| YouTube Channel

फिरङ्क (phiraGka)

 
वाचस्पत्यम्
Sanskrit
फिरङ्क
पु०
स्वनामख्याते म्लेच्छदेशे रोगविशेषे मावप्र०तत्र फिरङ्गस्य निरुक्तिमाह “फिरङ्गसंज्ञके देशेबाहुल्येनैष यद्भवेत् तस्मात् फिरङ्ग इत्युक्तोव्याधिर्व्याधिविशारदैः” तस्य विप्रकृष्टं निटानमाहगन्धरोगः फिरङ्गोऽयं जायते देहिनां ध्रुवम् फिरङ्गि-णोऽतिसंसर्गात् फिरङ्गिण्याः प्रसङ्गतः व्याधिराग-न्तुजो ह्येष दोषाणामनुसंक्रमः भवेत्ता लक्षयेत्तेषांलक्षणैर्भिषजां वरः” फिरङ्गिण्याः प्रसङ्गत इतिविशेषार्थम् रूपमाह “फिरङ्गस्त्रिविवो ज्ञेयो बाह्या-भ्यान्तरतस्तथा वहिरन्तर्भवश्चापि तेषां लिङ्गानि चध्र्वम् तत्र बाह्यः फिरङ्गः स्याद्बिस्फोटसदृशोऽल्परुक् ।स्फुटितो व्रणवद्वेद्यः सुखमाध्योऽपि स्मृतः सन्धे-श्चाभ्यन्तरः स्यादुभथोर्लक्षणैर्युतः कष्टदोऽतिचिर-स्थायी कष्टसाध्यतमश्च सः” उपद्रवानाह “कार्श्यंबलक्षयो नासाभङ्गो वह्नेश्च मन्दता अस्थिशोषो-ऽस्थिवक्रत्वं फिरङ्गोपद्रवा अमी साध्यत्वादिकमाहवहिर्भवो भवेत् साध्यो नूतमो निरुपद्रवः आभ्य-न्तरस्तु कष्टेन साध्यः स्यादयमामषः बहिरन्तर्भवोजीर्णः क्षीणस्योपद्रवैर्युतः बोध्यो व्याणिरसाध्योऽय-मित्यूचुर्मुनयः पुरा” ततोऽस्त्यर्थे इनि फिरङ्गिन्तद्देशस्थजने तद्रोगयुते
त्रि०
स्त्रियां ङीप्