| YouTube Channel

प्लोषिता-त्री (ploSitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“प्लुष दाहे”@} 2।
3 दिवादिष्वेव प्लुषधातुर्द्विवारं पठ्यते--पुषादावन्यत्र च।
तत्र पुषादिपाठाद् अप्लुषत् इति अङ्सिद्धिः फलम्।
अन्यत्र तु, अप्लोषीत् इति सिचस्सिद्धिः फलमिति विशेषः।
कृदन्तेषु तु द्वयोस्तुल्यतेत्यतोऽस्माभिरेकदैवोभयोरुपादानमादृतम्।]] ‘… दाहकर्मणि।।
प्लोषति प्लुष्यतीति स्तां, प्लुष्णाति स्नेहनादिषु।’ 4 इति देवः।
प्लोषकः-षिका, प्लोषकः-षिका, पुप्लुषिषकः-पुप्लोषिषकः-पिका, 5 पोप्लुषकः-षिका
प्लोषिता-त्री, प्लोषयिता-त्री, पुप्लुषिषिता-पुप्लोषिषिता- त्री, पोप्लुषिता-त्री
इत्यादीनि सर्वाणि रूपाणि दैवादिककुप्यतिवत् 6 बोध्यानि।
7 प्लुष्यन् इति शतरि रूपम्।
प्रासङ्गिक्यः
01
=>
(१०८३)
02
=>
(४-दिवादिः-१११५। १२१६। सक। सेट्। पर)
03
=>
[[[अ]
04
=>
(श्लो। १७१-१७२)
05
=>
[पृष्ठम्०९१०+ २६]
06
=>
(२२४)
07
=>
[[आ। ‘तं प्लुष्यद् दृष्टिनृत्यद्रुषमपि गतत्रासमुत्कुथ्यदङ्गं…।।’ धा। का। २। ५६।]]