| YouTube Channel

बन्धः (bandhaH)

 
Apte
English
बन्धः [bandhḥ], [बन्ध्-घञ्]
A tie, bond (in general) (आशा- बन्ध
&c.
).
A hair-band, fillet
रतिविगलितबन्धे केशहस्ते सुकेश्याः (सति)
V.*
4.22
Ś.*
1.29.
A chain, fetter.
Fettering, confining, imprisoning, confinement, imprisonment
बन्धं चानिच्छता घोरं त्वयासौ पुरुषर्षभ
Rām.*
5. 21.19
अधार्मिकं त्रिभिर्न्यायैर्निगृह्णीयात् प्रयत्नतः निरोधनेन बन्धेन विविधेन वधेन
Ms.*
8.31.
Catching, capturing, catching hold of
गजबन्ध
R.*
16.2.
(a) Forming, constructing, arranging
सर्गबन्धो महाकाव्यम् S. D.* 6. (b) Building, erecting.
Feeling, conceiving, cherishing
हे राजानस्त्यजत सुकविप्रेमबन्धे विरोधम् Vikr.18.17
R.*
6.81.
Connection, union, intercourse.
Joining or folding together, combining
प्रासादवातायनदृश्यबन्धैः साकेतनार्यो$- ञ्जलिभिः प्रणेमुः
R.*
14.13
अञ्जलिबन्धः
&c.
A bandage, ligature.
Agreement, harmony.
Manifestation, display, exhibition
मनसिजतरुपुष्पं रागबन्धप्रवालम् (यौवनम्)
R.*
18.52.
Bondage, confinement to this world (opp. मुक्ति which is 'complete emancipation from the trammels of the world')
बन्धं मोक्षं या वेत्ति बुद्धिः सा पार्थ सात्त्विकी
Bg.*
18.3
बन्धोन्मुक्त्यै खलु मखमुखान् कुर्वते कर्मपाशान्
Bv.*
4.21
R.*
13.58
18.7.
Result, consequence.
A position, posture in general
आसनबन्धधीरः
R.*
2. 6
पर्यङ्कबन्धस्थिरपूर्वकायम्
Ku.*
3.45, 59.
A particular position in sexual intercourse, or a particular mode of sexual enjoyment (these are said in Ratimañjarī to be 16, but other writers increase the number to 84).
A border, frame-work.
Arrangement of a stanza in a particular shape
e. g. खड्गबन्ध, पद्मबन्ध, मुरजबन्ध (vide K.
P.*
9. ad
loc.
).
A sinew, tendon.
The body.
A deposit, pledge.
An embankment, throwing a bridge across (a river).
A disease in which the eyelids cannot be wholly closed.
Comp.
-करणम् fettering, imprisoning. -कर्तृ
m.
a binder, fetterer. -तन्त्रम् a complete army containing the four necessary elements, i. e. elephants, horses, chariots and footmen. -नृत्यम् a kind of dance-पारुष्यम् forced or unnatural construction of words.-मुद्रा impression or mark of fetters. -स्तम्भः a post to which an animal (e. g. an elephat) is tied.
Hindi
Hindi
बांड (पु)
Apte Hindi
Hindi
बन्धः
पुं*
- बन्ध् + घञ्
