| YouTube Channel

फेणपः (pheNapaH)

 
शब्दकल्पद्रुमः
Sanskrit
फेण(न)पः,
पुं,
स्वयंपतितफलादिजीविमुनिविशेषः ।यथा, श्रीभागवते १२ ४३ ।“वैखानसा वालिखिल्यौडुम्बराः फेणपा वने ।न्यासे कुटीचकः पूर्व्वं बह्वोदो हंसनिष्क्रियौ
”“वने स्थिताश्चत्वारः तत्र वैखानसाः अकृष्ट-पच्यवृत्तयः वालिखिल्याः नवेऽन्ने लब्धे पूर्व्व-सञ्चितान्नत्यागिनः औडुम्बराः प्रातरुत्थाययां दिशं प्रथमं पश्यन्ति तत आहृतैः फला-दिभिर्ज्जीवन्तः फेणपाः स्वयं पतितैः फला-दिभिर्ज्जीवन्तः कुटीचकः स्वाश्रमधर्म्मप्रधानः ।बह्वोदः कर्म्मोपसर्ज्जनीकृत्य ज्ञानाभ्यासप्रधानः ।हंसो ज्ञानाभ्यासनिष्ठः निष्क्रयः प्राप्ततत्त्वः ।एते सर्व्वे यथोत्तरं श्रेष्ठाः ।” इति तट्टीकायांश्रीधरस्वामी
(फेणं पिबतीति फेण + पा +कः फेनपानकर्त्तरि, त्रि यथा, महा-भारते ६४ २२ ।“फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः
”)