बध (badha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams 1872
Englishधातुपाठः (Krishnacharya)
Sanskrit बध्
बध
बन्धने
भ्वादिः
सकर्मकः
सेट्
आत्मनेपदी
बीभत्सते
बध्
बध
संयमने
चुरादिः
सकर्मकः
सेट्
उभयपदी
बाधयति-ते
बन्ध्
बध
संयमने
चुरादिः
सकर्मकः
सेट्
उभयपदी
बन्धयति-ते
छान्दसः
धातुप्रदीपः
Sanskritबधँ बध बन्धने
- बीभत्सते । बीभत्सं विकृतम् । पूर्ववद्वाग्रहणाद् बधको बध इति च भवति ।। 981 ।।
बधँ बध संयमने
- बाधयति अबीबधत् 14
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritबध हन--घञ् । बधादेशः । हनने प्राणवियोगसाधनेव्यापारे अमरः । बधपदार्थविशेषं बधिभेदश्च प्रा० वि०उक्तो यथा“अथ बधो निरूप्यते । ननु कोऽयं बधः किं बधित्वं कतिविधं च तत्, ? उच्यतेप्राणवियोगफलकव्यापारो बधः तन्नि-ष्पादकत्वञ्च साक्षात्परम्परोदासीनं स्मृतिकारपरिगणितंबधित्वम् अतो नेषुकारादिष्वतिव्याप्तिः तच्च पञ्चविधंस्मृतिस्वरसात् कर्त्ता प्रयोजकोऽनुमन्ता अनुग्राहकोनिमिती चेति यथाह आपस्तम्बः “प्रयोजयिता अनुमन्ताकर्त्ता चेति सर्वे स्वर्गनरकफलभोक्तारो यो भूय आरभते तस्मिन् फले विशेषः” । अनुग्राहकमाह याज्ञ-वल्क्यः “चरेद्व्रतमहत्वापि थातार्थञ्चेत् समागतः” ।तथा मनुः “बहूनामेककार्थ्याणां सर्वेषां शस्त्रधारिणाम् ।यद्येको घातकस्तर सर्वे ते घातकाः स्मृताः” । भविष्ये“यद्येकं बहवी विप्रा घ्नन्ति विप्रमनागसम् । तदैषांनिष्कृतिं बच्मि शृणुष्वेकमना गुहु! । तेषां यस्य प्रहा-रेण स विप्रो निधनं गतः । सरस्वतीं प्रतिस्रोतः सञ्च-रेत् पापशुद्धये” । स च द्विविधः । एको बध्यप्रति-रोघकः अन्यः स्वल्पप्रहर्त्ता । निमित्तिनमाह विष्णुः“अन्यायेन गृहीतस्वो न्यायमर्थयते तु यः । यमुद्दिश्यत्यजेत् प्रार्णास्तमाहुर्ब्रह्मथातकम्” । अत्र नरान्तर-व्यापाराव्यवधानेन बधनिष्पादकः कर्त्ता, यः कर्त्तारंकारयति स प्रयोजकः सोऽपि द्विविधः । एकः स्वतो-ऽप्रवृत्तमेव पदातिं वेतनादिना बधार्थं प्रवर्त्तयति अपरःस्वतः प्रवृत्तमेव मन्त्रोपायोपदेशादिना प्रोत्साहमति ।अनुमतिदाता अनुमन्ता । अनुमतिश्च द्विविधा । एकायद्विरोधाद्धननं न सम्भवति तस्य विरोधिनो मया नि-रोधः कर्त्तव्य इति प्रयुक्तिः । अपरा एनं हन्मीति वचनेशक्तस्याप्रतिषेध एव” । हिंसायाः पापाद्यनिष्टजनक-त्वेऽपि बैवहिसाया इष्टफदृजनकत्वात् नानिष्टजन-कता “यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयम्भुवा ।