| YouTube Channel

बलिदानं (balidAnaM)

 
शब्दकल्पद्रुमः
Sanskrit
बलिदानं, क्ली (बलेः पूजोपकरणस्य देवतो-द्देशेन संकल्पितच्छागादेर्वा दानम् ।) श्रीकृष्ण-पार्षदेभ्यस्तन्निवेदितनैवेद्यांशदानम् यथा, --अथ बलिदानम् ।“ततो यवनिकां विद्वानपसार्य्य यथाविधि ।विश्वक्सेनाय भगवन्नैवेद्यांशं निवेदयेत्
यथा पञ्चरात्रे श्रीनारदवचनम् ।विश्वक्सेनाय दातव्यं नैवेद्यं तच्छतांशकम् ।पादोदकं प्रसादञ्च लिङ्गे चण्डेश्वराय
*
तद्विधिश्चोक्तः ।मुख्यादीशानतः पात्रान्नैवेद्यांशं समुद्धरेत् ।सर्व्वदेवस्वरूपाय पराय परमेष्ठिने
श्रीकृष्णसेवायुक्ताय विश्वक्सेनाय ते नमः ।इत्युक्त्वा श्रीहरेर्वामे तीर्थक्लिन्नं समर्पयेत् ।शतांशं वा सहस्रांशमन्यथा निष्फलं भवेत्
पश्चाच्च बलिरित्यादिश्लोकायुच्चार्य्य वैष्णवः ।सर्व्वेभ्यो वैष्णवेभ्यस्तं शतांशं विनिवेदयेत्
*
तौ श्लोकौ ।बलिर्विभीषणो भीमः कपिलो नारदोऽर्ज्जुनः ।प्रह्लादश्चाम्बरीषश्च वसुर्वायुसुतः शिवः
विश्वक्सेनोद्धवाक्रूराः सनकाद्याः शुकादयः ।श्रीकृष्णस्य प्रसादोऽयं सर्व्वे गृह्णन्तु वैष्णवाः
इति ।इदं यद्यपि युज्येत दर्पणार्पणतः परम् ।तथापि भक्तवात्सल्यात् कृष्णस्यात्रापि सम्भवेत्
अथ बलिदानमाहात्म्यम् नारसिंहे ।ततस्तदन्नशेषेण पार्षदेभ्यः समन्ततः ।पुष्पाक्षतैर्विमिश्रेण बलिं यस्तु प्रयच्छति
बलिना वैष्णवेनाथ तृप्ताः सन्तो दिवौकसः ।शान्तिं तस्य प्रयच्छन्ति श्रियमारोग्यमेव
”इति श्रीहरिभक्तिविलासे विलासः
देवोद्देशेन यथाविधिपूजोपहारत्यागः दुर्गादि-देवतोद्देशेन सङ्कल्पपूर्व्वकच्छागादिपशुघात-नम् यथा, --“बलिदानेन सततं जयेच्छत्रून् नृपान् नृप !
