| YouTube Channel

फलकोष (phalakoSa)

 
वाचस्पत्यम्
Sanskrit
फलकोष
पु०
फलस्य सुष्कस्य कोष इव सुष्कावरकचर्म-युते अण्डकोषे तद्वृद्धिहेतुसाह सुश्रुतः “वातपित्तश्लेष्म-शोणितमेदोमूत्रान्त्रानिमित्ताः सप्त वृद्धयः तासां मूत्रा-न्त्रनिमित्ते वृद्धी वातसमुत्थे केवलमुत्पत्तिहेतुरन्यतमः अधःप्रकुपितोऽन्यतमो हि दोषः फलकीषवाहिनीरभिप्रपद्यधमनीः फलकीषयोर्वृद्धिं जनयति तां वृद्धिमित्याचक्षते”