बलः (balaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiबलः
- -
कौवा
बलः
- -
कृष्ण के बड़े भाई
बलः
- -
एक राक्षस का नाम जिसे इन्द्र ने मारा था
Wordnet
Sanskrit बलः
एकः असुरः।
"बलस्य वर्णनं पुराणेषु वर्तते।"
बलदेवः, बलभद्रः, संकर्षणः, हलधरः, बलः, मधुप्रियः, बलरामः, तालाङ्कः, प्रलम्बघ्नः, अच्युताग्रजः, रेवतीरमणः, रामः, कामपालः, हलायुधः, नीलाम्बरः, रौहिणेयः, तालाङ्कः, सुषली, हली, सङ्कर्षणः, सीरपाणिः, कालिन्दीभेदनः, रुक्मिदर्पः, हलभृत्, हालभृत्, सौनन्दी, गुप्तवरः, संवर्तकः, बली, मुसली
कृष्णस्य ज्येष्ठः भ्राता यः रोहिण्याः पुत्रः आसीत्।
"बलरामः शेषनागस्य अवतारः अस्ति इति मन्यन्ते।"
बुद्धः, सर्वज्ञः, सुगतः, धर्मराजः, तथागतः, समन्तभद्रः, भगवान्, मारजित्, लोकजित्, जिनः, षडभिज्ञः, दशबलः, अद्वयवादी, विनायकः, मुनीन्द्रः, श्रीघनः, शास्ता, मुनिः, धर्मः, त्रिकालज्ञः, धातुः, बोधिसत्त्वः, महाबोधिः, आर्यः, पञ्चज्ञानः, दशार्हः, दशभूमिगः, चतुस्त्रिंशतजातकज्ञः, दशपारमिताधरः, द्वादशाक्षः, त्रिकायः, संगुप्तः, दयकुर्चः, खजित्, विज्ञानमातृकः, महामैत्रः, धर्मचक्रः, महामुनिः, असमः, खसमः, मैत्री, बलः, गुणाकरः, अकनिष्ठः, त्रिशरणः, बुधः, वक्री, वागाशनिः, जितारिः, अर्हणः, अर्हन्, महासुखः, महाबलः, जटाधरः, ललितः
बौद्धधर्मस्य प्रवर्तकः यं जनाः ईश्वरं मन्यन्ते।
"कुशीनगरम् इति बुद्धस्य परिनिर्वाणस्थलं इति ख्यातम्।"
मेघः, अभ्रमम्, वारिवाहः, स्तनयित्नुः, बलाबकः, धाराधरः, जलधरः, तडित्वान्, वारिदः, अम्बुभृत्, घनः, जीमूतः, मुदिरः, जलमुक्, धूमयोनिः, अभ्रम्, पयोधरः, अम्भोधरः, व्योमधूमः, घनाघनः, वायुदारुः, नभश्चरः, कन्धरः, कन्धः, नीरदः, गगनध्वजः, वारिसुक्, वार्मुक्, वनसुक्, अब्दः, पर्जन्यः, नभोगजः, मदयित्नुः, कदः, कन्दः, गवेडुः, गदामरः, खतमालः, वातरथः, श्नेतनीलः, नागः, जलकरङ्कः, पेचकः, भेकः, दर्दुरः, अम्बुदः, तोयदः, अम्बुवाबः, पाथोदः, गदाम्बरः, गाडवः, वारिमसिः, अद्रिः, ग्रावा, गोत्रः, बलः, अश्नः, पुरुभोजाः, वलिशानः, अश्मा, पर्वतः, गिरिः, व्रजः, चरुः, वराहः, शम्बरः, रौहिणः, रैवतः, फलिगः, उपरः, उपलः, चमसः, अर्हिः, दृतिः, ओदनः, वृषन्धिः, वृत्रः, असुरः, कोशः
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
"कालिदासेन मेघः दूतः अस्ति इति कल्पना कृता"
Tamil
Tamilப3ல: : காகம், பலராமன்.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritब(व)लः, (बलते निरूपयति स्वेष्टमिति । बल +अच् । बलदेवपक्षे नामैकदेशग्रहणाच्चापिसिध्यति भीमादिवत् ।) काकः । (यथा, महा-भारते । ७ । ६ । २५ ।“गृध्राः श्वेना बलाः कङ्का वायसाश्च सहस्रशः ॥
