| YouTube Channel

फिरङ्ग (phiraGga)

 
शब्दसागरः
English
फिरङ्ग
m.
(-ङ्गः)
1. The country of the Franks.
2. A particular disease.
It is a word of foreign origin.
Apte
English
फिरङ्गः [phiraṅgḥ], 1 The country of the Franks (i. e. of Europeans).
A disease of the Franks, syphilis
also फिरङ्गामयः, -व्याधिः.
Apte 1890
English
फिरंगः 1 The country of the Franks (i. e. of Europeans).
2 A disease of the Franks, syphilis.
Monier Williams Cologne
English
फिरङ्ग
mfn.
Frankish, European (with व्याधि
m.
=
°गामय),
Bhpr.
फिरङ्ग
m.
the country of the Franks i.e. Europe, or
=
°गामय,
L.
Monier Williams 1872
English
फिरङ्ग फिरङ्ग, अस्, m. the country of the
Franks (i. e. of Europeans)
the disease of the Franks,
syphilis.
—फिरङ्ग-रोटी, f. European bread.
Macdonell
English
फिरङ्ग phiraṅg-a,
a.
belonging to the Franks, 🞄European
m.
Europe
-in,
m.
European.
Apte Hindi
Hindi
फिरङ्गः
पुं*
- -
फिरंगियों अर्थात् यूरोपियनों का देश
Shabdartha Kaustubha
Kannada
फिरङ्ग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪರಂಗಿಯವರ ದೇಶ /ಯುರೋಪು ದೇಶ
फिरङ्ग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಒಂದು ವಿಧ ರೋಗ
विस्तारः - > ರೋಗವು ಪರಂಗಿಯವರ ದೇಶದಲ್ಲಿ ಹೆಚ್ಚಾಗಿ ಬರುವುದರಿಂದ ಇದಕ್ಕೆ ಹೆಸರು.
L R Vaidya
English
PiraMga {% m. %} The country of the Franks (i.e. of the Europeans) (a word of foreign origin).
शब्दकल्पद्रुमः
Sanskrit
फिरङ्गः,
पुं,
(फौ पापे क्रोधे वा रङ्गोऽनुरागोयस्य ।) स्वनामख्यातम्लेच्छदेशः यथा, --“पूर्व्वाम्नाये नवशतं षडशीतिः प्रकीर्त्तिताः ।फिरङ्गभाषया मन्त्रास्तेषां संसाधनाद्भुवि
अधिपा मण्डलानाञ्च संग्रामेष्वपराजिताः ।इंरेजा नव षट् पञ्च लण्ड्रजाश्चापि भाविनः
”इति मेरुतन्त्रे २३ प्रकाशः
रोगविशेषः अथ फिरङ्गस्य निरुक्तिमाह ।“फिरङ्गसंज्ञके देशे बाहुल्येनैष यद्भवेत् ।तस्मात् फिरङ्ग इत्युक्तो व्याधिर्व्याधिविशारदैः
”तस्य विप्रकृष्टं निदानमाह ।“गन्धरोगः फिरङ्गोऽयं जायते देहिनां ध्रुवम् ।फिरङ्गिणोऽतिसंसर्गात् फिरङ्गिण्याः प्रसङ्गतः
व्याधिरागरुजो ह्येष दोषाणामत्र संक्रमः ।भ्रवेत्ता लक्षयेत्तेषां लक्षणैर्भिषजां वरः
”फिरङ्गिण्याः प्रसङ्गत इति विशेषार्थम्
*
रूपमाह ।“फिरङ्गस्त्रिविधो ज्ञेयो वाह्याभ्यन्तरतस्तथा ।बहिरन्तर्भवश्चापि तेषां लिङ्गानि ब्रुवे
तत्र बाह्यः फिरङ्गः स्याद्विस्फोटसदृशोऽल्परुक् ।स्फुटितो व्रणवद्भेद्यः सुखसाध्योऽपि स्मृतः
सन्धेश्चाभ्यन्तरः स्यादुभयोर्लक्षणैर्युतः ।कष्टदोऽतिचिरस्थायी कष्टसाध्यतमश्च सः
