| YouTube Channel

फाणितं (phANitaM)

 
Apte 1890
English
फाणितं Raw sugar.
शब्दकल्पद्रुमः
Sanskrit
फाणितं,
क्ली,
(फण गतौ + णिच् + क्तः ।) अर्द्धा-वर्त्तितेक्षुरसः फेणीति ख्यातम् इत्यमर-भरतौ
(यथा, महाभारते १३ ६४ २३ ।फल्गुनी पूर्व्वसमये ब्राह्मणानामुपोषितः ।भक्ष्यान् फाणितसंयुक्तान् दत्त्वा सौभाग्य-मृच्छति
”)अस्य गुणाः गुरुत्वम् अभिष्यन्दित्वम् ।बृंहणत्वम् कफशुक्रलत्वम् वातपित्तश्रमनाशि-त्वम् मूत्रवस्तिविशोधनत्वञ्च
*
“इक्षो रसस्तु यः पक्वः किञ्चिद्गाढो बहुद्रवः ।स एवेक्षुविकारेषु ख्यातः फाणितसंज्ञया
”इति भावप्रकाशः
(यथा ।“शिराहर्षेऽञ्जनं कुर्य्यात् फाणितं मधुसंयुतम्
”इति वैद्यकचक्रपाणिसंग्रहे नेत्ररोगाधिकारे
“फाणितं शक्तवः सर्पि र्दधिमण्डोऽम्लकाञ्जिकम् ।तर्पणं मूत्रकृच्छ्रघ्नमुदावर्त्तहरं पिबेत्
”इति चरके सूत्रस्थाने २३ अध्याये
)