”इति कालिकापुराणम्
अस्य विधिनिषेधौ बलिशब्दे द्रष्टव्यौ
*
अथ बलिदानक्रमः स्वयमुत्तराभिमुखः पूर्व्वा-भिमुखं बलिं अव्यग्रावयवं सुन्दरं हृष्टपुष्टंमाल्यं कण्ठे वेष्टयित्वा स्नातं समानीय कृता-ञ्जलिः पठेत् ।“ओँ वाराही यमुना गङ्गा करतोया सरस्वती ।कावेरी चन्द्रभागा सिन्धुभैरवसागराः
पशुस्नानविधानाय सान्निध्यमिह कल्पय
”इति तीर्थान्यावाह्य ओँ अग्निः पशुरासीत्तेना-यजन्त एतल्लोकमजयत्तस्मिन्नग्निः तेलोको भविष्यति तं जेष्यसि पिबैता अपः ओँवायुः पशुरासीत्तेनायजन्त एतल्लोकमजय-त्तस्मिन् वायुः ते लोको भविष्यति तं जेष्यसिपिबैता अपः ओँ सूर्य्यः पशुरासीत्तेनायजन्तस एतल्लोकमजयत् तस्मिन् सूर्य्यः ते लोकोभविष्यति तं जेष्यसि पिबैता अपः ओँ वाचन्तेशुन्धामि प्राणांस्ते शुन्धामि श्रोत्रन्ते शुन्धामिमेढ्रन्ते शुन्धामि पायुन्ते शुन्धामि मनस्तआप्यायतां वाक् आप्यायतां प्राणन्त आप्या-यतां चक्षुस्त आप्यायतां श्रोत्रन्त आप्यायतांयत्ते क्रूरं यदा स्थितं तत्त आप्यायतां तत्तेनिष्ठायतां तत्ते शुध्यतु सुमहोभ्यः स्वाहा इतिमन्त्रैः स्नापयित्वा ओँ मेघाकारस्तम्भमध्ये पशुंबन्धय बन्धय सशृङ्गाद्यवयवं पशुं बन्धय बन्धयब्रह्माण्डखण्डरूपस्तम्भे पशुं बन्धय बन्धय ह्रःफट् स्वाहा ओँ ह्रां ह्रीं ह्रूं चां चण्डिकायैइमं पशुं प्रोक्षामि स्वाहा इति प्रोक्षणम् ।ततः सशृङ्गाद्यवयवं पशुं मोक्षं कुरु कुरुस्वाहेति मोक्षं कृत्वा क्षमस्वेति ललाटे सिन्दूरंदत्त्वा ओँ छागपशवे नम इति पाद्यादिकं दत्त्वाएतदधिपतये ओँ अग्नये नमः एतत्सम्प्रदानी-यायै ह्रीं दुर्गायै नमः इति पुष्पं दत्त्वा पशो-रङ्गदेवताः पूजयेत् यथा, शिरसि ओँ रुधिर-वदनायै नमः ललाटे ओँ शार्ङ्गिण्यै नमः भ्रूमध्येओँ भृङ्गायै नमः चक्षुषोः ओँ त्रिनेत्रायै नमःकर्णयोः ओँ पार्व्वत्यै नमः घ्राणे ओँ गौर्य्यै नमःचिवुके ओँ चण्डिकायै नमः दन्तपङ्क्तौ ओँउग्रचण्डिकायै नमः जिह्वायां ओँ चण्डघण्टायैनमः मुखे ओँ विरूपाक्षायै नमः ग्रीवायां ओँचण्डायै नमः पृष्ठे ओँ महाभैरव्यै नमः उदरेओँ वैष्णव्यै नमः चतुष्पदे ओँ चण्डप्रियायै नमःपार्श्वयोः ओँ सर्व्वैश्वर्य्यै नमः कटिदेशे ओँ विरू-पाक्षायै नमः खुराग्रे ओँ कौशिक्यै नमः लाङ्गूलेओँ प्रहर्षिण्यै नमः सर्व्वाङ्गेषु पश्वधिष्ठातृदेव-ताभ्यो नमः इति संपूज्य उत्सृजेत् विष्णुःओँ तत् सदद्याश्विने मासि शुक्ले पक्षे अमुक-तिथौ वार्षिकशरत्कालीनदुर्गामहोत्सवे अमुक-गोत्रस्य श्रीअमुकस्य दुर्गाप्रीतिकामनया दुर्गा-देव्यै इमं पशुं वह्निदैवतं तुभ्यमहं घातयिष्यामिइत्युत्सृज्य कृताञ्जलिः पठेत् ।“ओँ छाग ! त्वं बलिरूपेण मम भाग्यादुप-स्थितः ।प्रणमामि ततः सर्व्वरूपिणं बलिरूपिणम्
