| YouTube Channel

बधिरः (badhiraH)

 
Wordnet
Sanskrit
Synonyms:
बधिरः, बधिरा, एडः, एडा, एडोकः, एडोका, कण्वः, कण्वा, कल्लः, कल्ला
noun
यः कर्णहीनः अस्ति।
"एषा बधिराणां पाठशाला वर्तते।"
शब्दकल्पद्रुमः
Sanskrit
बधिरः, त्रि, (बध्नाति कर्णमिति बन्ध + “इषिमदि-मुदीति ।” उणा० ५२ इति किरच् ।)श्रवणेन्द्रियरहितः श्रुतिशक्तिहीनः कालाइति भाषा तत्पर्य्यायः एडः इत्य-मरः ४८
कल्लः श्रवणापटुः ।इति शब्दरत्नावली
उच्चैःश्रवाः इतिसंक्षिप्तसारोणादिवृत्तिः
(यथा, मनुः ११ ५२ ।“एवं कर्म्मविशेषेण जायन्ते सद्बिगर्हिताः ।जडमूकान्धबधिराविकृताकृतयस्तथा
”बाधिर्य्यनिदानं यथा, --“यदा शब्दवहं वायुः श्रोत आवृत्य तिष्ठति ।शुद्धः श्लेष्मान्वितो वापि बाधिर्य्यं तेन जायते
”इति माधवकरः
असाध्यबाधिर्य्यमाह ।“बाधिर्य्यं बालवृद्धोत्थं चिरोत्थञ्च विवर्ज्जयेत् ।”इति भावप्रकाशः
*
अस्यौषधम् ।“कर्णशूले कर्णनादे बाधिर्य्ये क्षेड एव ।चतुर्ष्वपि रोगेषु सामात्यं भेषजं स्मृतम्
शृङ्गवेरञ्च मधु सैन्धवं तैलमेव ।कटूष्णं कर्णयोर्धार्य्यमेतत् स्याद्बेदनापहम्
कर्णशूले कर्णनादे बाधिर्य्ये क्षेड एव ।पूरणं कटुतैलेन हितं वातघ्नमौषधम्
शिखरिक्षारजवारितत्कृतकल्केन साधितंतैलम् ।अपहरति कर्णनादं वाधिर्य्यञ्चापि पूरणतः
शिखरी अपामार्गः
गवां मूत्रेण विल्वानि पिष्ट्वा तैलं विपाचयेत् ।सजलञ्च सदुग्धञ्च तद्बाधिर्य्यहरं परम्
क्षीरमत्राजं ग्राह्यम् बिल्वतैलम्
इतिभावप्रकाशः
यथा ।“शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् ।शुष्कं चतुर्गुणं दद्यात्तैलमेतैर्व्विपाचयेत्
बाधिर्य्यं कर्णशूलञ्च पूयस्रावश्च कर्णयोः ।क्रिमयश्च विनश्यन्ति तैलस्यास्य प्रपूरणात्
५इति गारुडे १९७ अध्यायः