| YouTube Channel

बकः (bakaH)

 
Apte
English
बकः [bakḥ], 1 The Indian crane
प्रयत्नशतेनापि शुकवत् पाठ्यते बकः H.
A cheat, rogue, hypocrite (the crane being a very cunning bird that knows well how to draw others into its clutches).
N.
of a demon killed by Bhīma.
N.
of another demon killed by Kṛiṣṇa.
N.
of Kubera.
An apparatus for subliming metals or minerals. -की
=
पूतना q. v. अहो बकी यं स्तनकालकूटं जिघांस- यापाययदप्यसाध्वी
Bhāg.*
3.2.23.
A female crane.Comp. -चरः, -वृत्तिः, -व्रतचरः, -व्रतिकः, -व्रतिन्
m.
'acting like a crane', a false devotee, religious hypocrite
अधोदृष्टिर्नैष्कृतिकः स्वार्थसाधनतत्परः शठो मिथ्याविनीतश्च बकव्रतचरो द्विजः
Ms.*
4.196. -चिञ्चिका, -चिञ्ची a kind of fish.-जित्
m.
, -निषूदनः epithets of
Bhīma.
of Kṛiṣṇa. -धूपः a kind of perfume. -पञ्चकम् the last five days of the bright half of the month of Kārtika (during which even the heron no fish). -यन्त्रम् a kind of retort. -व्रतम् 'crane-like conduct', hypocrisy
ये बकव्रतिनो विप्राः
Ms.*
4.197
see also 196 (बकव्रतचर). -सहवासिन् a lotus flower
Kuval.
Apte 1890
English
बकः 1 The Indian crane.
2 A cheat, rogue, hypocrite (the crane being a very cunning bird that knows well how to draw others into its clutches).
3 N. of a demon killed by Bhīma.
4 N. of another demon killed by Kṛṣṇa.
5 N. of Kubera.
की = पूतना q. v.
Comp.
चरः,
वृत्तिः
व्रतचरः,
व्रतिकः,
व्रतिन् m. ‘acting like a crane’, a false devotee, religious hypocrite
अधोदृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः शठो मिथ्याविनीतश्च बकव्रतचरो द्विजः Ms. 4. 196.
जित् m.
निषूदनः epithets of {1} Bhīma. {2} of Kṛṣṇa.
पंचकं the last five days of the bright half of the month of Kārtika.
यंत्रं a kind of retort.
व्रतं ‘crane-like conduct’, hypocrisy.
Hindi
Hindi
क्रेन (पु)
Apte Hindi
Hindi
बकः
पुं*
- "बङ्क् + अच्, पृषो* साधुः"
बगुला
बकः
पुं*
- "बङ्क् + अच्, पृषो* साधुः"
"ठग, धूर्त, पाखंडी"
बकः
पुं*
- "बङ्क् + अच्, पृषो* साधुः"
एक रक्षस का नाम जिसे भीम ने मारा था
बकः
पुं*
- "बङ्क् + अच्, पृषो* साधुः"
एक रक्षस का नाम जिसे कृष्ण ने मारा था
बकः
पुं*
- "बङ्क् + अच्, पृषो* साधुः"
कुबेर का नामान्तर्
बकः
पुं*
- "वङ्क+अच्, पृषो*"
खान से धातुओं तथा अन्य खनिज पदार्थों को निकालने का एक उपकरण
Wordnet
Sanskrit
Synonyms:
बकासुरः, वकासुरः, बकः, वकः
noun
एकः दैत्यः यं भीमः जघान।
"बकासुरः प्रतिदिनं एकचक्रानामिकायाः नगर्याः एकस्य जनस्य भक्षणं करोति स्म।"
Synonyms:
भारोत्तोलनयन्त्रम्, बकः
noun
भारयुक्तानां वस्तूनाम् अवस्थापनस्य एकं यन्त्रम्।
"भारोत्तोलनयन्त्रेण नौकायां सामग्रीः स्थाप्यन्ते।"
Synonyms:
बकः, द्वारबलिभुक्, कक्षेरुः, शुक्लवायसः, दीर्घजङ्घः, बकोटः, गृहबलिप्रियः, निशैतः, शिखी, चन्द्रविहङ्गमः, तीर्थसेवी, तापसः, मीनघाती, मृषाध्यायी, निश्चलाङ्गः, दाम्भिकः
noun
खगविशेषः-यस्य कण्ठ तथा पादौ दीर्घौ।
"मत्स्यान् भक्षयितुं बकः तटे अवस्थितः।"
Tamil
Tamil
ப3க: : கொக்கு, போக்கிரி, ஒரு அசுரன், கபடம் உள்ளவன், குபேரனின் ஒரு பெயர்.
