| YouTube Channel

फलेसक्तः (phalesaktaH)

 
शब्दकल्पद्रुमः
Sanskrit
फलेसक्तः, त्रि, (फले सक्त आसक्तः ।) फलासक्तः ।फलकामी यथा, भगवद्गीतायाम् ।“युक्तः कर्म्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठि-कीम्
अयुक्तः कामकारेण फलेसक्तो निबध्यते
”‘फलेसक्तः मम फलायेदं कर्म्म करोमीत्येवं फले-सक्तो नितरां बन्धं प्राप्नोति ।’ इति मलमास-तत्त्वम्