अतस्त्वां घातयिष्यामि तस्पाद्यज्ञे बधोऽबधः” ति० त० ।उक्तेः मनुनापि “या वेदविहिता सा नियतास्मिंश्चराचरे ।अहिंसामेव तां बिद्यात् वेदात् धर्मो हि निर्बवौ” उक्तेश्च ।अबधः अहिंसा च तज्जन्यपापाजनकत्वेन तद्विरो-धीत्यर्थः । वहूतां रक्षणार्थमेकस्य वधेऽपि पुण्यजनकत्व-मुक्तम् “एकस्य यत्र निधने प्रवृत्ते इष्टकारिणः । बहूनांभवति क्षेमं तस्य पुण्यप्रदो बधः । रुक्मस्तेयी सुरापश्चब्रह्महा गुरुतल्पगः । आत्मानं घातयेद्यस्तु तस्य पुण्य-प्रदो बधः” कालिका० २० अ० । ब्रह्महन्तृबधेऽपि न राज्ञोदोषः प्रा० वि० स्थितः “तथा नाततायिबधे दोषो हन्तुर्र्मवतिकश्चन” स्मृतेः आततायिबधेऽपि नानिष्टफलमिति यथायथंबोध्यम् ।
क्षीरतरङ्गिणी
Sanskritबधँ बध बन्धने
- मान्बध (316) इति जुगुप्सायां सन् बीभत्सते अन्यत्र- बाधते बधकः चुरादौ बध संयमने (1024) बाधयति 944
बधँ बध संयमने
- बाधयति, अबीबधत् भ्वादौ बाधृ रोटने (16)-बाधते, अबबाधत् बन्ध इति चान्द्राः-बन्धयति, बन्धति क्र्य्यादौ (940) बध्नाति 14
धातुवृत्तिः
Sanskritबधँ बन्ध[बध?] (अर्थः) बन्धने
गुप गोपनकुत्सनयोरिति मैत्रेयः एते च गुपादयः "गुप्तिज्किद्भयः सन्'' "मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य'' इति नित्यसन्नन्ताः तथा च भाष्यं, नैतेभ्यः प्राक् सन् आत्मनेपदं नापि परस्मैपदं पश्याम इति तथा च "पूर्ववत्सनः'' इत्यत्र वार्त्तिकं पूर्वस्यात्मनेपददर्शंनात् सनन्तादात्मनेपदमिति चेत् गुपादिष्वप्रसिद्धिरिति अयं च सन् गुपेर्निन्दायां, तिजेःक्षमायां, मानेर्जिज्ञासायां, बन्धेर्वैरूप्य, इति वृत्तावुक्तत्वात् अत्रापठितेष्वर्थेषु न च सन् अस्ति, न चैषां केवलानां पठितेष्वर्थेषु प्रयोगः पूर्वोक्तभाष्यवार्तिकविरोधात् किं च भाष्ये ऽनुबन्धकरणसामर्थ्यात् "अवयवे ऽकृतं लिङ्गं समुदायस्य विशेषकं भवति'इति सन्नन्तादात्मनेपदसमर्थनं च विरुध्येत, तथा निन्दादेरन्यत्र केवलानां गुपादीनां प्रयोगे तत्रैवानुबन्धासञ्जनस्यात्मनेपदार्थत्वेन चरितार्थत्वात् कथं सामर्थ्यं कथं वानुबन्धत्वम्, एवं च गोपते, तेजते, इति स्वाम्युक्तःकेवलात् तिङः प्रयोगः प्रत्युक्तः अत्र नन्दिमैत्रेयौ नह्येतेभ्य इत्यादिना भाष्येण तिङामभावः प्रतीयतइति निन्दादेरन्यत्र कृतमुदाजह्रतुः हरदत्तस्त्वेतन्नानुमन्यते, यदाह "पूर्ववत्सनः'' इत्यत्र कथं तर्हि जुगुप्सादेः