| YouTube Channel

प्लुतः (plutaH)

 
शब्दकल्पद्रुमः
Sanskrit
प्लुतः,
पुं,
(प्लुतं प्लुतवद्गतिरस्यास्तीति प्लुत +अच् ।) त्रिमात्रवर्णः इति मेदिनी ते, ३५
यथा, --“एकमात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते ।त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनञ्चार्द्धमात्रकम्
”इति दुर्गादासादिधृतप्राचीनकारिका
(तथाच ।“दूराह्वाने गाने रोदने प्लुतो मतः
”इति दुर्गादासधृतवचनम्
प्लु + क्तः ।) झम्पगतियुक्ते, त्रि
(यथा, हरिवंशे ९८ ८४ ।“रामादनन्तरं कृष्णः प्लुतो वै वीर्य्यवांस्ततः ।ताभ्यामेव प्लुताभ्याञ्च चरणैस्ताडितो गिरिः
”अन्तर्णिजर्थत्वात् प्लावितः यथा, बृहत्संहिता-याम् ४४ ।“सव्यगते तमसि जगज्जलप्लुतं भवति मुदित-मभयञ्च
”सिक्तः यथा, याज्ञवल्क्ये २३५ ।“अग्नौ करिष्यन्नादाय पृच्छत्यन्नं घृतप्लुतम्
”व्याप्तः यथा, भागवते १४ ।“यस्यानुरागप्लु तहासरास-लीलावलोकप्रतिलब्धमानाः ।व्रजस्त्रियो दृग्भिरनुप्रवृत्त-धियोऽवतस्थुः किल कृत्यशेषाः
”)