| YouTube Channel

फलार्थी (phalArthI)

 
शब्दकल्पद्रुमः
Sanskrit
फलार्थी [न्] त्रि, (फलं अर्थयते इति अर्थ +णिनिः ।) फलकामी यथा, --“सर्व्वसूक्तेषु कर्त्तव्या प्रतिष्ठा विधिना बुधैः ।फलार्थिभिस्त्वप्रतिष्ठं यस्मान्निष्फलमुच्यते
”इति मठप्रतिष्ठातत्त्वधृतहयशीर्षपञ्चरात्रीय-सङ्कर्षणकाण्डीयवचनम्