| YouTube Channel

बंहकः-हिका (baMhakaH-hikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“बहि वृद्धौ”@} 2 3 क्षीरस्वामी चुरादिषु 4 भाषार्थकदण्डकेऽपि बहिधातुं पठित्वा बंहयतीत्युदाहृतवान्।
अन्ये केऽपि नामुं धातुं पठन्ति।
अनतिप्रयोजनकत्वात् बहुत्र तस्यानुपलम्भात् वहिधातोः बहि इति मुद्रणसम्भवाच्चास्माभिरयं परित्यक्तः।]] 5 बंहकः-हिका, बंहकः-हिका, बिबंहिषकः-षिका, बाबंहकः-हिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककण्ठतिवत् 6 ज्ञेयानि 7 बहु।
शानचि-बंहमानः इति रूपमस्येति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(११०९)
02
=>
(१-भ्वादिः-६३३। अक। सेट्। आत्म।)
03
=>
[[[आ]
04
=>
(आस्वदीयेषु)
05
=>
[पृष्ठम्०९२३+ २९]
06
=>
(१४९)
07
=>
[[१। ‘लङ्घिबंह्योर्नलोपश्च’ (द। उ। १-११४) इति कुप्रत्यये नकारलोपे बहु इति रूपम्।]]