”)बलदेवः । इत्यमरः ॥
(यथा, भागवते । ४ । ५ । १९ ।“पूष्णो ह्यपातयत् दन्तान् कलिङ्गस्य यथा बलः ॥
”)अस्य पत्न्यादीनां नामानि यथा, --“रेवतीं नाम तनयां रेवतस्य महीपतेः ।उपयेमे बलस्तस्यां जज्ञाते निशठोल्मकौ ॥
”इति विष्णुपुराणे । ५ । २५ । १९ ॥
वरुणवृक्षः । इति शब्दचन्द्रिका ॥
(वायुनाप्रदत्तः कार्त्तिकेयानुचरभेदः । यथा, महा-भारते । ९ । ४५ । ४२ ।“बलञ्चातिबलञ्चैव महावक्त्रौ महाबलौ ।प्रददौ कार्त्तिकेयाय वायुर्भरतसत्तम ! ॥
”रामपुत्त्रस्य कुशस्यान्वये जातस्य पारियात्रस्यपुत्त्रविशेषः । यथा, भागवते । ९ । १२ । २ ।“देवानीकस्ततोऽनीहः पारियात्रोऽथ तत्सुतः ।ततो बलः स्थलस्तस्माद्वज्रनाभोऽर्कसम्भवः ॥
”दनायुषः पुत्त्रविशेषः । यथा, महाभारते । १ ।६५ । ३३ ।“दनायुषः पुनः पुत्त्राश्चत्वारोऽसुरपुङ्गवाः ।विक्षयो बलवीरौ च वृत्रश्चैव महामुरः ॥
”मेघः । इति निघण्टुः । १ । १० ॥
) दैत्य-विशेषः । इति मेदिनी । ले, ३७ ॥
तस्यविवरणं यथा, --“आसीद्दैत्यो बलो नाम महाबलपराक्रमः ।देवगन्धर्व्वयक्षाणां चन्द्रेन्द्रभयकारकः ॥
येन विष्णुर्यमः सूर्य्यो भग्न आजौ प्रपीडिताः ।अनिलानलरक्षश्च वरुणश्च वशीकृताः ॥
संयम्य येन नागेन्द्रा महाभोगा महाविषाः ।गरुडश्च कृतो भृत्यः सदाज्ञामभिवर्त्तिनः ॥
येन संलिख्य शैलेन्द्रः कन्दुकाकारकारितः ।क्रीडार्थं येन विप्रेन्द्र ! गिरयः प्रथिता भुवि ॥
तेन देवाः सब्रह्माद्या दिवः सर्व्वे पलायिताः ।दत्तं स्थानन्तु पातालं समयं शरदां शतम् ॥
तथा ते भयमापन्ना मानं त्यक्त्वा गता गुरुम् ।पृच्छन्ति विनयात् सर्व्वे शक्रस्य हितकारिणः ॥
केनोपायेन देवानां स्वर्गवासो भवेद्द्विज ! ।भवान् हि नयवेत्ता च उपायं वद पृच्छताम् ॥
त्वमेव शास्त्रवेत्ता च हितः शक्रस्य नित्यशः ।शङ्कोदधिनिमग्नानामतिपोतो भव द्विज ! ॥
एवं पृष्टः स देवैस्तु गुरुर्व्वचनमब्रवीत् ॥
बृहस्पतिरुवाच ।यदयं दानवः शक्र ! न युद्धे भवतो वशः ।रणे न क्षयमायाति अजेयः सङ्गरे यतः ॥
अतः कपटमास्थाय प्रार्थनीयः क्रतुं प्रति ।दाता सत्त्वबलोपेतः स्वकायमर्थितेष्वपि ॥
अतस्तस्य प्रार्थयिता विष्णुर्म्मायामहोदधिः ।द्बिजरूपधरो भूत्वा याचनाय वधाय च ॥
गुरुणा चोदिता देवाः स्तुतास्ते निधनम्प्रति ।गताः सर्व्वे ततः शान्ता यत्र देवो जनार्द्दनः ॥
माधवेन तदा देवा दृष्टा भयसमाकुलाः ।क्रमार्घ्यासनसंलापैः सर्व्वे ते संस्तुतां भृशम् ॥
संपृच्छितास्तदा सर्व्वे किमायातावदन् सुराः ॥
देवा ऊचुः ।बलेन बलिना देव ! सर्व्वे षित्रासिता वयम् ।मायावी त्वं वधे तस्य नान्योपायो भवेत् क्वचित् ॥
षिष्णुरुवाच ।करोमि भवतामिष्टं किन्त्वसौ बलसंयुतः ।सात्विको नयवेत्ता च सर्व्वशास्त्रार्थपारगः ॥
