| YouTube Channel

प्लुङ् (pluG)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
प्लु
मूलधातुः:
प्लुङ्
धात्वर्थः:
गतौ, जलोपरिसर्पणे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
आत्मनेपदी
रूपम्:
प्लवते
कृदन्तरूपमाला
Sanskrit
1 {@“प्लुङ् गतौ”@} 2 प्लावकः-विका, प्लावकः-विका, पुप्लूषकः-षिका, 3 पोप्लूयकः-यिका, 4 पुप्लावयिषकः-पिप्लावयिषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकच्यवतिवत् 5 बोध्यानि।
6 प्लवः-प्लवी, 7 आप्लावः- 8 आप्लवः, ण्यति- 9 आप्लाव्यः, 10 परिप्लूय इत्यादीनि रूपाणि अस्य धातोर्भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१०८२)
02
=>
(१-भ्वादिः-९५८। सक। अनि। आत्म।)
03
=>
[[१। यङन्तात् द्वित्वे ‘गुणो यङ्लुकोः’ (७-४-८२) इत्यभ्यासस्य गुणे ‘अकृत्सार्व- धातुकयोः--’ (७-४-२५) इति दीर्घे रूपमेवम्।]]
04
=>
[[२। ण्यन्तात् सनि ‘सन्यङोः’ (६-१-९) इति द्वित्वे वृद्ध्यावादेशयोः अवर्णपरयण्परकत्वा- दभ्यासघटितोकारस्य, ‘स्रवति शृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा’ (७-४-८१) इति पाक्षिके इकारे रूपद्वयम्। एवं सर्वत्र ण्यन्तात् सनि प्रक्रिया ज्ञेया।]]
05
=>
(५५८)
06
=>
[[३। पचादिषु (३-१-१३४) प्लवट् इति पाठात् टित्त्वान्ङीपि स्त्रियां प्लवी इति ज्ञेयम्।]]
07
=>
[[४। ‘विभाषाऽऽङि रुप्लुवोः’ (३-३-५०) इति विभाषया घञ् भवति। घञभावे अप्प्रत्ययः। एवं रूपद्वयं बोध्यम्।]]
08
=>
[[आ। ‘दूराप्लावं हनूमन्तं रामः प्रोचे गजाप्लवः।।’ भ। का। ७। ४७।]]
09
=>
[[५। ‘भव्यगेयप्रवचनीयोपस्थानीयजन्याप्प्लाव्यापात्या वा’ (३-४-६८) इति निपातनात् कर्तरि ण्यत्प्रत्ययः।]]
10
=>
[[६। ल्यपि ‘युप्लुवोर्दीर्घश्छन्दसि’ (६-४-५८) इति छन्दसि विषये दीर्घः। लोके तु आप्लुत्य इत्येव।]]