यज्ञार्थे पशवः सृष्टाः स्वयमेव स्वयम्भुवा ।अतस्त्वां घातयिष्यामि तस्माद्यज्ञे वधोऽवधः
पशुयोनिप्रसूतोऽसि पूजाहोमादिकर्म्मसु ।तुष्टा भवतु सा देवी सरक्तपिशितैस्तव
चण्डिकाप्रीतिदानेन दातुरापद्विनाशनः ।चामुण्डाबलिरूपाय बले ! तुन्यं नमोऽस्तु ते
”ततः “पगुपाशाय विद्महे शिरश्छेदाय धीमहि ।तन्नः पशुः प्रचोदयात् ।” इति कर्णे जपेत् ।ततः खड्गमानीत्र ह्रीं इति बीजाक्षरंलिखित्वा ध्यायेत् ।“कृष्णं पिणाकपाणिञ्च कालरात्रिस्वरूपिणम् ।उग्रं रक्तास्यनयनं रक्तमाल्यानुलेपनम्
रक्ताम्बरधरञ्चैव पाशहस्तं कुटुम्बिनम् ।पिबमानञ्च रुधिरं भुञ्जानं क्रव्यसंहतिम्
”एवं खड्गं ध्यात्वा गृहीत्वा, “ओँ रसनात्वं चण्डिकायाः सुरलोकप्रसाधकः ।”इत्यभिमन्त्र्य ऐं ह्रीं खड् गाय नम इतिपाद्यादिभिः संपूज्य पुनर्मुष्टौ ओँ महादेवायनमः धारे ओँ यमाय नमः अग्रे ओँ ब्रह्मणेनमः ।“ओँ असिर्विशसनः खड गस्तीक्ष्णधारो दुरा-सदः ।श्रीगर्भो विजयश्चैव धर्म्मपाल ! नमोऽस्तु ते
इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा ।नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः
हिरण्यञ्च शरीरन्ते धाता देवो जनार्द्दनः ।पिता पितामहो देवस्त्वं मां पालय सर्व्वदा
नीलजीमूतसङ्काशस्तीक्ष्णदंष्ट्रः कृशोदरः ।भावशुद्धो मर्षणश्च अतितेजास्तथैव
”ओँ तीक्ष्णदंष्ट्राय नम इति पुष्पं दत्त्वा आं ह्रींफट् इति खड्गमादाय ओँ कालि कालि व्रजे-श्वरि लौहदण्डायै नम इति जपित्वा छागस्यग्रीवायां खडग ! त्वं शीघ्रं छिन्धि छिन्धि फट्फट् स्वाहा इति पूर्व्वाभिमुखं बलिं स्वयमुत्त-रामुखः उत्तराभिमुखं बलिं स्वयं पूर्व्वाभिमुखोवा सकृत्प्रहारेण छिन्द्यात् ततो मृण्मयादि-पात्रे रुधिरमादाय चतुर्भागं कृत्वा ऐशान्यांओँ विदारिकायै नमः आग्नेय्यां ओँ पूतनायैनभः नैरृत्यां ओँ पापराक्षस्यै नमः वायव्यांओँ कौशिक्यै नमः ओँ तत् सदद्यामुके मासिअमुकपक्षेऽमुकतिथौ वार्षिकशरत्कालीनदुर्गा-महोत्सवे अमुकगोत्रस्य श्रीअमुकस्य दशवर्षा-वच्छिन्नश्रीदुर्गाप्रीतिकामः श्रीदुर्गादेव्यै छागपशु-रुधिरं दास्यामि इति सङ्कल्प्य ।ओँ कालि कालि महाकालि कालिके पाप-नाशिनि ।शोणितञ्च बलिं गृह्ण वरदे वामलोचने