”उपद्रवान् आह ।“कार्श्यं बलक्षयो नासाभङ्गो वह्नेश्च मन्दता ।अस्थिशोषोऽस्थिवक्रत्वं फिरङ्गोपद्रवा अमी
”साध्यत्वादिकमाह ।“बहिर्भवो भवेत् साध्यो नूतनो निरुपद्रवः ।आभ्यन्तरस्तु कष्टेन साध्यः स्यादयमामयः
बहिरन्तर्भवो जीर्णः क्षीणस्योपद्रवैर्युतः ।बोध्यो व्याधिरसाध्योऽयमित्यूचुर्म्मुनयः पुरा
”अथ फिरङ्गस्य चिकित्सा ।“फिरङ्गसंज्ञकं रोगं रसः कर्पूरसंज्ञकः ।अवश्यं नाशयेदेतदूचुः पूर्व्वे चिकित्सकाः
लिख्यते रसकर्परप्राशने विधिरुत्तमः ।अनेन विधिना खादन्मुखे शीथं विन्दति
गोघूमचूर्णं संनीय विदध्यात् सूक्ष्मकूपिकाम् ।तन्मध्ये निःक्षिपेत् सूतं चतुर्गुञ्जामितं भिषक्
ततस्तु गुटिकां कुर्य्याद्यथा स्याद्रसो बहिः ।सूक्ष्णचूर्णं लवङ्गस्य तां वटीमवधूलयेत्
दन्तस्पर्शो यथा स्यात्तथा तामम्भसा गिलेत् ।ताम्बूलं भक्षयेत् पश्चाच्छाकाम्ललवणांस्त्यजेत्
श्रममातपमध्वानं विशेषात् स्त्रीनिषेवणम्
इति कर्पूररसः
पारदष्टङ्कमानः स्यात् खदिरष्टङ्कसंमितः ।आकारकरभश्चापि ग्राह्यष्टङ्कद्बयोन्मितः
टङ्कत्रयमितं क्षौद्रं खल्ले सर्व्वं विनिःक्षिपेत् ।संमर्द्य तस्य सर्व्वस्य कुर्य्यात् सप्त वटीर्भिषक्
रोगी भक्षयेत् प्रातरेकैकामम्बुना वटीम् ।वर्जयेदम्ललवणौ फिरङ्गस्तस्य नश्यति
इति सप्तशाणिकावटी
पारदः कर्षमात्रः स्यात्तावदेव हि गन्धकः ।तण्डुला अक्षमात्राः स्युस्तेषां कुर्य्याच्च कज्ज-लीम्
तस्याः सप्त वटीः कुर्य्यात्ताभिर्द्धूमं प्रयोजयेत् ।दिनानि सप्त तेन स्यात् फिरङ्गान्तो संशयः
इति धूमप्रयोगः
पीतपुष्पवलापत्ररसैष्टङ्कमितं रसम् ।हस्ताभ्यां मर्द्दयेत्तावत् यावत् सूतो दृश्यते
ततः संस्वेदयेद्धस्तादेवं वासरसप्तकम् ।त्यजेल्लवणमम्लञ्च फिरङ्गस्तेन नश्यति
चूर्णयेन्निम्बपत्राणि पथ्यां निम्बाष्टमांसिकाम् ।धात्रीञ्च तावतीं रात्रिं निम्बषोडशभागिकाम्
शाणमानमिदं चूर्णमश्नीयादम्भसा सह ।फिरङ्गं नाशयत्येव वाह्यमाभ्यन्तरं तथा
तोपचीनिभवं चूर्णं शाणमानं समाक्षिकम् ।फिरङ्गव्याधिनाशाय भक्षयेल्लवणं त्यजेत्
लवणं यदि वा त्यक्तुं शक्नोति तदा जनः ।सैन्धवं हि भुञ्जीत मधुरोपरसं हि तत्
अर्द्धकर्षमितं सूतं कुरण्टकरसैः सह ।खल्ले विमर्द्दयेत्तत्र पलार्द्धं गुग्गुलुं क्षिपेत्
तत्रार्ककरभं कुष्ठं त्रिफलाञ्च पृथक् पृथक् ।अर्द्धकर्षमितं सर्व्वं चूर्णयित्वा तु निःक्षिपेत्
तत् सर्व्वं मधुसर्पिर्भ्यां द्विपलाभ्यां पृथक् पृथक् ।मर्द्दयेदथ तत् खादेदर्द्धकर्षमितं रसम्
व्रणः फिरङ्गरोगोत्थस्तस्यावश्यं विनश्यति ।अल्पोऽपि चिरजातोऽपि प्रशाम्यति महाव्रणः
एतद्भक्षयतः शोथो मुखस्य जायते ।वर्जयेदत्र लवणमेकविंशतिवासरान्
इति फिरङ्गाधिकारः ।” इति भावप्रकाशः