"ग्रंथि, बन्धन"
बन्धः
पुं*
- बन्ध् + घञ्
"बालों को बांधने की पट्टी, फीता"
बन्धः
पुं*
- बन्ध् + घञ्
"शृंखला, बेड़ी"
बन्धः
पुं*
- बन्ध् + घञ्
"बेड़ी डालना, कारागार में डालना, जेल में बन्द करना"
बन्धः
पुं*
- बन्ध् + घञ्
"दबोचना, पकड़ना, पकड़ लेना"
बन्धः
पुं*
- बन्ध् + घञ्
"निर्माण करना, संरचना, व्यवस्थापन"
बन्धः
पुं*
- बन्ध् + घञ्
"भावना, धारणा, विचारना"
बन्धः
पुं*
- बन्ध् + घञ्
"संयोग, मिलन, अन्तः सम्पर्क"
बन्धः
पुं*
- बन्ध् + घञ्
"जोड़ना, मिलाना, मिश्रण करना"
बन्धः
पुं*
- बन्ध् + घञ्
"पट्टी, तनी"
बन्धः
पुं*
- बन्ध् + घञ्
"सहमति, सांमनस्य"
बन्धः
पुं*
- बन्ध् + घञ्
"प्रकटीकरण, प्रदर्शन, निरूपण"
बन्धः
पुं*
- बन्ध् + घञ्
"बंधन, भवबंधन"
बन्धः
पुं*
- बन्ध् + घञ्
"फल, परिणाम"
बन्धः
पुं*
- बन्ध् + घञ्
"स्थिति, अंग विन्यास"
बन्धः
पुं*
- बन्ध् + घञ्
मैथुन करते समय विशेष आसन
बन्धः
पुं*
- बन्ध् + घञ्
"गोट, किनारी, रूपरेखा, ढांचा"
बन्धः
पुं*
- बन्ध् + घञ्
किसी श्लोक का कोई विशिष्ट रूप
बन्धः
पुं*
- बन्ध् + घञ्
"स्नायु, कण्डरा"
बन्धः
पुं*
- बन्ध् + घञ्
शरीर
बन्धः
पुं*
- बन्ध् + घञ्
"अमानत, धरोहर"
बन्धः
पुं*
- बन्ध्+घञ्
बन्धन
बन्धः
पुं*
- बन्ध्+घञ्
"केशबन्ध, चोटिला"
बन्धः
पुं*
- बन्ध्+घञ्
"शृंखला, बेड़ी"
Wordnet
Sanskrit
Synonyms:
आसेधः, बन्धः, बन्धनम्
noun
कस्यापि मनुष्यस्य रक्षणार्थं गोपनार्थं वा कृता व्यवस्था।
"अस्य भागस्य दुर्वृत्तस्य आसेधः कृतः।"
Synonyms:
संधिः, ग्रन्थिः, बन्धः, बन्धनम्
noun
द्वयोः अङ्गयोः द्वयोरधिकानाम् अङ्गानां खण्डानां वस्तूनां वा संसर्गस्य स्थानम्।
"वस्त्रस्य संन्धिः विदृतः।"
Synonyms:
बन्धः
noun
वस्त्रस्य सा रज्जुः या शरीरे सम्यक्तया वस्त्रधारणार्थे उपयुक्ता अस्ति।
"माता बालकस्य वस्त्रस्य बन्धं बध्नाति।"
Synonyms:
बन्धः, निबन्धः
noun
बन्धनस्य क्रिया भावो वा।
"चोरः बन्धात् निष्कासनार्थे भूरि परिश्रमं कृतवान्।"
Synonyms:
निग्रहणम्, उपग्रहणम्, बन्दिग्रहः, बन्धः
noun
बलात् ग्रहणस्य क्रिया।
"अद्य नेतॄणां निग्रहणस्य वार्ताः श्रूयन्ते।"
Synonyms:
परासेधः, बन्धः, आसेधः, प्रग्रहणम्, बन्धनम्
noun
अपराधिनां शत्रूणां वा अवष्टम्भनस्य क्रिया।
"आरक्षिभिः अपराधिनां परासेधः प्रारब्धः।"
Synonyms:
ग्रन्थिः, ग्रन्थिका, बन्धः, गण्डः
noun
परिवीतानां परस्परेषु अतिश्लिष्टानां वा रज्ज्वादीनां बन्धनम्।
"वस्त्रस्य ग्रन्थिः अतीव दृढः।"
Tamil
Tamil
ப3ந்த4: : கட்டு, முடிச்சு, கை விலங்கு, ரிப்பன், கயிறு, பிடித்தல், கட்டுதல், சிறையிடுதல், சிந்தித்தல், சேர்க்கை, விளைவு, கலவை, நிலை.
