| YouTube Channel

प्लीहा (plIhA)

 
Apte
English
प्लीहा [plīhā], The spleen.
Apte 1890
English
प्लीहा The spleen.
Monier Williams Cologne
English
प्लीहा
f.
=
प्लीहन्,
L.
Monier Williams 1872
English
प्लीहा, f. = प्लीहन्।
Macdonell
English
प्लीहा plīh-ā,
f.
spleen: -udara,
n.
disease 🞄of the spleen
-udarin,
a.
suffering from 🞄disease of the spleen.
Apte Hindi
Hindi
प्लीहा
स्त्री*
- -
तिल्ली
Shabdartha Kaustubha
Kannada
प्लीहा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಹೊಟ್ಟೆಯ ಎಡಭಾಗದಲ್ಲಿರುವ ಮಾಂಸಗ್ರಂಥಿ
निष्पत्तिः - > प्लिह (गतौ) - "कः" (३-१-१३५) पुषो० दीर्घः स्त्रियां "टाप्"
L R Vaidya
English
plIhA {% f. %} The spleen.
शब्दकल्पद्रुमः
Sanskrit
प्लीहा,
स्त्री,
(प्लिह + कः पृषोदरादित्वात् दीर्घः ।स्त्रियां टाप् ।) प्लिहरोगः यथा, यकृत्प्लीहेच सम्बन्धे इति बालकास्यः इत्यमरटीकायांभरतः
प्लीहा, [न्]
पुं,
(प्लिह + “श्वनुक्षन्पूषन्प्लीह-न्निति ।” उणा० १५८ इति कनिन्प्रत्ययेन साधुः ।) कुक्षिवामपार्श्वस्थमांसखण्डम् ।पिला इति ख्यातम् तत्पर्य्यायः गुल्मः २प्लिहा इत्यमरभरतौ
अस्य निदानम् ।“विदाह्यभिष्यन्दिरतस्य जन्तोःप्रदुष्टमत्यर्थमसृक् कफश्च ।प्लीहाभिवृद्धिं कुरुतः प्रवृद्धौप्लीहोत्थमेतज्जठरं वदन्ति
तद्बामपार्श्बे परिवृद्धिमेतिविशेषतः सीदति चातुरोऽत्र ।मन्दज्वराग्निः कफपित्तलिङ्गै-रुपद्रुतः क्षीणबलोऽतिपाण्डुः
”इति माधवकरः
*
रक्तजस्य तस्य लक्षणम् ।“क्लमो भ्रमो विदाहश्च वैवर्ण्यं गात्रगौरवम् ।मोहो रक्तोदरत्वञ्च ज्ञेयं रक्तजलक्षणम्
*
पैत्तिकस्य तस्य लक्षणम् ।“सज्वरः सपिपासश्च सदाहो मोहसंयुतः ।पीतगात्रो विशेषेण प्लीहा पैत्तिक उच्यते
”श्लैष्मिकस्य तस्य लक्षणम् ।“प्लीहा मन्दव्यथः स्थूलः कठिनो गौरवान्वितः ।अरोचकयुतः शीतः प्लीहा कफज उच्यते
”वातिकस्य तस्य लक्षणम् ।“नित्यमानद्धकोष्ठः स्यान्नित्योदावर्त्तपीडितः ।वेदनाभिः परीतश्च प्लीहा वातिक उच्यते
दोषत्रितयरूपाणि प्लीह्न्यसाध्ये भवन्ति हि
”अथ तस्य चिकित्सा ।“पातव्यो युक्तितः क्षारः क्षीरेणीदधिशुक्तिजः ।तथा दुग्धेन पातव्याः पिप्पल्यः प्लीहशान्तये
अर्कपत्रं सलवणं पुटदग्धं सुचूर्णितम् ।निहन्ति मस्तुना पीतं प्लीहानमपि दारुणम्
