| YouTube Channel

फलेन्द्रः (phalendraH)

 
शब्दकल्पद्रुमः
Sanskrit
फलेन्द्रः,
पुं,
(फलेन इन्द्रः ऐश्वर्य्यशालीव बृहत्-फलत्वादेवास्य तथात्वम् ।) बृहज्जम्बुः तत्-पर्य्यायः नन्दः राजजम्बुः महाफला ४सुरभिपत्रा महाजम्बुः अस्य गुणाः ।स्वादुत्वम् विष्टम्भित्वम् गुरुत्वम् रोचन-त्वञ्च इति भावप्रकाशः