बर्हकः-र्हिका (barhakaH-rhikA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“बर्ह प्राधान्ये”@} 2 बर्हकः-र्हिका, बर्हकः-र्हिका, बिबर्हिषकः-षिका, बाबर्हकः-र्हिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकगर्हतिवत् 3 ज्ञेयानि।
4 बर्हः, 5 बर्हिणः, 6 बर्हकः इमानि रूपाण्यधिकान्यत्रेति विशेषः।
01 (११००)
02 (१-भ्वादिः-६३८। सक। सेट्। आत्म।)
03 (३८५)
04 [[१। बर्हते = प्राधान्येन सर्वेष्ववयवेषु वर्तते इति बर्हः = मयूरादीनां शिखण्डकः। पचाद्यचि रूपमेवम्।]]
05 [[२। ‘फलबर्हाभ्यामिनच् वक्तव्यः’ (वा। ५-२-१२२) इति मत्वर्थीय इनच्प्रत्ययः। बर्हिणः = मयूरः।]]
06 [[३। आशिषि गम्यमानायाम् ‘आशिषि च’ (३-१-१५०) इति वुन्। बर्हताम् इत्याशिषि गम्यमानायामयं प्रत्ययो भवतीति ज्ञेयम्।]]
1 {@“बर्ह हिंसायाम्”@} 2 बर्हकः-र्हिका, बिबर्हयिषकः-षिका, बर्हयिता-त्री, बिबर्हयिषिता-त्री
इत्यादीनि सर्वाणि रूपाणि चौरादिकगर्जयतिवत् 3 बोध्यानि।
क्विपि 4 बट्-बड्-बर्हौ-बर्हः
5 अनिबर्हणीयम्।
01 (११०१)
02 (१०-चुरादिः-१६६५। सक। सेट्। उभ।)
03 (३७८)
04 [[४। ‘रात् सस्य’ (८-२-२४) इति नियमात् हकारस्य संयोगान्तलोपो न। हकारस्य पदान्तनिमित्तके ढत्वे, चर्त्वविकल्पे च रूपमेवम्।]]
05 [[आ। ‘अम्लेच्छलोकसहिते सदसीह तस्मात् को ब्रूसयिष्यति शिशूननिबर्हणीयम्।।’ धा। का। ३। ३०।]]
1 {@“बर्ह भाषार्थः”@} 2 आस्वदीयः।
‘वृद्धौ भाषार्थविषये बृंहयेद् बर्हयेदिति।।’ 3 इति देवः।
बर्हकः-र्हिका, बिबर्हयिषकः-षिका, बर्हयिता-त्री, बिबर्हयिषिता-त्री
इत्यादीनि सर्वाणि रूपाणि चौरादिकग्रासयतिवत् 4 बोध्यानि।
01 (११०२)
02 (१०-चुरादिः-१७७०। सक। सेट्। उभ।)
03 (श्लो। १९८)
04 (४३९)
1 {@“बृह वृद्धौ”@} 2 ‘… बृंहति बर्हति।
वृद्धौ, भाषार्थविषये बृंहयेद् बर्हयेदिति।।’ 3 इति देवः।
बर्हकः-र्हिका, बर्हकः-र्हिका, बिबर्हिषकः-षिका, बरीबृहकः-हिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकदर्हतिवत् 4 ज्ञेयानि।
5 परिबृढः 6, परिबृहितः, 7 बृहत्।
01 (११२८)
02 (१-भ्वादिः-७३५। अक। सेट्। पर।)
03 (श्लो। १९८)
04 (८६६)
05 [[१। परिपूर्बादस्मान्निष्ठायाम्, इडभावः, तकारस्य ढत्वम्, हकारस्य लोपः इति, ‘प्रभौ परिबृढः’ (७-२-२१) इत्यनेन प्रभावभिधेये निपातितः। अन्यत्र परिबृहितः। अत्र बृंहतेरेव सानुषङ्गस्येदं निपातनमिति वार्तिककारपक्ष इति पदमञ्जर्य- नुसारेण मा। धा। वृत्तावुक्तम्। भाष्ये दर्हतिदृंहति विषय एव प्रकृत्यन्तरसद्भावे प्रमाणं प्रदर्शितमिति बोध्यम्। किञ्च, अत्र सर्वत्र भाष्यकोशेषु ‘प्रभौ परिवृढः’ (७-२-२१) इत्युपादाय परिवृढः इत्येव रूपसम्पादनं कृतमिति ज्ञायते। अतश्च दन्तोष्ठ्यादिः वर्हतिर्लिखिषमाणैव भाष्योपात्तेत्यपि ज्ञायते। अत्र तत्त्वं विद्वांसो विभावयन्तु।]]
06 [[B। ‘तान् दृष्ट्वाऽतिदृढान् धृष्टान् प्राप्तान् परिबृढाज्ञया।’ भ। का। ९। १८।]]
07 [[२। ‘वर्तमाने पृषद्बृहत्--’ (द। उ। ६। ५) इति कतिप्रत्ययः, तस्य शतृवद्भावश्च।]]
1 {@“बृहू उद्यमने”@} 2 क्षीरतरङ्गिणी-धातुकाव्यादिषु दृष्टः पाठ एवम्।
अन्ये सर्वे दन्तोष्ठ्यादि ‘वृहू--’ इत्येव पठन्ति।
तत्र क्षीरस्वामी ‘बृहु--’ इति उदितं पपाठ।
बर्हकः-र्हिका, बर्हकः-र्हिका, बिबर्हिषकः-बिबृक्षकः-क्षिका, बरीबृहकः-हिका
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिकतर्हतिवत् 3 ज्ञेयानि।
णिनिप्रत्यये-- 4 जनजीबबर्ही इति।
01 (११३१)
02 (६-तुदादिः-१३४७। अक। वेट्। पर।)
03 (७७७)
04 [[आ। ‘मुरादिबन्धुः क्षुरघोरचेताः पुरन् खलानां जनजीवबर्ही।’ धा। का। २। ७७।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