समुदायस्यानुदात्तेत्त्वमत्तआह अवयवइति अवयवे ह्यचरितार्थं लिङ्गं सामर्थ्यादवयविनो विशेषकं भवति येद्येवं गोपयति तेजयतीत्यादावपि प्रसङ्गः अथ यं समुदायं योऽवयवो न व्यभिवरति तत्र कृतं लिङ्गं तस्य विशेषकं भवति णिजन्तं च व्यभिचरति विनापि तेन जुगुप्सत इति गुपेः प्रयोगादित्युच्येत, सन्नन्तादपि न स्यात्, विनापि तेन गोपयतीति गुपेः प्रयोगात्, वक्तव्योऽत्र विशेषः अयमुच्यते गुप गोपन इत्यस्य सन्विधै ग्रहणन्तस्माच्च नित्यः सन्नेव भवति नापरः प्रत्ययः गोपयतीत्यादिकस्तु प्रयोगो गुप रक्षणे इत्यस्य, स चन्या एव अवश्यं चैतदेवं विज्ञेयम् अन्य एव सन्प्रकृतिस्तस्माच्च सनेव भवतीति अन्यथा निन्दाया अन्यत्र यथा णिज्भवति तथा लडादिरपि स्यात् एवं तिजिप्रभृतयोऽपि क्षमाद्यर्थे यत्र सन्निष्यते तत्रानुदात्तेतो नित्यसन्नन्ताश्च, क्षमादिभ्योऽन्यत्र यत्र णिजिष्यते तत्राननुबन्धका एव चुरादौ पठितव्या इति तत्रैवं मते अवयवे ऽकृतं लिङ्गमिति भाष्योपपत्तिः यदि हि कृतः स्युस्तर्हि अनुदात्तत्त्वं युजर्थं स्याद् इति अनुदात्तत्त्वस्य कथमचारितार्थ्यम् अथोदाहरणानि ( जुगुप्सते जुगुप्साञ्चक्रे जुगुप्सिता जुगुप्सिष्यते जुगुप्सताम् अजुगुप्सत जुगुप्सेत जुगुप्सिषीष्ट अजुगुप्सिष्ट ) अत्रास्य सनो धातुसंशब्दनेनाविधानादनार्धधातुकत्वान्नेड्गुणौ एवं तितिक्षत इत्यादि मीमांसतइत्यादौ-''मान्बध''इत्युपधादीर्घः अयं चाभ्यासविकारेष्वपवादानोत्सर्गान्विधीन् बाधन्तइति अभ्यासस्य हलादिशेषह्रस्वादिषु कृतेष्वेव एवं बीभत्सतइत्यादावपि अत्र "एकाचो बशः'' इति बकारस्य भकारः धकारस्य "खरि च'' इति चर्त्वं तकारः गोपायतीति रक्षणे, गुपादयश्चत्वार एतेऽनुदात्तेतः 954
बधँ बध (अर्थः) संयमने
( बाधयति ) बन्धेति चान्द्रः बध्नातीति बन्ध बन्धन इति क्रैयादिकस्य बीभत्सते इति भौवादिकस्य नित्यसन्नन्तस्य बधेर्वैरूप्ये 14
कृदन्तरूपमाला
Sanskrit1 {@“बध बन्धने”@} 2 ‘यत्तु बीभत्सते तत् स्याद् वैरूप्येऽर्थे बधेः सनि।।’ 3 इति देवः।
4 बीभत्सकः-त्सिका, 5 बीभत्सकः-त्सिका, 6 बीभत्सिषकः-षिका, 7 बाधकः-धिका
बीभत्सिता-त्री, बीभत्सयिता-त्री, बीभत्सिषिता-त्री, बाधयिता-त्री
-- बीभत्सयन्-न्ती, बीभत्सयिष्यन्-न्ती-ती
बीभत्समानः, बीभत्सयमानः, बीभत्सिषमाणः
बीभत्सिष्यमाणः, बीभत्सयिष्यमाणः, बीभत्सिषिष्यमाणः
8 बीभत्सितम्-तः-तवान्, बीभत्सितः, बीभत्सिषितः-तवान्