अमरकोशः
Sanskrit
Word: बकः
Root: बक
Gender: पुं
Number: all
Meaning(s):
heron
stork
crane [bird]
kind of heron or crane
little egret heron [ Ardea nivea - Zoo. ]
hummingbird tree [Sesbania grandiflora - Bot.]
apparatus for calcining or subliming metals or minerals
Shloka(s):
2|5|22|1 क्रुङ्क्रौञ्चोऽथ बकः कह्वः पुष्कराह्वस्तु सारसः। (सिंहादिवर्गः)
Synonym(s):
2|5|22|1 बकः (बक) (पुं) heron, stork, crane [bird], kind of heron or crane, little egret heron [ Ardea nivea - Zoo. ], hummingbird tree [Sesbania grandiflora - Bot.], apparatus for calcining or subliming metals or minerals
2|5|22|1 कह्वः (कह्व) (पुं)
Related word(s):
परा_अपरासंबन्धः बकभेदः
जातिः पक्षी
शब्दकल्पद्रुमः
Sanskrit
ब(व)कः,
पुं,
(ब(व)ङ्कते कुटिलीभवतीति वकि +अच् पृषोदरादित्वात् नलोपः ।) स्वनाम-ख्यातपक्षिविशेषः तत्पर्य्यायः कह्वः ।इत्यमरः २२
द्वारवलिभुक् ३कक्षेरुः शुक्लवायसः दीर्घजङ्घः बकोटः ७गृहवलिप्रियः इति शब्दरत्नावली
निशैतः९ शिखी १० चन्द्रविहङ्गमः ११ इति त्रिकाण्ड-शेषः
तीर्थसेवी १२ तापसः १३ मीन-घाती १४ मृषाध्यायी १५ निश्चलाङ्गः १६दाम्भिकः १७ इति राजनिर्घण्टः
अस्यमांसस्य गुणाः ।“शरारिबककाकाश्च दात्यूहाः पवनापहाः
”इति रत्नावली
अपि ।“हंससारसकाचाक्षवकक्रौञ्चशरारिकाः ।नन्दीमुखीसकादम्बावलाकाद्याः प्लवाः स्मृताः
प्लवन्ते सलिले यस्मात् एते तस्मात् प्लवाः स्मृताः
कुलेचराः प्लवाश्चापि कोशस्थाः पादिनस्तथा ।मत्स्या एते समाख्याताः पञ्चधानूपजातयः
आनूपा मधुराः स्निग्धा गुरवो वह्निसादनाः ।श्लेष्मलाः पिच्छलाश्चापि मांसपुष्टिप्रदा भृशम्
तथाभिष्यन्दिनस्ते हि प्रायोऽपथ्यतमाःस्मृताः
”इति भावप्रकाशः
स्वनामख्यातपुष्पवृक्षः तत्पर्य्यायः शिव-वल्ली पाशुपतः एकाष्ठीलः वसुः ।इत्यमरः
एकाष्ठीला बुकः वसुकः ८वसूकः इति तट्टीका
बकपुष्पः १०शिवमल्ली ११ इति शब्दरत्नावली
काक-शीर्षः १२ स्थूलपुष्पः १३ शिवप्रियः १४ काक-नामा १५ वसहट्टः १६ स्वपूरकः १७ रक्त-पुष्पः १८ मुनितरुः १९ अगस्तिः २० वङ्ग-सेनकः २१ इति रत्नमाला
अगस्त्यः २२शीघ्रपुष्पः २३ मुनिद्रुमः २४ व्रणारिः २५दीर्घफलकः २६ वक्रपुष्पः २७ सुरप्रियः २८ ।“सितपीतनीललोहितकुसुमभेदाच्चतुर्विधो-ऽगस्तिः ।मधुरशिशिरदोषश्रमकासविनाशनश्च भूतघ्नः