शब्दकल्पद्रुमः
Sanskrit
बन्धः,
पुं,
(बन्ध + हलश्चेति घञ् ।) आधिः ।बन्धनम् इति मेदिनी धे,
शरीरम् ।इति हेमचन्द्रः
(कर्म्मजनितादृष्टवशात् देहाद्देहान्तरोत्पत्तेः शरीरस्य तथात्वम् ।) गृहादिवेष्टनम् इति शब्दरत्नावली
तद्विवरणं यथा“रूपाष्टकैर्विनिहतो भवनस्य बन्धःकर्त्तुः स्वमृक्षमिह युग्मशरैकनिघ्नम् ।एकीकृतं रसनिशाकरयुग्मभुक्त-शेषं ततो भवति पिण्डपदं गृहस्य
गृहभूमिसमाहृतपिण्डपदंवसुलोचनरन्ध्रगजैर्गुणितम् ।रविभूधरत्रिंशद्योगहृत-मायव्ययस्थितिऋक्षपदम्
”रूपाष्टकैरेकाशीत्या विनिहतः पूरितो भव-नस्य बन्धः दीर्घप्रस्तारमिलितहस्ताः स्वमृक्षंतत्संख्यानं युग्मशरैकनिघ्नं द्बिपञ्चाशदुत्तर-शतपूरितम् एकीकृतं पूर्व्वाङ्केन मिलितं रस-निशाकरयुग्मभुक्तशेषं षोडशाधिकद्विशतहृता-षशिष्टं तत्संख्यानं पिण्डपदसंज्ञं गृहस्य भवतितद्गृहभूमिसमाहृतपिण्डपदं वसुलोचनरन्ध्र-गजैः अष्टद्विनवाष्टभिर्यथाक्रमं गुणितं पूरितंयथाक्रमं रविभूधरत्रिंशद्योगहृतं द्वादशसप्त-त्रिंशत्सप्तविंशतिभिर्हृतं गृहस्य यथाक्रममाय-व्ययस्थितिऋक्षपदं भवतीत्यर्थः ।“रुद्रहस्तमिते बन्धे भरण्या योगतो यथा ।आयादयो भवन्त्यत्र वसुषट्तिथियुङ्मिताः
अत्र नक्षत्रं दीयते पश्चात्तदेवायाति ।प्रत्यक्दक्षिणयोर्भं द्रविणाद्यं विदिक्षु दहनादि ।पूर्व्वोत्तरयोर्गृहयोरश्विन्यादिभानि स्युः ।यत्र तु शेषो नास्ति तत्र हारकाङ्कः शेषः
शेषाङ्केन फले बोध्ये शेषाभावे तु हारकात् ।अङ्कादेव फलं बोध्यमिति तन्त्रविदाम्मतम्
इत्युक्तत्वात्
व्ययाधिकं कर्त्तव्यं गृहमायाधिकं शुभम्
”इति ज्योतिस्तत्त्वम्
*
षोडशप्रकारा रतिबन्धा यथा, रतिमञ्जर्य्याम् ।४० -- ४१ ।“पद्मासनो नागपदो लतावेष्टोऽर्द्धसम्पुटः ।कुलिशं सुन्दरश्चैव तथा केशर एव
हिल्लोलो नरसिंहोऽपि विपरीतस्तथापरः ।क्षुब्धो वै धेनुकश्चैव समुत्कण्ठस्ततः परः ।सिंहासनो रतिनागो विद्याधरस्तु षोडश
”(एतेषां लक्षणानि तत्रैव ४२-५७ उक्तानि ।यथा, --“हस्ताभ्याञ्च समालिङ्ग्य नारीं पद्मासनोपरि ।रमेद्गाढं समाकृष्य बन्धोऽयं पद्मसंज्ञकः
पादौ स्कन्धयुगे हस्तौ क्षिपेल्लिङ्गं भगे लघु ।प्ररमेत् कामुको नारीं बन्धो नागपदो मतः
बाहुभ्यां पादयुग्माभ्यां वेष्टयित्वा रमेत् स्त्रियम् ।लघु लिङ्गं ताडयेद् योनौ लतावेष्टोऽयमुच्यते
स्त्रीपादावन्तरीक्षे तु किञ्चिद्भूमौ जानुनि ।स्तनयोर्मर्द्दनं पीडा बन्धोऽयं मर्द्दसंपुटः
स्त्रीपादद्बयमास्फाल्य हठाल्लिङ्गस्य ताडनम् ।योनिमापीडयेत् कामी बन्धः कुलिशसंज्ञकः
नारीपादद्वयं कामी धारयेदूर्द्ध्वदेशतः ।कुचौ धृत्वा पीबेद्बक्त्रं बन्धोऽयं रतिसुन्दरः
