फणिचक्र (phaNicakra)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritफणिचक्रं, (फण्याकारं चक्रम् ।) विवाहादि-कर्म्मसु शुभाशुभज्ञानार्थं सप्तविंशतिनक्षत्र-घटितसर्पाकारत्रिनाडिकचक्रम् । यथा, --“अश्विन्यादि लिखेच्चक्रं सर्पाकारं त्रिनाडिकम् ।तत्र वेधवशाज्ज्ञेयं विवाहादौ शुभाशुभम् ॥
त्रिनाडीवेधनक्षत्रमश्विन्यार्द्रायुगोत्तराः ।हस्तेन्द्रमूलवारुण्यः पूर्व्वभाद्रपदास्तथा ॥
याम्यः सौम्यो गुरुर्योनिश्चित्रा मित्रजलाह्वयम् ।धनिष्ठा चोत्तरा भाद्रा मध्यनाडीव्यवस्थिताः ॥
कृत्तिका रोहिणी सर्पो मघा स्वातीविशाखके ।उत्तरा श्रवणा पौष्णं पृष्ठनाडीव्यवस्थिताः ॥
अश्वादिनाडीवेधर्क्षे षष्ठं द्वितीयकं क्रमात् ।याम्यादितुर्य्यतुर्य्यञ्च कृत्तिकादिद्विषट्ककम् ॥
एवं निरीक्षयेद्बेधं कन्यामन्त्रे गुरौ सुरे ।पण्यस्त्रीस्वामिमित्रेषु देशे ग्रामे पुरे गृहे ॥
एकनाडीस्थधिष्टानि यदि स्युर्व्वरकन्ययोः ।तदा वेधं विजानीयाद्गुर्व्वादिषु तथैव च ॥
प्रकटं यस्य जन्मर्क्षं तस्य जन्मर्क्षतो व्यधः ।प्रनष्टं जन्मभं यस्य तस्य नामर्क्षतो भवेत् ।द्वयोर्जन्मभयोर्व्वेधे न कर्त्तव्यं कदाचन ॥
एकनाडीस्थिता चेत् स्याद्भर्त्तुर्नाशाय चाङ्गना ।तस्मान्नाडीव्यधो वीक्ष्यो विवाहे शुभमिच्छता ॥
प्राङ्नाड्या वेधतो भर्त्ता भध्यनाड्यो भयन्तथा ।पृष्ठनाडीव्यधे कन्या म्रियते नात्र संशयः ॥
एकनाडीस्थिता यत्र गुरुर्मन्त्रश्च देवता ।तत्र द्वेषं रुजं मृत्युं क्रमेण फलमादिशेत् ॥
समासन्ने वधे शीघ्रं दूरवेधे चिरेण तु ।वेधान्तरभमानेन वर्षे दुष्टं प्रजायते ॥
प्रभुः पण्याङ्गना मित्रं देशो ग्रामः पुरंगृहम् ।एकनाडीगता भव्या अभव्या वेधवर्ज्जिताः ।एकराश्यादियोगे तु नाडीदोषो न विद्यते ॥
”इति ज्योतिस्तत्त्वम् ॥
अपि च ।“सर्पाकारो घटनविशेषःकृत्तिकादियमदैवतशेषः ।पृष्ठे सुतहतिसङ्कटरोगःक्रोडे कान्तापुत्त्रवियोगः ।मध्ये रेखे विहितविवाहउभयोर्म्मरणं वदति वराहः ॥
क्रोडे पृष्ठे यश उद्दामम्मध्ये क्रोडे बहुसम्मानम् ।मध्ये पृष्ठे भवति विवाहोबहुसुतवित्तमिति च मुनिराह ॥
”इति समयप्रदीपः ॥
* ॥
तस्य विन्यासो यथा, --पृष्ठे १ ६ ७ १२ १३ १८ १९ २४ २५मध्ये २ ५ ८ ११ १४ १७ २० २३ २६क्रोडे ३ ४ ९ १० १५ १६ २१ २२ २७ ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
