प्लक्षद्वीप (plakSadvIpa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaप्लक्षद्वीप
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸಪ್ತದ್ವೀಪಗಳಲ್ಲೊಂದು
वैजयन्तीकोषः
SanskritWord: प्लक्षद्वीपः
Root: प्लक्षद्वीप
Gender: पुं
Number: all
अर्थः ⇒
Meaning(s):
⇒ Island surrounded by sugar-cane sea
Shloka(s):
3|1|11|1 ► प्लक्षद्वीपादयोऽप्येवं वृता इक्षूदकादिभिः। (भूमिकाण्डः/देशाध्यायः)
Synonym(s):
➠ 3|1|11|1 ⇢ प्लक्षद्वीपः (प्लक्षद्वीप) (पुं) ⇒ Island surrounded by sugar-cane sea ⇒
Related word(s):
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
पुराणम्
Englishप्लक्षद्वीप / PLAKṢADVĪPA. One of the seven dvīpas (islands). (See under Saptadvīpa.)
शब्दकल्पद्रुमः
Sanskritप्लक्षद्वीपः, (प्लक्षतरूपलक्षितो द्वीपः ।) सप्त-द्वीपान्तर्गतद्बीपविशेषः । तस्य विवरणं यथा, सूत उवाच ।“जम्बुद्वीपस्य विस्ताराद्द्विगुणेन समन्ततः ।संवेष्टयित्वा क्षीरोदं प्लक्षद्बीपो व्यवस्थितः ॥
प्लक्षद्बीपे च विप्रेन्द्राः सप्तासन् कुलपर्व्वताः ।ऋज्वायताः सुपर्व्वाणः सिद्धसंघनिषेविताः ॥
गोमेरुः प्रथमस्तेषां द्बितीयश्चन्द्र उच्यते ।नारदो दुन्दुभिश्चैव सोमश्च ऋषभस्तथा ॥
विभ्राजः सप्तमः प्रोक्तो ब्रह्मणोऽत्यन्तवल्लभः ।तत्र देवर्षिगन्धर्व्वैः सिद्धैश्च भगवानजः ॥
उपास्यते स विश्वात्मा साक्षी सर्व्वस्य विश्वसृक ।तेषु पुण्या जनपदा नाधयो व्याधयोऽपि च ॥
न तत्र पापकर्त्तारः पुरुषा वा कदाचन ।तेषां नद्यः सप्त चैव वर्षाणान्तु समुद्रगाः ॥
तासु ब्रह्मर्षयो नित्यं पितामहमुपासते ।अनुतप्ता शिखी चैव विपाशा त्रिदिवा कृता ॥
अनृता सुकृता चैव नामतः परिकीर्त्तिताः ।क्षुद्रनद्यस्त्वसंख्याताः सरांसि सुबहून्यपि ॥
न वै तेषु युगावस्थाः पुरुषा वै चिरायुषः ।आर्य्यकाः कुरवाश्चैव विदशा भाविनस्तथा ॥
ब्रह्मक्षत्त्रियविट्शूद्रास्तस्मिन् द्बीपे प्रकीर्त्तिताः ।इज्यते भगवान् सोमो वर्णैस्तत्र निवासिभिः ॥
तेषाञ्च सोमसायुज्यं सारूप्यं मुनिपुङ्गवाः ।सर्व्वे धर्म्मपरा नित्यं नित्यं मुदितमानसाः ॥
पञ्चवर्षसहस्राणि जीवन्ति च निरामयाः ॥
”इति कौर्म्मे भुवनकोषे ४६ अध्यायः ॥
* ॥
अपि च “ऋषिरुवाच । अतःपरं प्लक्षादीनांप्रमाणलक्षणसंस्थानतो वर्षविभाग उपवर्ण्यते ।जम्बुद्वीपो यावत्प्रमाणविस्तारस्तावता क्षारो-दधिना परिवेष्टितो यथा मेरुर्जम्ब्वाख्येन । लवणो-दधिरपि ततो द्विगुणविशालेन प्लक्षाख्येन परि-क्षिप्तो यथा परिखा बाह्योपवनेन । प्लक्षोजम्बुप्रमाणो द्वीपाख्यातिकरो हिरण्मय उत्थितोयत्राग्निरुपास्ते सप्तजिह्वः । तस्याधिपतिः प्रिय-व्रतात्मज इध्मजिह्वस्तं द्बीपं सप्तवर्षाणि विभज्यसप्तवर्षनामभ्य आत्मजेभ्य आकलय्य स्वयमात्म-योगेनोपरराम । शिवं वयसं सुभद्रं शान्तं क्षेम-ममृतमभयमिति वर्षाणि । तेषु गिरयो नद्यश्चसप्तैवाभिज्ञाताः । मणिकूटो वज्रकूट इन्द्रसेनोज्योतिष्मान् सुवर्णो हिरण्यष्ठीवो मेघमाल इतिसेतुशैलाः । अरुणा नृमणा आङ्गिरसी सावित्रीसुप्रभाता ऋतम्भरा सत्यम्भरेति महानद्यः ।यासां जलोपस्पर्शनविधतरजस्तमसो हंसपतङ्गो-र्द्धायनसत्याङ्गसंज्ञाश्चत्वारो वर्णाः सहस्रायुषोविबुधोपमसन्दर्शनप्रजननाः स्वर्गद्वारं त्रय्याविद्यया भगवन्तं त्रयीमयं सूर्य्यमात्मानं यजन्ते ।प्रत्नस्य विष्णो रूपं यत् सत्यर्त्तस्य ब्रह्मणः । अमृ-तस्य च मृत्योश्च सूर्य्यमात्मानमीमहीति ॥
प्लक्षा-दिषु पञ्चसु पुरुषाणामायुरिन्द्रियमोजः सहोबलं बुद्धिर्विक्रम इति च सर्व्वेषामौत्पत्तिकीसिद्धिरविशेषेण वर्त्तते । प्लक्षश्च समानेनेक्षुरसोदेनावृतः ।” इति श्रीभागवते ५ स्कन्धे२० अध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