स्त्रियो जङ्घे समापीड्य दोर्भ्यां गात्रस्य मर्द्दनम् ।पुनः प्रपीडयेद् योनिं बन्धः केशरसंज्ञकः
हृदि कृत्वा स्त्रियः पादौ कराभ्यां धारयेत् करौ ।यथेष्टं ताडयेत् योनिं बन्धो हिल्लोलसंज्ञकः
पादौ संपीड्य योनौ हठाल्लिङ्गप्रवेशनम् ।हस्तयोर्वेष्टनं गाढं बन्धो नृसिंहसंज्ञकः
पादमेकमुरौ कृत्वा द्बितीयं कटिसंस्थितम् ।नारीञ्च सुरमेत् कामी विपरीतस्तु बन्धकः
पार्श्वोपरि पदौ कृत्वा योनौ लिङ्गेन ताडयेत् ।बाहुभ्यां ताडयेद्गाढं क्षुब्धको बन्ध एव सः
सुप्तां स्त्रियं समालिङ्ग्य स्वयं सुप्तो रमेत् पुनः ।यल्लिङ्गं चालयेत् योनौ बन्धोऽयं धेनुकः स्मृतः
नारीपादौ हस्तेन धारयेत् गलके पुनः ।स्तनार्पितकरो कामी बन्धश्चोत्कण्ठसंज्ञकः
स्वयं जङ्घाद्वयं बाहौ कृत्वा योषित्पदद्बयम्
स्तनौ धृत्वा रमेत् कामी बन्धः सिंहासनो मतः
पीडयेदुरुयुग्मेन कामुकः कामिनीं यदि ।रतिर्नागः समाख्यातः कामिनीनां मनोहरः
नार्य्याश्चोरुयुगं धृत्वा कराभ्यां ताडयेत् पुनः ।रमयेन्निर्भरं कामी बन्धो विद्याधरो मतः
”इति
)संज्ञाप्रभेदेन अन्योऽपि बन्धोऽस्ति यथा, --“कामप्रदी विपरीतो नागरो रतिपाशकः ।केयूरः प्रियतोषश्च ततः समपदस्तथा
ततश्चैकपदो ज्ञेयः सम्पुटश्चोर्द्ध्वसम्पुटः ।ततः स्तनभवश्चैव ततो नु रतिसुन्दरः
ऊरुपीडस्मरचक्रौ ततश्चोरुक्रमः स्मृतः ।वेष्टको हंसकीलस्तु ततो लीलासनस्तथा
अष्टादशक्रमाद्बन्धाः स्त्रीणां बहुसुखप्रदाः ।पुंसां सुखकराश्चैव कथितास्तु क्रमात्ततः
”इति स्मरदीपिका
*
अनभिसन्धितकर्म्मकर्त्तुर्बन्धाभावो यथा, --“पञ्चर्णदानैरशुभं नुद्यतेऽनभिसन्धितैः ।फलैस्तथोपभोगैश्च पूर्व्वकर्म्मशुभाशुभैः
एवं बन्धो भवति कुर्व्वतः कारणं विना ।न बन्धाय तत् कर्म्म भवत्यनभिसन्धितम्
”इति मार्कण्डेयपुराणम्
(हठयोगप्रदीपोक्ता योगसाधकबन्धा यथा, तत्रैव ५५ -- ५७ ।अथोड्डीयानबन्धः ।“बद्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः ।तस्मादुड्डीयनाख्योऽपं योगिभिः समुदाहृतः
उड्डीनं कुरुते यस्मादविश्रान्तं महाखगः ।उड्डीयानं तदेव स्यात् तत्र बन्धोऽभिधीयते
उदरे पश्चिमं तानं नाभेरूर्द्ध्वञ्च कारयेत् ।उड्डीयानो ह्यसौ बन्धो मृत्युमातङ्गकेशरी
”अथ मूलबन्धः तल्लक्षणादिकमुक्तं तत्रैव३ ६१ -- ६२ ।“पार्ष्णिभागेन सम्पीड्य योनिमाकुञ्चयेद्गुदम् ।अपानमूर्द्ध्वमाकृष्य मूलबन्धोऽभिधीयते
अधोगतिमपानं वा ऊर्द्ध्वगं कुरुते बलात् ।आकुञ्चनेन तं प्राहुर्मूलबन्धं हि योगिनः
”अथ जालन्धरबन्धः अस्य लक्षणादिकमुक्तंतत्रैव ७० -- ७१ ।“कण्ठमाकुञ्च्य हृदये स्थापयेच्चियुकं दृढम् ।बन्धो जालन्धराख्योऽयं जरामृत्युविनाशकः