गूढमन्त्रविचारी स्याद्धर्म्मैककृतनिश्चयः ।तस्य मायां कथं कर्त्तुं शक्यते सुरसत्तमाः ॥
पुरैका भवते विद्या मम दत्ता तु शूलिना ।मोहिनी नाम विख्याता मोहं सा कुरुते भृशम् ॥
ततोऽहं तस्य नाशाय स्मरामि परमेश्वरीम् ।स्मरित्वा परमां विद्यां द्बिजभावो जनार्द्दनः ॥
मध्यकायसुवेशश्च वेदपाठी सविष्टरः ।परिग्राही हुताशस्य क्षपयन्नो व्रजेद्यजेत् ॥
यज्ञार्थं याचनां कस्य करोमि कथ्यतां मम ।तं दृष्ट्वा सूर्य्यतेजाभमुक्तो विप्रैर्व्रजन् स च ॥
बलस्ते यज्ञनिष्पत्तिं करोति द्विजसत्तम ! ।हेमकूटे महाशैले तिष्ठते दानवोत्तमः ॥
सर्व्वज्ञोऽपि महामायी वञ्चनाय तदा गतः ।मोहिनीं जपमानस्तु विद्यां परमसिद्धिदाम् ॥
विचित्रं दनुराजस्य पुरं सर्व्वपुरोत्तमम् ।प्राविशद्वेदं वेदात्मा पठमानो जनार्द्दनः ॥
दानवन्तु पुरं रम्यं जानासि त्वं ग्रहोत्तम ! ।द्वारं गतोऽसुरेन्द्रस्य कुर्य्यां प्राध्ययनं तदा ॥
द्बारपालो वदत्येवं श्रुत्वा वेदध्वनिं शुभम् ।पुराणि रत्नानि शुभं ददामि याचतां वर ! ॥
इष्टं दानं द्बिजश्रेष्ठ ! दुर्लभञ्च महामते ! ।तेनोक्तं दर्शनं द्बाःस्थ दीयतां दनुसत्तमे ॥
तदा स पूर्व्वमादिष्टः प्रेषयामास तं नृपम् ।बलिनं बलसम्पन्नं दानवं सुरमर्द्दनम् ॥
दानोद्यतकरो भद्रं दृष्ट्वा प्रीत्यावभाषत ।किमायातो भवांश्चात्र कार्य्यं विप्र ! तदुद्दिश ॥
मोहिनीं जपमानस्तु वदते द्बिजकेशवः ॥
ब्रह्मोवाच ।अहं संप्रेषयामास विद्धि मां कश्यपात्मजम् ।यज्ञाः सेन्द्रैः समारब्धा ऋषिभिश्चासुरा-धिप ! ॥
तस्य निष्पत्तये नाथ ! आगतोऽहं तवान्ति-कम् ।दानं मे दीयतां राजन् ! सिध्यते येन तन्मखः ॥
बल उवाच ।येन संसिध्यते यज्ञो देवारब्धो द्विजोत्तम ! ।तथा चाहं धनं दारान् शिरमद्य ददामि ते ॥
ब्रह्मोवाच ।येन संसिध्यते यज्ञो देवानामसुराधिप ! ।तद्देयं तच्च आदिष्टं सत्यमत्रावयोरपि ॥
बल उवाच ।याच्यतां येन ते कार्य्यं सत्यं विप्र ! ददामि ते ।संस्मृत्य मोहिनीं विद्यां वदते द्बिजसत्तमः ॥
ब्राह्मण उवाच ।न मे धनैः स्वदारैर्वा न भूम्या गजवाजिभिः ।रत्नैः कार्य्यं महाबाहो ! देवयज्ञोऽसुरा-धिप ! ॥
येन निष्पाद्यते यज्ञः सुखदश्च दिवौकसाम् ।तमहं याचयिष्यामि दीयतां तद्व्रतं तव ॥
एतत् कार्य्यं मम भद्रं ऋषीणाञ्च विशेषतः ।देवार्थं तव कायेन सिध्यते तन्मखोत्तमः ॥
तदा दत्ता तनुस्तेन दानवेन महात्मना ।विष्णुनापि स्वचक्रेण शिरस्यभिहतोऽसुरः ॥
प्राकृतं देहमुत्सृज्य दिव्यकायस्त्वभूत्तदा ।तस्यावयवसंजाता वज्राद्या रत्नजातयः ॥
लोचने सुरतेजांसि पद्मरागाणि चाभवन् ।विशुद्धपात्रदानेन कायो रत्नाकरोऽभत् ॥
”इति देवीपुराणे ४७ अध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
