| YouTube Channel

प्लीहघ्नः (plIhaghnaH)

 
शब्दकल्पद्रुमः
Sanskrit
प्लीहघ्नः,
पुं,
(प्लीहानं हन्तीति हन + टक् ।)वृक्षविशेषः रोहडा इति ख्यातः तत्पर्य्यायः ।रोही रोहितकः प्लीहशत्रुः दाडिम-पुष्पकः मांसदलनः यकृद्वैरी चलच्छदः८ इति शब्दचन्द्रिका
रौहितेयः रोहितः१० रोहीतकः ११ रौही १२ इति शब्दरत्ना-वली
(अस्य गुणाः रोहितकशब्दे द्रष्टव्याः
)