| YouTube Channel

बद्धं (baddhaM)

 
शब्दकल्पद्रुमः
Sanskrit
बद्धं, त्रि, (बध्यते स्म इति बन्ध + कर्म्मणि क्तः ।)बन्धनयुक्तम् बाँधा इति भाषा तत्पर्य्यायः ।सन्दानितम् मूर्णम् उद्धितम् सन्दितम् ५सितम् इत्यमरः ९५
निग-डितम् नद्धम् कीलितम् यन्त्रितम् १०संयतम् ११ इति हेमचन्द्रः
(यथा, मनुः ।९ ३०८ ।“वरुणेन यथा पाशैर्बद्ध एवाभिदृश्यते ।तथा पापान्निगृह्णीयात् व्रतमेतद्धि वारुणम्
”तथा मेघदूते ७९ ।“तन्मध्ये स्फटिकफलका काञ्चनीवासयष्टि-र्मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः
”तथा शाकुन्तले अङ्के ।“छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु
”)