| YouTube Channel

बणिक् (baNik)

 
शब्दकल्पद्रुमः
Sanskrit
ब(व)णिक्, [ज्]
पुं,
(पणते क्रयविक्रयादिना व्यव-हरतीति पण + “पणेरादेश्च बः ।” उणा०२ ७० इति इजिः पस्य बः ।) क्रय-विक्रयकर्त्ता बाणिज्यकारकः तत्पर्य्यायः ।वैदेहकः सार्थवाहः नैगमः बणिजः ५पण्याजीवः आपणिकः क्रयविक्रयिकः८ इत्यमरः ७८
वैदेहः विदेहः१० बाणिजः ११ बाणिजिकः १२ क्रायिकः१३ विक्रयिकः १४ इति भरतादयः
बाणि-जकः १५ बाणिज्यकारः १६ इति शब्द-रत्नावली
(यथा, माघे १२ २६ ।“स्थाणौ निषङ्गिण्यनसि क्षणम्पुरःशुशोच लाभाय कृतक्रयो बणिक्
”)करणान्तरम् इति मेदिनी जे, २६
वैश्यः ।इति राजनिर्घण्टः
(बाणिज्ये अधिकारा-देवास्य तथात्वम्
करणविशेषः यथा, बृहत्-संहितायाम् ९९ ।“कृषिबीजगृहाश्रयजानि गरेबणिजिध्रुवकार्य्यबणिग्युतयः
”)
ब(व)णिक्, [ज्]
स्त्री,
(पण्यते व्यवह्रीयते इति ।पण + इजि पस्य बः अभिधानात् स्त्रीत्वम् ।)बाणिज्यम् इति मेदिनी गे, २६