बध्नाति हि शिराजालमधोगामि नभोजलम् ।ततो जालन्धरो बन्धः कण्ठदुःखौघनाशनः
”)
कृदन्तरूपमाला
Sanskrit
1 {@“बन्ध बन्धने”@} 2 ‘बध्नाति बन्धने बन्धेर्बाधयेदिति संयमे।’ 3 इति देवः।
बन्धकः-न्धिका, बन्धकः-न्धिका, 4 बिभन्त्सकः-त्सिका, 5 बाबधकः-धिका
6 बन्द्धा-बन्द्ध्री, बन्धयिता-त्री, बिभन्त्सिता-त्री, बाबधिता-त्री
7 8 बध्नन्-ती, 9 बन्धयन्-न्ती, बिभन्त्सन्-न्ती
-- 10 भन्त्स्यन्-न्ती-ती, बन्धयिषयन्-न्ती-ती, बिभन्त्सिष्यन्-न्ती-ती
-- -- बन्धयमानः, बन्धयिष्यमाणः, -- बाबध्यमानः, बाबधिष्यमाणः
11 भत्-भध्-बधौ-बधः
-- -- -- बद्धः-बद्धम्-बद्धवान्, 12 चक्रबद्धः-दृषद्बद्धः, बन्धितः, बिभन्त्सितः, बाबधितः-तवान्
बन्धः, 13 सुतानुबन्धः, 14 बन्धः, बिभन्त्सुः, बाबन्धः
बन्द्धव्यम्, बन्धयितव्यम्, बिभन्त्सितव्यम्, बाबधितव्यम्
बन्धनीयम्, बन्धनीयम्, बिभन्त्सनीयम्, बाबधनीयम्, बन्ध्यम्, बन्ध्यम्, बिभन्त्स्यम्, बाबध्यम्
ईषद्बन्धः-दुर्बन्धः-सुबन्धः
-- -- बध्यमानः, बन्ध्यमानः, बिभन्त्स्यमानः, बाबध्यमानः
बन्धः, 15 पर्यङ्कबन्धः, चक्रबन्धः, दृषद्बन्धः, 16 अनूबन्धः, बन्धः, बिभन्त्सः, बाबधः
बन्द्धुम्, बन्धयितुम्, बिभन्त्सितुम्, बाबधितुम्
17 18 बन्धा, बद्धिः, बन्धना, बिभन्त्सा, बाबधा
बन्धनम्, बन्धनम्, बिभन्त्सनम्, बाबधनम्
बद्ध्वा, बन्धयित्वा, बिभन्त्सित्वा, बाबधित्वा
अनुबध्य, प्रबन्ध्य, प्रबिभन्त्स्य, प्रबाबध्य
19 चक्रबन्धं बद्धः, 20 अट्टालिकाबन्धं बद्धः
बन्धम् २, बद्ध्वा २, बन्धम् २, बन्धयित्वा २, बिभन्त्सम् २, बिभन्त्सित्वा २, बाबधम्
बाबधित्वा
21 उप्रत्यये रूपमेवम्।]] बन्धुः, 22 किरच्प्रत्यये, प्रत्ययस्य कित्त्वेनोपधानकारलोपे रूपमेवम्।
बद्धमस्य श्रवणेन्द्रियमिति बधिरः = श्रोत्रेन्द्रियहीनः।]] बधिरः, 23 ब्रध्नः-बुध्नः, 24 बन्धुरः, 25 बन्धूकः।
प्रासङ्गिक्यः
01
=>
(१०९८)
02
=>
(९-क्र्यादिः-१५०८। अक। अनि। पर।)
03
=>
(श्लो। १२०)
04
=>
[[१। सन्नन्ताण्ण्वुलि, भष्भावचर्त्वादिकेषु रूपमेवम्। सर्वत्र सन्नन्तेषु एवमेव प्रक्रियेति ज्ञेयम्।]]
05
=>
[[२। यङन्ते सर्वत्र यङ्निमित्तके नकारलोपे, अभ्यासदीर्घे रूपनिष्पत्तिरिति ज्ञेयम्।]]
06
=>
[[३। तृचि, ‘झषस्तधोः--’ (८-२-४०) इति धत्वम्। ‘झलां जश् झशि’ (८-४-५३) इति धातुधकारस्य दकारः। तस्य, ‘झरो झरि--’ (८-४-६५) इति पाक्षिको लोपः। एवं तव्यदादिष्वपि प्रक्रिया ज्ञेया।]]
07
=>
[पृष्ठम्०९१८+ २७]
08
=>
[[१। शतरि, क्र्यादित्वात् श्नाप्रत्यये, ‘अनिदिताम्--’ (६-४-२४) इति धातुनकारलोपे, ‘श्नाऽभ्यस्तयोः--’ (६-४-११२) इत्याकारलोपे रूपमेवम्।]]