बीभत्सुः, 9 बीभत्सनः, बीभत्सयिषुः, बीभत्सिषुः
बीभत्सितव्यम्, बीभत्सयितव्यम्, बीभत्सिषितव्यम्
10 बीभत्सनीयम्, बीभत्सनीयम्, बीभत्सिषणीयम्
बीभत्स्यम्, बीभत्स्यम्, बीभत्सिष्यम्
ईषद्बीभत्सः-दुर्बीभत्सः-सुबीभत्सः
-- -- बीभत्स्यमानः, बीभत्स्यमानः, बीभत्सिष्यमाणः
बीभत्सः, बीभत्सः, बीभत्सिषः
बीभत्सितुम्, बीभत्सयितुम्, बीभत्सिषितुम्
बीभत्सा, बीभत्सयिषा, बीभत्सिषा
बीभत्सनम्, बीभत्सनम्, बीभत्सिषणम्
बीभत्सित्वा, बीभत्सयित्वा, बीभत्सिषित्वा
प्रबीभत्स्य, प्रबीभत्स्य, प्रबीभत्सिष्य
बीभत्सम् २, बीभत्सित्वा २, बीभत्सम् २, बीभत्सयित्वा २, बीभत्सिषम् २
बीभत्सिषित्वा २।
01 (१०९६)
02 (१-भ्वादिः-९७३। सक। सेट्। आत्म।)
03 (श्लो। १२०)
04 [[२। ‘मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य’ (३-१-६) इत्यत्र ‘बधेर्वैरूप्ये’ इति वचनात् वैरूप्यार्थे स्वार्थे नित्यसनि, अभ्यासस्य इत्वे दीर्घे च, ‘एकाचो बशो भष्--’ (८-२-३७) इति भष्भावेन भकारे, धकारस्य चर्त्वे च रूपम्। एवं सर्वत्र प्रक्रिया ज्ञेया।]]
05 [[३। स्वार्थसन्नन्तात् ण्यन्ते ण्वुलि, ‘णेरनिटि’ (६-४-५१) इति णिलोपे रूपमेवम्।]]
06 [[४। स्वार्थसन्नन्तादिच्छासनि रूपमेवम्। असरूपप्रत्ययत्वात् इच्छासन्नन्तस्यापि प्रयोग इष्टः। तदुक्तं भाष्ये (३-१-७) ‘सरूपः प्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते।।’ इति।]]
07 [[५। ‘अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति।’ (भाष्यम्। ३-१-७) इति वचनात् बध इत्यत्रोक्तस्यानुदात्तेत्त्वस्य स्वार्थसनोऽभावे अर्थान्तरे बन्धनादिरूपे चुरादि- त्वमिति, तत्पक्षे ण्यन्तात् क्रमेण रूपाणि यथायथमूह्यानि।]]
08 [[B। ‘स खल्वबीभत्सितवृत्तिरर्चां तवारभेतापि कृपां लभेत।।’ धा। का। २। ३८।]]
09 [[६। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति ताच्छीलिको युच्।]]
10 [पृष्ठम्०९१७+ २५]
1 {@“बध संयमने”@} 2 ‘बन्धे--’ इति चन्द्रः।
‘बध्नाति बन्धने बन्धेर्बाधयेदिति संयमे।’ 3 इति देवः।
बाधकः-धिका, बिबाधयिषकः-षिका
इत्यादीनि सर्वाणि रूपाणि चौरादिक- चाटयतिवत् 4 बोध्यानि।
5 बाधयन्-न्ती।
01 (१०९७)
02 (१०-चुरादिः-१५४७। सक। सेट्। उभ।)
03 (श्लो। १२०)
04 (४८८)
05 [[आ। ‘स्वर्गे प्रियंभविष्णुश्च कृत्स्नं शक्तोऽप्यबाधयन्।।’ भ। का। ६। ११६।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