”एष रुधिरबलिः ओँ दक्षयज्ञेति मन्त्रेण दद्यात् ।ततः ऐं ह्रीं श्रीं कौशिकि रुधिरेणाप्यायता-मिति वदेत् ततः शिरसि ज्वलद्दशां दत्त्वाओँ तत् सदद्यामुके मास्यमुकपक्षेऽमुकतिथौवार्षिकशरत्कालीनदुर्गामहोत्सवे अमुकगोत्रस्यश्रीअमुकस्य श्रीमद्दुर्गादर्शनाभिवन्दनस्पर्शना-भिपूजनस्नपनतर्पणजनितपूर्व्वपूर्व्वाधिकपुण्य-प्राप्तिकामो दुर्गादेव्यै सप्रदीपच्छागपशुशीर्षंदास्यामीति सङ्कल्प्य एष सप्रदीपच्छागपशु-शीर्षबलिः ह्रीं दुर्गायै नम इत्युत्सृजेत् ।“ओँ जय त्वं सर्व्वभूतेशे सव्वभूतसमावृते ।रक्ष मां निजभूतेभ्यो वलिं भुङ्क्ष्व नमो-ऽस्तु ते
ततः खड् गरुधिरमादाय ।“ओँ यं यं स्पृशामि पादेन यं यं पश्यामिचक्षुषा ।स मे वश्यतां यातु यदि शक्रसमो भवेत्
”इति ललाटे तिलकं कुर्य्यात् मेषघाते तु मेषे-त्यूहेन योज्यम् मेषरुधिरदाने तु एकवर्षाव-च्छिन्नदुर्गाप्रीतिकामः प्रभूतबलिदाने तु द्वौवा त्रीन् वा अग्रतः कृत्वा संप्रोक्ष्य तत्तत्पशुभ्योनम इति संपूज्य छाग त्वमित्येकवत्तनानूहेनप्रयोगः पश्वन्तरेऽप्येवम् वाक्ये तु एतान्पशून् तुभ्यमहं घातयिष्ये रुधिरदाने तुएतान् रुधिरबलीन् दास्यामि इति सङ्कल्पाप्रत्येकेन दद्यात् शीर्षदानमप्येवम् ततो मूल-मन्त्रं यथाशक्ति जप्त्वा समर्प्य प्रणमेदिति नन्दि-केश्वरपुराणोक्तपद्धतिः
*
अथ तान्त्रिकबलिदानविधिः “तत्र सुलक्षणंपशुं देव्यग्रे संस्थाप्य वक्ष्यमाणविधिना उत्-सृजेत् तदुक्तं यामले ।‘देव्यग्रे स्थापयित्वा तु पशुं लक्षणसंयुतम् ।श्वेतसर्षपविक्षेपात् भूतानुत्सारयेत्ततः
’अर्घ्योदकेन संप्रोक्ष्य अस्त्रेण संरक्ष्य कवचेनाव-गुण्ठ्य धेनुमुद्रयामृतीकृत्य गन्धपुष्पाक्षतैः पशुंसंपूज्य मूलेन सप्तधा तत्त्वमुद्रया प्रोक्षणं कृत्वाकर्णे इमं मन्त्रं पठेत् पशुपाशाय विद्महेविश्वकर्म्मणे धीमहि तन्नो जीवः प्रचोदयात् ।ततो ह्रीं कालि कालि वज्रेश्वरि लौहदण्डायैनम इति मन्त्रेण खड् गं पूजयेत् ततः खड्-गस्याग्रमध्यमूलं क्रमेण पूजयेत् यथा हूंवागीश्वरीब्रह्मभ्यां नमः हूं लक्ष्मीनारा-यणाभ्यां नमः हूं उमामहेश्वराभ्यां नमः ।ततो ब्रह्मविष्णुशिवशक्तियुक्ताय खड् गाय नमः ।इति सर्व्वत्र पूजयित्वा प्रणमेत् ।‘खड्गाय खरशाणाय शक्तिकार्य्यार्थतत्पर ! ।पशुश्छेद्यस्त्वया शीघ्रं खड् गनाथ ! नमोऽस्तु ते
’ततो महावाक्यं अमुकदेवताप्रीतिकामःअमुकदेव्यै इमं पशुं तुभ्यमहं संप्रददे ततोनिवेदयेत् ।‘यथोक्तेन विधानेन तुभ्यमस्तु समर्पितम्
