| YouTube Channel

बन्ध्याकर्कोटकी (bandhyAkarkoTakI)

 
शब्दकल्पद्रुमः
Sanskrit
बन्ध्याकर्कोटकी,
स्त्री,
(बन्ध्यायाः कर्कोटकी ।पुत्त्रदातृतया बन्ध्यायाः उपकारिणी अतो-ऽस्यास्तथात्वम् ।) तिक्तकर्कोटकी बाँझ-खखसा इति बाँझचठेल इति बाँझककरोलइति हिन्दीभाषा तत्पर्य्यायः बन्ध्या २देवी नागारातिः नागहन्त्री मनोज्ञा ६पथ्या दिव्या पुत्त्रदा सकन्दा १०श्रीकन्दा ११ कन्दवल्ली १२ ईश्वरी १३ सुगन्धा१४ सर्पदमनी १५ विषकण्टकिनी १६ परा १७कुमारी १८ भूतहन्त्री १९ अस्या गुणाः ।तिक्तत्वम् कटुत्वम् उष्णत्वम् कफापहत्वम् ।स्थावरादिविषघ्नत्वम् रसायनत्वञ्च इतिराजनिर्घण्टः
तत्पर्य्यायगुणाः ।“बन्ध्याकर्क्कोटकी देवी कन्या योगेश्वरीति ।नागारिर्भक्तदमनी विषकण्टकिनी तथा
बन्ध्याकर्क्कोटकी लघ्वी कफनुद्व्रणशोधिनी ।सर्पदर्पहरी तीक्ष्णा विसर्पविषहारिणी
”इति भावप्रकाशः