| YouTube Channel

बम्भ्रमकः-बंभ्रमकः-मिका (bambhramakaH-baMbhramakaH-mikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“भ्रमु अनवस्थाने”@} 2 शमादिः।
अनवस्थानम् = देशान्तरगमनम्।
‘चलने भ्रमति भ्रम्येत्, शमादेर्भ्राम्यति भ्रमेत्।।’ 3 इति देवः।
भ्रमकः-मिका, भ्रमकः-मिका, बिभ्रमिषकः-षिका, बम्भ्रमकः-बंभ्रमकः-मिका
इत्यादीनि सर्वाण्यपि रूपाणि दैवादिकक्लाम्यतिवत् 4 ज्ञेयानि।
5 भ्रमी 6, 7 8 भ्रमन्-भ्राम्यन्-न्ती-ती, 9 बभ्रमिवान्-भ्रेमिवान्, इति रूपाण्यस्य भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(११८५)
02
=>
(४-दिवादिः-१२०५। अक। सेट्। पर।)
03
=>
(श्लो। १४७)
04
=>
(२८३)
05
=>
[[८। तच्छीलादिषु, कर्तृषु, ‘शमित्यष्टाभ्यो घिनुण्’ (३-२-१४१) इति घिनुण्प्रत्ययः। “अत्र आत्रेयः--’ ‘अभिधानवशात् अकर्मकादेव अयमिष्यते। तेन, ‘भ्रमिता वनम्’ इत्यत्र ‘तृन्’ (३-२-१३५) इति सूत्रेण तृन्नेव।’ इति। एवञ्च अयं सकर्मको- ऽकर्मकश्चेत्यनेनासूचि।।” इति मा। धा। वृत्तावुक्तमिहानुसन्धेयम्।]]
06
=>
[[आ। ‘भ्रमी कदम्बसंभिन्नः पवनः शमिनामपि।’ भ। का। ७। ५।]]
07
=>
[पृष्ठम्०९८०+ ३२]
08
=>
[[१। ‘वा भ्राशभ्लाशभ्रमु--’ (३-१-७०) इति श्यन्विकल्पः। तेन पक्षे औत्सर्गिकः ‘कर्तरि शप्’ (३-१-६८) इति शप्। श्यन्पक्षे, ‘शमामष्टानां दीर्घः श्यनि’ (७-३-७४) इति दीर्घः। तेन रूपद्वयम्।]]
09
=>
[[२। कर्तरि लिटः क्वसौ, ‘वा जॄभ्रमुत्रसाम्’ (६-४-१२४) इत्येत्वाभ्यासलोपौ विकल्पेन भवतः। पक्षे, द्विर्वचने ‘वस्वेकाजाद्घसाम्’ (७-२-६७) इतीडागमे बभ्रमिवान् इति रूपम्। तेन रूपद्वयं ज्ञेयम्।]]