| YouTube Channel

बलविन्यासः (balavinyAsaH)

 
Apte Hindi
Hindi
बलविन्यासः
पुं*
बल - विन्यासः -
सैन्य दल की व्यूह रचना
Wordnet
Sanskrit
Synonyms:
व्यूहः, बलविन्यासः
noun
युद्धार्थसेनारचना।
"अभिमन्युः अतीव कौरवैः रचिते चक्राकारे दुष्करे व्यूहे धैर्येण प्राविशत्।"
शब्दकल्पद्रुमः
Sanskrit
बलविन्यासः,
पुं,
(बलानां सैन्यानां विशेषेणदुर्भेद्यत्वेन न्यासः स्थापनम् ।) युद्धार्थं सैन्यस्यदेशविशेषे विभज्य दुर्लङ्घ्यत्वनिमित्तं स्थापनम् ।तत्पर्य्यायः व्यूहः इत्यमरः ७९
(बलविन्यासास्तु मकरपद्मादिभेदात् बहवः ।तत्र संक्षेपतो मनुना युद्धयात्रार्थं केचि-न्निर्द्दिष्टाः यथा, मानवे १८७ -- १९१ ।“दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा ।वराहमकराभ्यां वा सूच्या वा गारुडेन वा
यतश्च भयमाशङ्कत् ततो विस्तारयेद्बलम् ।पद्मेन चैव व्यूहेन निविशेत सदा स्वयम्
सेनापतिबलाध्यक्षौ सर्व्वदिक्षु निवेशयेत् ।यतश्च भयमाशङ्केत् प्राचीं तां कल्पयेद्दिशम्
गुल्मांश्च स्थापयेदाप्तान् कृतसंज्ञान् समन्ततः ।स्थाने युद्धे कुशलानभीरूनविकारिणः
संहतान् योधयेदल्पान् कामं विस्तारयेद्बहून् ।सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत्
”)