”तथा ।“अगस्ति शिशिरं गौल्यं त्रिदोषघ्नं श्रमापहम् ।बलासकासवैवर्ण्यभूतघ्नञ्च बलावहम्
”इति राजनिर्घण्टः
अपि ।“अगस्तिकुसुमं शीतं चातुर्थकनिवारकम् ।नक्तान्ध्यनाशनं तिक्तं कषायं कटुपाकि ।पीनसश्लेष्मपित्तघ्नं वातघ्न मुनिभिर्मतम्
”इति भावप्रकाशः
अन्यच्च ।“वासकस्य पुष्पा वङ्गसेनस्य चैव हि ।कटुपाकानि तिक्तानि कासक्षयकराणि
”इति राजवल्लभः
“बकः पाशुपतश्चैव शिवापीडश्च सुव्रतः ।वसुकश्च शिवाङ्कश्च शिवेष्टः क्रमपूरकः
शिवमल्लिः शिवाह्लादः शाम्भवो रविसंमितः ।बकोऽतिशिशिरस्तिक्तो मधुरो मधुगन्धकः
पित्तदाहकफश्वासश्रमहारी दीपनः
”इति राजनिर्घण्टः
“शिवमल्ली पाशुपत एकाष्ठीला वुको वसुः ।वुकोऽनुष्णः कटुस्तिक्तः कफपित्तविषापहः ।योनिशूलतृषादाहकुष्ठशोथास्रनाशनः
”इत्यपि भावप्रकाशः
तालव्यशकारः यथा, --“ -- शो वान्तो वपरो बकः ।”इति बीजवर्णाभिधानम्
*
कुवेरः रक्षोविशेषः इति मेदिनी के, ३०
सच भीमेन हतः (यथा महाभारते ९५ ७३ ।“तस्यामप्येकचक्रायां बकं नाम राक्षसं हत्वापाञ्चालनगरमभिगताः
”) अत्र कोषे पवर्गीयबकारादौ पठितोऽयं शब्दः किन्तु अमर-टीकायां भरतेन अन्तःस्थवकारादिवचवक-धातुभ्यां क्रमेण घप्रत्ययेन अन्प्रत्ययेन चसाधितः
*
यन्त्रविशेषः यथा, --“जलकच्छपपातालदोलाभूधरवालुकाः ।बकाद्या यन्त्रभेदाः स्युर्व्वज्रान्धाद्याश्च मूषिकाः
”इति शब्दचन्द्रिका
अस्य विवरणं यथा, वैद्यके ।“दीर्घकण्ठकाचकूप्या गिलयेत् स्वल्पभाण्डकम् ।तिर्य्यक् कृत्वा पचेत् चुल्यां बकयन्त्रमितिस्मृतम्
”असुरविशेषः श्रीकृष्णेन हतः यथा, --“स्वं स्वं वत्सकुलं सर्व्वे पाययिष्यन्त एकदा ।गत्वा जलाशयाभ्यासं पाययित्वा पपुर्जलम्
ते तत्र ददृशुर्बाला महासत्त्वमवस्थितम् ।तत्र सुवज्रनिर्भिन्नं गिरेः कूटमिव च्युतम्
वै बको नाम महानसुरो बकरूपधृक् ।आगत्य तरसा कृष्णं तीक्ष्णतुण्डोऽग्रसद्बली
कृष्णं महाबकग्रस्तं दृष्ट्वा रामादयोऽर्भकाः ।बभूवुरिन्द्रियाणीव विना प्राणं विचेतसः
तँतालुमूलं प्रदहन्तमग्निवद्गोपालसूनुं पितरं जगद्गुरोः ।चच्छर्द्द सद्योऽतिरुषाक्षतं बक-स्तुण्डेन हन्तुं पुनरभ्यपद्यत
तमापतन्तं निगृह्य तुण्डयो-र्दीर्भ्यां बकं कंससखं सतां गतिः ।पश्यत्सु बालेषु ददार लीलयामुदावहो वीरणवद्दिवौकसाम्
”इति श्रीभागवते १० स्कन्धे ११ अध्यायः