| YouTube Channel

बद्धगुद (baddhaguda)

 
Monier Williams Cologne
English
बद्ध—गुद
n.
a kind of obstruction of the bowels,
Suśr.
शब्दकल्पद्रुमः
Sanskrit
बद्धगुदं,
क्ली,
(बद्धं गुदं पायुर्येन ।) उदररोग-विशेषः तस्य निदानं यथा, --“यस्यान्त्रमन्नैरुपलेपिभिर्व्वाबालाश्मभिर्वा पिहितं यथावत् ।सञ्चीयते तस्य मलः सदोषात्शनैः शनैः सङ्करवच्च नाड्याम्
निरुध्यते तस्य गुदे पुरीषंनिरेति कृच्छ्रादपि चाल्पमल्पम् ।हृन्नाभिमध्ये परिवृद्धिमेतितस्योदरं बद्धगुदं वदन्ति
”इति माधवकरः
*
तस्य चिकित्सा यथा “स्निग्ध स्विन्नस्याभ्यक्त-स्याधो नाभेर्वामतश्चतुरङ्गुलमपहाय रोम-राज्या उदरं पाटयित्वा चतुरङ्गुलप्रमाण-मन्त्राणि निष्कृष्य निरीक्ष्य बद्धगुदस्यान्त्रप्रति-रोधकरमश्मानं बालं वापोह्य मलजातं वाततो मधुसर्पिर्भ्यामभ्यज्यान्त्राणि यथास्थानंस्थापयित्वा वाह्यं व्रणमुदरस्य सीव्येत् द्बिव्रणी-योक्तेन विधानेन रोपयेत् ।” इति सुश्रुतेचिकित्सितस्थाने १४ अध्यायः
(तथास्य-सकारणलक्षणम् ।“पक्षवालैः सहान्नेन भुक्तैर्बद्धायने गुदे ।उदावर्त्तस्तथार्शोभिरन्त्रसंमूर्च्छनेन वा
अपानी मार्गसंरोधात् हत्वाग्निं कुपितोऽनिलः ।वर्च्चःपित्तकफान् रुद्ध्वा जनयत्युदरं ततः
”तस्य रूपाणि ।“तृष्णादाहज्वरमुखतालुशोषोरुसादकासंश्वास-दौर्ब्बल्यारोचकाविपाकवर्च्चोमूत्रसङ्गाध्मानच्छर्दि-क्षवथुशिरोहृन्नाभिगुदशूलान्यपिचोदरं मूढवातंस्थिरमरुणनीलराजीसिरावनद्धमवाजिकं वाप्रायो नाभ्युपरिगोपुच्छवदभिनिर्व्वर्त्तयति इत्येतत्बद्धगुदोदरमिति विद्यात्
”तथास्य चिकित्सा ।“स्विन्नाय बद्धोदरिणे मूत्रं तीक्ष्णौषधान्वितम् ।सतैललवणं दद्यात् निरूहं सानुवासनम्
”इति चरके चिकित्सितस्थाने त्रयोदशेऽध्याये
)
वाचस्पत्यम्
Sanskrit
बद्धगुद
न०
बद्धं गुदमत्र कोष्ठबन्धकारके रोगभेदे “यस्या-न्त्रमन्नैरुपलेपिभिर्वा बालाश्मर्भिर्वापिहितं यथावत् ।सञ्चीयते तस्य मलः सदोषात् शनैः शनैः सङ्करवच्च नाड्याम् निरुध्यते तस्य गुदे पुरीषं निरेति कृच्छ्रादपिचाल्पमल्पम् हृन्नाभिमध्ये परिवृद्धिमेति तस्योदरंबद्धगुदं वदन्ति” भावप्र०