हिङ्गु त्रिकटुकं कुष्ठं यवक्षारञ्च सैन्धवम् ।मातुलुङ्गरसोपेतं प्लीहशूलहरं रजः
पालाशक्षारतोयेन पिप्पली परिभाविता ।प्लीहगुल्मार्त्तिशमनी वह्रिमान्द्यहरी मता
रसेन जम्बीरफलस्य शङ्ख-बाभीरजः पीतमवश्यमेव ।शाणप्रम्मणं शमयेदशेषंप्लीहामयं कूर्म्मसमानमाशु
शरपुङ्खमूलकल्कस्तक्रेणालोडितः पीतः ।प्लीहानं यदि हरते शैलोऽपि तदा जलेप्लवते
सुपक्वसहकारस्य रसः क्षीद्रसमन्वितः ।पीतः प्रशमयत्येव प्लीहानं नेह संशयः
सुस्विन्नं शाल्मलीपुष्पं निशापर्य्युषितं नरः
राजिकाचूर्णसंयुक्तं खादेत् प्लीहोपशान्तये
इति भावप्रकाशः
*
“पिप्पलीमधुपानाच्च यथा मधुरभोजनात् ।प्लीहा विनश्यते रूद्र इति
केतकीपत्रजं क्षारं घृतेन सह भक्षयेत् ।तक्रेण शरपुङ्खाभ्यां पीत्वा प्लीहां विना-शयेत्
१०
इति गारुडे १८७ १८८ अध्यायौ
(“शोणितकफप्रसादजं हृदयं तदाश्रया हिध्वमन्यः प्राणवहाः तस्याधो वामतः प्लीहाफुप्फुसश्च
इति सुश्रुते शारीरस्थाने चतुर्थे-ऽध्याये
अस्य सहेतुकलक्षणादीनि यथा, --“अशितस्यातिसंक्षोभाद् यानयानाभिचेष्टितैः ।अतिव्यवायभाराध्ववमनव्याधिकर्षणैः
वामपार्श्वाश्रितः प्लीहा च्युतः स्थानात् प्रवर्द्धते ।शोणितं वा रसादिभ्यो विवृद्धन्तं विवर्द्धयेत्
इति तस्य प्लीहा कठिनोऽष्ठीलेवादौ वर्द्धमानःकच्छपसंस्थान उपलभ्यते चोपेक्षितः क्रमेणकुक्षिं जठरमग्न्यधिष्ठानञ्च परिक्षिपन्नुदरमभि-निर्व्वर्त्तयति
तस्य रूपाणि दौर्ब्बल्यारोचकाविपाकवर्च्चो-मूत्रग्रहतमःपिपासाङ्गमर्द्दच्छर्द्दिमूर्च्छाङ्गसाद-कासश्वासमृदुज्वरानाहाग्निनाशकार्श्यास्यवैर-स्यपर्व्वभेदकोष्ठवातशूलान्यपि चोदरमरुणवर्णंविवर्णं वा नीलहरितहारिद्रराजिमद्भवति ।”चिकित्सास्य यथा, --“पिप्पलीं तिल्वकं हिङ्गु नागरं हस्तिपिप्प-लीम् ।भल्लातकं शिग्रुफलं त्रिफलां कटुरोहिणीम्
देवदारुहरिद्रे द्वे सरलातिविषे वचाम् ।कुष्ठं मुस्तं तथा पञ्च लवणानि प्रकल्प्य ।दधिसर्पिर्वसातैलमज्जयुक्तानि दाहयेत्
अन्तर्धूममतः क्षारात् विडालपदकं पिबेत् ।मदिरा दधिमण्डोष्णजलारिष्टसुरासवैः
हृद्रोगं श्वयथुं गुल्मं प्लीहार्शो जठराणि ।विसूचिकामुदावर्त्तं वाताष्ठीलाञ्च नाशयेत्
”इति चरके चिकित्सास्थानेऽष्टादशेऽध्याये
)
वाचस्पत्यम्
Sanskrit
प्लीहा स्त्री प्लिह--क पृषो० दीर्घः प्लीहरोगे भरतः