| YouTube Channel

बकपञ्चकं (bakapaJcakaM)

 
शब्दकल्पद्रुमः
Sanskrit
ब(व)कपञ्चकं,
क्ली,
(बकोपलक्षिताः पञ्च तिथयोयत्र कप् बकोऽपि तत्र नाश्नीयादिति वचना-देव तथात्वम् ।) कार्त्तिकशुक्लैकादश्यादिपञ्च-तिथ्यात्मकम् यथा, --“तत्रैकादश्यादितिथिपञ्चके बकपञ्चकम् ।बकोऽपि तत्र नाश्नीयान्मत्स्यञ्चैव कदाचन
इति वचनात् ।” इति कृत्यतत्वम्
“किञ्च कार्त्तिकमधिकृत्य ब्रह्मपुराणम् ।‘एकादश्यादिषु तथा तासु पञ्चसु रात्रिषु ।दिने दिने स्नातव्यं शीतलासु नदीषु ।वर्ज्जितव्या तथा हिंसा मांसभक्षणमेव
’ततश्च मांसभक्षणनिषेधे कार्त्तिकमासतच्छुक्ल-पक्षतदेकादश्यादिपञ्चदिनानि शक्ताशक्तभेदात्पापतारतम्याद्वा निषिद्धानि ।” इति तिथ्यादि-तत्त्वम् अपि ।“एकादशीं समारभ्य यावत् पञ्चदशी भवेत् ।बकोऽपि तत्र नाश्नीयान्मीनं मांसञ्च किं नरः
”इति संवत्सरकौमुदीधृतब्रह्मपुराणवचनम्