09
=>
[[२। चित्तवत्कर्तृकत्वविवक्षायाम् ण्यन्तेऽत्र परस्मैपदमेव। अचित्तवत्कर्तृकत्वविवक्षायां तु आत्मनेपदमपि भवतीति ज्ञेयम्।]]
10
=>
[[३। स्यप्रत्ययेऽपि भष्भावचर्त्वादिकं यथायथमूह्यम्।]]
11
=>
[[४। क्विपि, उपधानकारलोपे, भष्भावचर्त्वविकल्पयो रूपम्।]]
12
=>
[[५। क्तप्रत्ययान्तात्, ‘सप्तमी--’ (२-३-३६) इति योगविभागात् समासः।]]
13
=>
[[६। सुतमनुबध्नातीति सुतानुबन्धः। ‘कर्मण्यण्’ (३-२-१) इत्यण्।]]
14
=>
[[आ। ‘ज्ञाताशयस्तस्य ततो व्यतानीत् कर्मठः कर्म सुतानुबन्धम्।।’ भ। का। १। ११। (अत्र कर्मण्यणि सुतानुबन्धम् इति नपुंसकलिङ्गश्रवणासम्भवात् व्याख्यातृभिः सुतानुबन्धि इति पाठमाश्रित्य, तस्य सुतमनुबन्धुं शीलमस्येति व्युत्पत्त्या ताच्छील्येऽर्थे णिनिप्रत्ययान्तत्वमिति समर्थितम्। तदेव साध्विति प्रतिभाति।]]
15
=>
[[७। पर्यङ्के बन्धः पर्यङ्कबन्धः। ‘सिद्धशुष्कपक्वबन्धैश्च’ (२-१-४१) इति सप्तमीतत्पुरुषः। ‘तत्पुरुषे कृति--’ (६-३-१४) इति प्राप्तस्यालुकः ‘नेन्सिद्धबद्ध्नातिषु च’ (६-३-१९) इति निषेधः।]]
16
=>
[[८। अनु बध्यते इत्यनूबन्धः = प्रत्ययगतः कित्त्वङित्त्वादिर्विशेषः। ‘उपसर्गस्य घञ्यमनुष्ये बहुलम्’ (६-३-१२२) इति दीर्घः।]]
17
=>
[पृष्ठम्०९१९+ २७]
18
=>
[[१। धातोः संयोगान्तत्वेन गुरुत्वात्, ‘गुरोश्च हलः’ (३-३-१०३) इत्यकारप्रत्यये रूप- मेवम्। क्तिनि विवक्षिते तु कित्त्वेनोपधानकारलोपे बद्धिः इत्यपि साधुरिति ज्ञेयम्।]]
19
=>
[[२। ‘अधिकरणे बन्धः’ (३-४-४१) इति णमुल्। चक्रे बद्ध इत्यर्थः। कषादित्वात् यथाविध्यनुप्रयोगः।]]
20
=>
[[३। ‘संज्ञायाम्’ (३-४-४२) इति णमुल्। अट्टालिकाबन्ध इति बन्धविशेषस्य संज्ञा। एवं क्रौञ्चबन्धं बद्धः, पद्मबन्धं बद्धः, शरबन्धं बद्धः, इत्यादिषु सर्वत्र णमुलुपपत्तिर्ज्ञेया। अत्र सर्बत्र बन्धः इत्यनेन व्यूहविशेषस्य, काव्यगतस्य बन्ध- विशेषस्य तन्त्रेण ग्रहणमिति ज्ञेयम्।]]
21
=>
[[४। औणादिके [द। उ। १। ९५]
22
=>
[[५। औणादिके [द। उ। ८। २६]
23
=>
[[६। ‘बन्धेर्ब्रधिबुधि च’ (द। उ। ५-३८) इति नक्प्रत्यये ब्रधि-बुधि-इत्यादेशयोश्च रूपे सिद्ध्यतः। कित्त्वादुपधानकारलोपः। ब्रध्नः = सूर्यः। बुध्नः = सङ्कल्पो मनः, देवो वा।]]
24
=>
[[७। बाहुलकादौणादिके उरच्प्रत्यये रूपम्। ‘बन्धूर बन्धुरौ स्यातां नम्रसुन्दरयोस्त्रिषु।’ इति रन्तिदेववचनाद् दीर्घमध्यमोऽप्यस्तीति विज्ञायते।]]
25
=>
[[८। औणादिके (द। उ। ३-४६) ऊकप्रत्यये रूपम्। बन्धूकम् = पुष्पविशेषः।]]