| YouTube Channel

बलीवर्द्दः (balIvarddaH)

 
शब्दकल्पद्रुमः
Sanskrit
ब(व)लीवर्द्दः,
पुं,
(ईर्लक्षीः वर् वरणम् वर्ईप्सायां क्विप् ईश्च वर् ईवरौ तौ ददातीतिईवर्द्दः बलमस्यास्तीति बली ततो बली चईवर्द्दश्च इति ।) वृषः इत्यमरः ५९
(यथा, कथासरित्सागरे २० २७ ।“संयोज्याथ बलीवर्द्दयुगं रचितमङ्गलः ।कृत्वा बलिं तस्य तरोरारेभे कृषिमत्र सः
”)तीर्थयात्रायां तदारूढस्य दोषो यथा, --“बलीवर्द्दसमारूढः शृणु तस्यापि यत् फलम् ।नरके वसते षोरे गवां क्रोधे हि दारुणे
सलिलञ्च गृह्णन्ति पितरस्तस्य देहिनः
”इति मात्स्ये ८८ अध्यायः