’ततो बलिं छिन्द्यात् ततो रुधिरं समांसं देव्यैदद्यात् ततोऽवशिष्टं वटुकादिभ्यो बलिं दद्यात्यथा हुं वां वटुकाय नमः इति गन्धादिभिःसंपूज्य पूर्व्ववन्मन्त्रेण वायव्ये बलिं दद्यात् हुंयां योगिनीभ्यो नमः इति संपूज्य पूर्व्ववन्मन्त्रेणईशाने बलिं दद्यात् हुं क्षां क्षेत्रपालाय नमःइति संपूज्य पूर्व्ववन्मन्त्रेण नैरृत्यां बलिं दद्यात् ।हुं गां गणपतये नमः इति संपूज्य पूर्व्ववन्म-न्त्रेण आग्नेय्यां गणेशाय बलिं दद्यात् ।” इतितन्त्रसारः
*
(ननु “मा हिंस्यात् सर्व्वा-भूतानि” “अहिंसा परमो धर्म्मः ।” इत्यादिवचनान्न कर्त्तव्यैव सर्व्वथा हिंसा कथं तर्हिहिंसाप्रवृत्तिः शुभादृष्टजनकत्वेन शास्त्रेषूप-दिष्टा अतोऽत्रोच्यते अथ वैधहिंसाविचारः ।‘मा हिंस्यात् सर्व्वाभूतानि’ इत्यत्र सर्व्वशब्दस्यव्यापकार्थपरतया एतद्विधिमनुल्लङ्घ्य ‘वायव्यंश्वेतमालभेत’ इत्यादि विधेर्विषयाप्राप्तेरगत्यावैधातिरिक्तविषयत्वं सर्व्वाः सर्व्वाणि छन्दसिवेत्यनेन तत्पदं सिद्धम् यदपि नाना दर्शन-टीकाकृद्भिर्वाचस्पतिमिश्रैस्तत्त्वकौमुद्याम् अभि-हितं ‘मा हिंस्यात् सर्व्वाभूतानि’इति सामान्यशास्त्रं विशेषशास्त्रेण ‘अग्नि-षोमीयं पशुमालभेत’ इत्यनेन वाध्येत इतिवाच्यं विरोधाभावात् विरोधे हि बलीयसादुर्ब्बलं वाध्यते चास्ति विरोधः भिन्नषिषय-त्वात् तथाहि ‘मा हिंस्यात् इति निषेधेनहिंसाया अनर्थहेतुभावो ज्ञाप्यते पुनरक्रत्व-र्थत्वमपि चानर्थहेतुत्वक्रतूपकारकत्वयोःकश्चिदस्ति विरोधः हिंसा हि पुरुषस्य दोष-मावक्ष्यति क्रतोश्चोपकरिष्यतीत्यन्तेन तदपिसांख्यनये मीमांसकमते तु विरोध एवतथाहि गुरुनये खलु सर्व्वभूतहिंसाभाव-विषयकं कार्य्यं इति निषेधविध्यर्थस्य वाधं विनाअग्निषोमीयपश्वालम्भनविषयकं कार्य्यमितिभावविध्यर्थ उपपद्यते भट्टनये तु अङ्गे यथातथास्तु मुख्यपशुयागे पुरुषार्थकपशु-हिंसनस्यार्थसाधनत्वं अनर्थसाघनत्वञ्चोपपद्यतेविरोधात् वस्तुतस्तु अङ्गेऽपि विरोधोऽस्त्येवकुतो विधेरेष स्वभावो यः स्वविषयस्य साक्षात्परम्परया वा पुरुषार्थसाधनत्वमवगमयतिअन्यथाङ्गानां प्रधानोपकारकत्वमपि नाङ्गी-क्रियेत अर्थसाधनत्वं बलवदनिष्टाननुबन्धीष्ट-साधनत्वं अनर्थसाधनत्वं बलवदनिष्टसाधनत्वंन चानयोरेकत्र समावेश इति अतएवोक्तं‘तस्माद्यज्ञे वधोऽवधः’ इति नन्वेवं ‘श्येनेना-भिचरन् यजेत’ इत्यत्र श्येनस्य शत्रुवधरूपेष्ट-साधनत्वमवगतं ‘अभिचारो मूलकर्म्म ।’११ ६३ इति मनुना उपपातकगणमध्ये पाठात्अनिष्टसाधनत्वमवगतम् तदेतत्कथमुपपद्य-तामिति चेन्मैवं ‘आततायिनमायान्तं हन्या-देवाविचारयन् ।’ ३५० इत्येकवाक्यतयाआततायिस्थले इष्टसाधनत्वं अनाततायिस्थलेतूपपातकत्वेन बलवदनिष्टसाधनत्वमित्यविरोधएव
इति तिथितत्त्वम्
)