| YouTube Channel

फाण्टं (phANTaM)

 
शब्दकल्पद्रुमः
Sanskrit
फाण्टं, त्रि, (फण्यते स्मेति फण गतौ + “क्षुब्ध-स्यान्तध्वान्तेति ।” १८ इति निपा-तनात् साधुः ।) अनायासकृतम् इत्यमरः ।७ ९४
कषायभेदः यथा, --“क्षिप्त्वोष्णतोये मृदितः फाण्ट इत्यमिधीयते ।”अपि ।“क्षुण्णद्रव्यपले सम्यक् जलमुष्णं विनिःक्षिपेत् ।पात्रे चतुःपलमिति ततस्तु स्रावयेज्जलम्
सोऽयं चूर्णद्रवः फाण्टो भिषग्भिरभिधीयते
”इति वैद्यकपरिभाषा
(तथास्य प्रस्तुतविधिः ।“सद्योऽभिष्णु पूतस्तु फाण्टन्तन्मानकल्पने
”इति वाभटकल्पस्थाने षष्ठेऽध्याये
)