| YouTube Channel

बन्ध्या (bandhyA)

 
Apte
English
बन्ध्या [bandhyā], (= वन्ध्या)
A barren woman
हि बन्ध्या विजानाति गुर्वी प्रसववेदनाम् Subhāṣ.
A barren cow.
A kind or perfume (बाल).
Comp.
-तनयः, -पुत्रः, -सुतः, or दुहिता, -सुता
&c.
the son or daughter of a barren woman
i. e. a wild impossibility, anything that does not and cannot exist
एष बन्ध्यासुतो याति खपुष्पकृतशेखरः
see खपुष्प.
Apte Hindi
Hindi
बन्ध्या
स्त्री*
- बन्ध्य + टाप्
बाँझ स्त्री
बन्ध्या
स्त्री*
- बन्ध्य + टाप्
बाँझ गौ
बन्ध्या
स्त्री*
- बन्ध्य + टाप्
एक प्रकार का गन्धद्रव्य
शब्दकल्पद्रुमः
Sanskrit
बन्ध्या,
स्त्री,
(बन्ध + “अघ्न्यादयश्च ।” उणा०४ १११ इति यक् ।) अप्रजस्त्री इति मेदिनी
बाँजा इति भाषा
(यथा, भागवते ।१४ १२ ।“रूपौदार्य्यवयोजन्मविद्यैश्वर्य्यश्रियादिभिः ।संपन्नस्य गुणैः सर्व्वैश्चिन्ता बन्ध्यापतेरभूत्
”बन्ध्या स्त्री अष्टमे वर्षे अधिवेदनीया भवतियथाह मनुः ८१ ।“बन्ध्याष्टमेऽधिवेद्याब्दे दशमे तु मृतप्रजा
”)अपत्यशून्यगौः तत्पर्य्यायः वशा इत्य-मरः ६९
बालाख्यगन्धद्रव्यम् इतिशब्दचन्द्रिका
वृषलीविशेषः यथा, --“बन्ध्या वृषली ज्ञेया वृषली मृतप्रजा ।अपरा वृषली ज्ञेया कुमारी या रजस्वला
”इति प्रायश्चित्तविवेके उशनसो वचनम्
*
योनिरोगविशेषः यथा, --“उदावर्त्ता तथा बन्ध्या विप्लुता परिप्लुता ।वातला योनिजो रोगो वातदोषेण पञ्चधा
”तस्या लक्षणं यथा, --“सा फेनिलमुदावर्त्ता रजःकृच्छ्रेण मुञ्चति ।बन्ध्या निरार्त्तवा ज्ञेया विप्लुता नित्यवेदना
परिप्लुता या भवति ग्राम्यधर्म्मे रुजा भृशम् ।वातला कर्कशास्तब्धा शूलनिस्तोदपीडिता
”तस्याश्चिकित्सा यथा, --“बला सिता सातिबला मधूकंवटस्य शुङ्गं गजकेशरञ्च ।एतन्मधुक्षीरघृतैर्निपीयबन्ध्या सुपुत्त्रं नियतं प्रसूते
अश्वगन्धाकषायेण सिद्धं दुग्धं घृतान्वितम् ।ऋतुस्नाताङ्गना प्रातः पीत्वा गर्भं दधाति हि
पुष्पोद्धृतं लक्ष्मणाया मूलं दुग्धेन कन्यया ।पिष्ट्वा पीत्वा ऋतुस्नाता गर्भं धत्ते संशयः
कुरुण्टमूलं धातक्याः कुसुमानि वटाङ्कुराः ।नीलोत्पलं पयोयुक्तमेवं गर्भप्रदं ध्रुवम्
या बला पिबति पार्श्वपिप्पलंजीरकेण सहितं हिताशना ।श्वेतया विशिखपुङ्खया युतंसा सुतं जनयतीह नान्यथा
”इति भावप्रकाशः
(चिकित्सान्तरमस्या यथा, --“पिप्पल्यः शृङ्गवेरञ्च मरिचं केशरन्तथा ।घृतेन सह पातव्यं बन्ध्यापि लभते सुतम्
”इति वैद्यकचक्रपाणिसंग्रहे योनिव्यापदधिकारे
“बला चातिबला यष्टिशर्करा मधुसंयुता ।बन्ध्यागर्भकरी पीता नात्र कार्य्या विचारणा
”इति भैषज्यधन्वन्तरौ स्त्रीरोगाधिकारे
)