| YouTube Channel

बडवाकृत (baDavAkRta)

 
शब्दकल्पद्रुमः
Sanskrit
ब(व)डवाकृतः
पुं,
(बडवया दास्या कृतः ।)पञ्चदशदासान्तर्गतदासविशेषः यथा, --“भक्तदासश्च विज्ञेयस्तथैव बडवाकृतः
”इति नारदः
बडवा दासी तल्लोभादङ्गीकृतदास्यः इतिदायक्रमसंग्रहः
कुत्रचित् बडवाभृतो बडवा-हृतोऽपि पाठः
वाचस्पत्यम्
Sanskrit
बडवाकृ(हृ)त
न०
बडवया दास्या कृतः (हृतः) वा दास-भेदे “भक्तदासञ्च विज्ञेयस्तथैव बडवाकृ(हृ)तः” स्मृतिः