| YouTube Channel

बद (bada)

 
शब्दसागरः
English
बद r. 1st cl. (बदति) To be steady or firm. r. 1st and 10th cls. (बदति-ते
बादयति-ते)
1. To speak.
2. To declare or communicate informa-
tion
in these two senses, the root is more commonly and correct-
ly written वद
Wilson
English
बद r. 1st cl. (बदति) To be steady or firm. r. 1st and 10th cls.
(बदति-ते बादयति-ते)
1 To speak.
2 To declare or communicate
information: in these two senses, the
root is more commonly and correctly written वद.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
बद्
मूलधातुः:
बद
धात्वर्थः:
स्थैर्ये
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
बदति
धातुप्रदीपः
Sanskrit
बदँ बद स्थैर्य्ये
- बदति बबाद बेदतुः ।बेदुः बदरम् बदरीकुणः (20) ।। 50 ।।
शब्दकल्पद्रुमः
Sanskrit
बद, स्थैर्य्ये इति कविकल्पद्रुमः
(भ्वा०-पर०-अक०-सेट् ।) बदति पर्व्वतः आबादीत्अबदीत् हसादेः सेम इत्यादिना वा दीर्घः ।व्रजवदेत्यादौ दन्त्यादिवदेरग्रहणादिति प्राञ्चः ।इति दुर्गादासः
व(ब)द, नुत्यभिवादयोः इति कविकल्पद्रुमः
(भ्वा०-आत्म०-सक०-सेट् ।) अभिवादो नम-स्कारः इ, वन्द्यते ङ, वन्दते गुरुं लोकः ।नमस्करोति स्तौति वा इत्यर्थः इति दुर्गादासः
व(ब)द, वाचि इति कविकल्पद्रुमः
(भ्वा०-पर०-सक०-सेट् ।) ऐ, उद्यात् इति दुर्गा-दासः
(“क्विपि संवत् दन्त्योष्ठत्वात् पक्षे सानु-नासिको वकारः सँव्वत् यस्तु मन्यते नायंसंप्रसारिणो वदेः प्रयोगः किन्तर्हि बद स्थैर्य्यइत्यस्य ओष्ठ्यबकारादेः तन्मते मकारवदपिसम्बदिति वर्णदेशना ।” इति मनोरमा
)
वाचस्पत्यम्
Sanskrit
बद स्थैर्य्ये निश्चलभबले
भ्वा०
पर०
सक०
सेट् बदतिअवादीत् अबदीत् बबाद बेदतुः
बद भाषणे वा
चु०
उभ०
पक्षे
भ्वा०
पर०
सक०
सेट् वादयतिते अवीषदत्--त पक्षे बदतीत्यादि
क्षीरतरङ्गिणी
Sanskrit
बदँ बद स्थैर्ये
बदति, बद्यते भ्रमरादौ बदरम्, बदरी बदिर् ओष्ठ्यादिः वद व्यक्तायां वाचि (1735) इति तु दन्त्यौष्ठ्यादिः - वदति, उद्यते पदेति कण्ठः - पदति 49
धातुवृत्तिः
Sanskrit
बदँ बद (अर्थः) स्थैर्ये
ओष्ठ्यादिः ( बदति बबादेत्यादि ) खदिवत् किति लिति थलि सेटि रूपाभेदे आदेशादित्वानाश्रयणादेत्वाभ्यासलोपयोः ( वेदतु, वेदुः, वेदिथेत्यादि ) ( बदरं ) बाहुलकादरन्प्रत्ययः ( बदरी ) "षिद्गौरादिभ्यश्च'' इति ङीष् अत्र पाठादेवारन् प्रत्ययः अत्र मैत्रेयः सानुषङ्गं पठित्वा नलोपे कृते एत्वाभ्यासलोपयोर्बेदतुरित्याह, तदसत् संयोगान्तत्वेन मन्थ्यादिवल्लिटः कित्त्वाभावात बिदि अवयवे इत्यग्रे 51
कृदन्तरूपमाला
Sanskrit
1 {@“बद स्थैर्ये”@} 2 बादकः-दिका, बादकः-दिका, बिबदिषकः-षिका, बाबदकः-दिका, 3 बदरम्-बदरी, 4 बदन्-न्ती, इत्यादीनि सर्वाण्यपि रूपाणि भौवादिक- खदतिवत् 5 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१०९५)
02
=>
(१-भ्वादिः-५१। सक। सेट्। पर।)
03
=>
[[१। बाहुलकादरन्प्रत्ययः। ‘षिद्गौरादिभ्यश्च’ (४-१-४१) इति गौरादिपाठात् स्त्रियां ङीष्।]]
04
=>
[[आ। ‘पलान्यखाद्यानि खदन् बदद्वपुः गदन्नवाच्यानि रदन् सतां मनः।।’ धा। का। १। ८।]]
05
=>
(३३८)