| YouTube Channel

फेनाशनिः (phenAzaniH)

 
शब्दकल्पद्रुमः
Sanskrit
फेनाशनिः,
पुं,
(फेन एवाशनिर्वज्रं यस्य फेनेनवृत्रासुरनाशनादेवास्य तथात्वम् ।) इन्द्रः ।इति शब्दमाला
(एतद्वृत्तान्तो यथा, देवी-भागवते ५५ -- ५९ ।“इति सञ्चिन्त्य मनसा कथं हन्यां रिपुं रणे ।अजेयं सर्व्वदा सर्व्वदेवैश्च दानवैस्तथा
यदि वृत्रं हन्म्यद्य वञ्चयित्वा महाबलम् ।न श्रेयो मम नूनं स्यात् सर्व्वथा रिपुरक्षणात्
अपां फेनं तदापश्यत् समुद्रे पर्व्वतोपमम् ।नायं शुष्को चार्द्रोऽयं शस्त्रमिदं तथा
अपां फेनं तदा शक्रो जग्राह किल लीलया ।परां शक्तिञ्च सस्मार भक्त्या परमया युतः
स्मृतमात्रा तदा देवी स्वांशं फेने न्यधापयत् ।वज्रं तदावृतं तत्र चकार हरिसंयुतम्
फेनावृतं पविं तत्र शक्रंश्चिक्षेप तं प्रति ।सहता निपपाताशु वज्राहत इवाचलः
”)