उभ।)
03
=>
[[[अ]
04
=>
(ग। सू। चुरादिः)
05
=>
(२-१-६५)
06
=>
(३७५)
07
=>
[[B। ‘लोके बष्कयतीह चित्रितमहामञ्चे स्वयं चित्रयन् दोष्णा खङ्गमुदंस्य तस्य वटयन् हस्तादगृह्णादमुम्।’ धा। का। ३। ६१।]]
08
=>
[[१। बाहुलकात् औणादिकेऽयप्रत्यये बष्कयः = तरुणवत्सः। सोऽस्य अस्तीति पामादित्वात् (५-२-१००) नप्रत्यये णत्वे ङीषि बष्कयणी = चिरप्रसूता गौः।]]